समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 67, कुल 726 में से
संदर्भ में पढ़ें२ समराङ्गणसूत्रधारे भगवन्नहमेतेन पृथुना पृथुतेजसा । उप(ङ् ? द्रु)ता त्वां शरणं प्राप्ता त्रायस्व मां ततः ॥ ८ ॥ वदन्त्यामिति मेदिन्यामाविरासीदथो पृथुः । संरम्भमुक्तहृदयो ब्रह्माणं प्रणनाम च ॥ ९ ॥ जगादैनमथ स्निग्धध्वनिगम्भीरया गिरा । कुर्वंस्तद्यानहंसानां पयोदध्वनिशङ्कितम् ॥ १० ॥ त्वयास्मि जगतां नाथ ! जगतोऽधिपतिः कृतः । स्थापितानि च भूतानि सर्वाण्यपि वशे मम ॥ ११ ॥ तेष्वियं मम विश्वेश ! कदाचिद् वशवर्तिनी । समीकरोमि पाषाणजालान्यस्याः किलाधुना ॥ १२ ॥ व्यस्तानि धनुषा तावद् गौर्भूत्वेयं पलायिता । दोग्धुकामोऽहमप्येनां चिरमन्वगमं महीम् ॥ १३ ॥ यत्रक्वापि² प्रयात्येषा तत्र मामेव पश्यति । अपश्यन्त्यन्यतस्त्राणमदुग्धा त्वामुपस्थिता ॥ १४ ॥ अस्यां वर्णाश्रमस्थानविभागश्च विधास्यते । इयं च दुर्गमानेकक्षोणीधरकुलाकुला ॥ १५ ॥ विधास्येऽस्यां कथं त्वेतदिति मे शङ्कितं मनः । पृथुनेत्यथ विज्ञप्तो³ भगवानब्जसम्भवः ॥ १६ ॥ उवाच बोधयन्नेनं⁴ कृत्वा भूमिं च निर्भयाम् । इयं मही महीपाल ! विधिवत् पालिता सती ॥ १७ ॥ सस्यैरूत्पाद्य⁵ निष्पन्नैस्तव भोग्या भविष्यति । यच्च ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥ १८ ॥ १ क. प्रतेरारम्भः । २ ख-द आदर्शौ अत आरभ्येते । ३ द. विज्ञप्ते । ४ द. ज्ञेवं विकीर्य विभयां भुवम् । ५ क. रद्यैव, द. रुपाय । गणपतिशास्त्रिभिः उपाय-इति पाठनिर्देशः कृतः अस्माभिः उत्पाद्य इति ।