भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 71, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 71

६ समराङ्गणसूत्रधारे। युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः। कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ॥ ९ ॥ कति देशाः कति भुवः पृथक्त्वेन निरूपिताः। कार्यः क्व च कथं सन्निवेशो जनपदाश्रयः ॥ १० ॥ ˚व्यक्तचिह्नैः स्वनस्पर्शगन्धवर्णरसादिभिः। काः शस्ता निन्दिताः काश्च पुराणामपि भूमयः ॥ ११ ॥ कार्यं केन विधानेन भूभृत्पुरनिवेशनम्। किं फलं सुविविष्टेऽस्मिन् दुर्विशिष्टे च किं पुनः ॥ १२ ॥ कतिप्रकारं दुर्गं च दुर्गकर्मक्रमश्च कः। किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ॥ १३ ॥ कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः। प्राकारगोपुराट्टालपरिखावप्रकर्म च ॥ १४ ॥ तमङ्गनिर्गमद्वारप्रतोल्यट्टालकादिभिः। कीदृशः प्रविभागश्च रथ्याचत्वरवत्मर्भिः ॥ १५ ॥ भूमिप्रमाणसंस्थानं सीमा चैं क्षेत्रदिक्पथैः। : नगरग्रामखेटानां निवेषाः स्युः पृथक् पृथक् ॥ १६ ॥ पुरस्याभ्यन्तरे पूर्वं कैर्द्रव्यैावयवक्रमैः। कस्मिन् स्थाने कथं कार्यं शक्रध्वजनिवेशनम् ॥ १७ ॥ प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः। हिताय नृपलोकानां विधातव्यो महोत्सवः ॥ १८ ॥ गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च। भागैर्बाह्यान्तरैः कैः कैः कार्याः काः काश्च देवताः ॥ १९ ॥ कैः कैर्यानपरीवारवर्णरूपविभूषणैः। कार्याः कैः कैः सुरा वस्त्रवयोवेषायुधध्वजैः ॥ २० ॥ १ क. ख. द. व्यक्तिचिह्नैः। २ द. विनिन्दितम्। ३ क. ग. भू. पाठः, ख. द. च।