समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 68, कुल 726 में से
संदर्भ में पढ़ेंविश्वकर्मणः पुत्रसंवादो द्वितीयोऽध्यायः । ३ तदेष त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः । १सुतः प्रभासस्य विभोः स्वस्त्रीयश्च बृहस्पतेः ॥ १९ ॥ २विश्वाभिसायीधीः सर्वं विश्वकर्मा करिष्यति । राजन्नसौ महेन्द्रस्य विदधावमरावतीम् ॥ २० ॥ ३अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः । त्वया क्षेत्रीकृतां मूर्त्तिं दृष्ट्वा साद्रिद्रुमामसौ ॥ २१ ॥ सन्निवेशान् पुरग्रामनगराणां विधास्यति । तद् गच्छ वत्स ! लोकानामितस्त्वं हितकाम्यया ॥ २२ ॥ भयोज्झिता त्वमप्युर्वि ! पृथोः प्रियकरी भव । काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥ २३ ॥ त्वमप्यखिलमेवैतद् ५विश्वकर्म(न्) ! करिष्यसि । इत्युक्तवा गमनमुपेयुषि प्रजेशे ६स्वं स्थानं क्षितिभुजि चाश्रिते मुदोर्व्याम् । प्रालेयावनिभृतमाजगाम खेलत्सिद्धस्त्रीपरिगतमाशु विश्वकर्मा ॥ २४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे 'महासमागमनो नाम प्रथमोऽध्यायः' ॥ अथ विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः । अथ पृष्ठे हिमगिरेः शशाङ्कशुचिरोचिषि । सिद्धामरवधूमुक्तमणि८मञ्जुगुहागृहे ॥ १ ॥ विस्तीर्णासनमासीनं सर्वज्ञमथ संस्मृताः । आययुर्विश्वकर्माणं चत्वारो मानसाः सुताः ॥ २ ॥ जयो विजयसिद्धार्थौ चतुर्थश्चापराजितः । तमुपागम्य शिरसा नेमुः प्राञ्जलयो मुनिम् ॥ ३ ॥ १ क. श्रुतप्रभावश्च विभो प्रीतये ते बृहस्पतिः । २ शा. विश्वातिशायि° । द. विश्वाभिसायी । ३ क. सुराणामपि चान्येषां । ४ द. ग्रामभगवादीनविं ५ क. विश्वकर्मा, द. विश्वकर्म । ६ द. यं । ७ द. पृथिव्याख्याना शास्त्रसंभवा° । ८ द. पाणिगुहा° । ९ द. स्मृताः । १० द. भूयो ।