भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 70, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 70

प्रश्नस्तृतीयोऽध्यायः । ५ तानित्थमात्मतनयानभिधाय सम्यक् सारार्थभूतमपरिस्फुटनोज्झितं च । १स्थानार्पितोरुभरनिर्वृतचित्तवृत्ति- स्तूष्णीं प्रभासतनयो नयविज्जगाम ॥ १५ ॥ इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे २विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ॥ छ ॥ अथ प्रश्नो नाम तृतीयोऽध्यायः । अथ तेषु जयो नाम वाक्यं तद् विश्वकर्मणः । श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥ १ ॥ ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल । वृणोषि तेन न वयमात्मानं बहु मन्महे ॥ २ ॥ तदिदानीं हितार्थे नः प्रजानामपि च प्रभो ! । अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥ ३ ॥ पूर्वमेकार्णवे जाते जगति प्रलयं गते । महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥ ४ ॥ किमाकारा किमाधारा किंप्रमाणा च मेदिनी । विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ॥ ५ ॥ उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः । कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥ ६ ॥ काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक् पृथक् । भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥ ७ ॥ किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः । लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ॥ ८ ॥ १ क. स्थानार्पणातिशयनिं । २ क. ' जयविजयसिद्धार्थापराजितसुतागमनो नाम ' ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 70, कुल 726 में से · BharatKosha