समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 69, कुल 726 में से
संदर्भ में पढ़ें४ समराङ्गणसूत्रधारे तानुवाच मुनिर्वत्सा ! विदितं वो यथा पुरा । १वास्तुब्रह्म सदा विश्वं व्याप्नोति सकलं जगत् ॥ ४ ॥ २धम्र्म्यं कर्म तदा स्वेष्ट३प्राप्त्यै लोकावनानि च । व्यवस्थाप्य चकारैष लोकपालश्च कल्पनाम् ॥ ५ ॥ अहमप्यमुना विश्वनाथेनाम्बुजजन्मना । लोकानां ४सन्निवेशार्थमादिष्टोऽस्मि स्वयम्भुवा ॥ ६ ॥ रम्याणि नगरोद्यानसभास्थानान्यथो मया । सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥ ७ ॥ गत्वोर्वीं वैन्यनृपतेर्वत्साः ! प्रियचिकीर्षया । नगरग्रामखेटादीन् करिष्यामि पृथक् पृथक् ॥ ८ ॥ कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते । सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ॥ ९ ॥ यतस्त्रिभुवनालोकप्रोद्यतस्याब्जिनीपतेः । सहायतां तमश्छेदे कलयन्ति मरीचयः ॥ १० ॥ स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम् । विचित्रनगरग्रामखेटामतिमनोहराम् ॥ ११ ॥ भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् । तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकताश्रयान् ॥ १२ ॥ ६अन्तरेष्वध्वपाथोधीशैलानां सरितां तथा । विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥ १३ ॥ वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः । विधेयानि प्रतिग्रामं प्रतिपूर्ः प्रतिपत्तनम् ॥ १४ ॥ १ द. सपर्य्यादौ विश्वाप्यखिलं तथा; क....... व्याप्नोति सकलं जगत् । वास्तुब्रह्मेत्यादि मूल- स्थितः श्रष्ठः पाठः शास्त्रिभिः टिप्पण्यां प्रदत्तः, स तु पाटनप्रतेः प्रतीयते । २ द. धर्म्मं । ३ द. स्वेष्ट; क. श्रेष्ठच; ख. श्रेष्ठ । ४ ख. द. सत्रिवासार्थं । ५ द. प्रतौ मूलपाठः प्रोद्यत°, पश्चादिकृतः प्रद्योत° । क. त्रुटितः; ख. प्रद्योत° । ६ द. अन्तरेष्वध्वनाम्भोधि° । ७ ख. द. संजातभयशान्तये । ८ द. प्रतिष्टः ।