समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 66, कुल 726 में से
संदर्भ में पढ़ें॥ श्रीः ॥ श्रीगणेशाय नमः । महाराजाधिराजश्रीभोजदेवविरचितं समराङ्गणसूत्रधारापरनामधेयं वास्तुशास्त्रम् । महासमागमनो नाम प्रथमोऽध्यायः । देवः स पातु भुवनत्रयसूत्रधार- स्त्वां बालचन्द्रकलिकाङ्कितजूटकोटिः । एतत् समग्रमपि कारणमन्तरेण कात्स्न्यादसूत्रितमसूत्रयत येन विश्वम् ॥ १ ॥ सुखं धनानि ऋद्धिश्च सन्ततिः सर्वदा नृणाम् । प्रियाण्येषां तु संसिद्ध्यै सर्वं स्याच्छुभलक्षणम् ॥ २ ॥ यच्च निन्दितलक्ष्मा(च ? त्र)तदेतेषां विघातकृत् । अतः सर्वमुपादेयं (यद् ) भवेच्छुभलक्षणम् ॥ ३ ॥ देशः पुरं निवासश्च सभा वेश्मासनानि च । यद्यदीदृशमन्यच्च तत्तच्छ्रेयस्करं मतम् ॥ ४ ॥ वास्तुशास्त्रादृते तस्य न स्याल्लक्षणनिश्चयः । तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥ ५ ॥ अथैकदा जगज्जन्महेतुमम्बुरुहासनम् । पृथ्वी पृथुभयभ्रान्ता चकिताक्षी समाययौ ॥ ६ ॥ प्रणम्य प्रणतिप्रह्वनिखिलत्रिदशेश्वरम् । सगद्गदमुवाचेति भूतधात्री पितामहम् ॥ ७ ॥