समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
॥ श्रीः ॥ श्रीगणेशाय नमः । महाराजाधिराजश्रीभोजदेवविरचितं समराङ्गणसूत्रधारापरनामधेयं वास्तुशास्त्रम् । महासमागमनो नाम प्रथमोऽध्यायः । देवः स पातु भुवनत्रयसूत्रधार- स्त्वां बालचन्द्रकलिकाङ्कितजूटकोटिः । एतत् समग्रमपि कारणमन्तरेण कात्स्न्यादसूत्रितमसूत्रयत येन विश्वम् ॥ १ ॥ सुखं धनानि ऋद्धिश्च सन्ततिः सर्वदा नृणाम् । प्रियाण्येषां तु संसिद्ध्यै सर्वं स्याच्छुभलक्षणम् ॥ २ ॥ यच्च निन्दितलक्ष्मा(च ? त्र)तदेतेषां विघातकृत् । अतः सर्वमुपादेयं (यद् ) भवेच्छुभलक्षणम् ॥ ३ ॥ देशः पुरं निवासश्च सभा वेश्मासनानि च । यद्यदीदृशमन्यच्च तत्तच्छ्रेयस्करं मतम् ॥ ४ ॥ वास्तुशास्त्रादृते तस्य न स्याल्लक्षणनिश्चयः । तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥ ५ ॥ अथैकदा जगज्जन्महेतुमम्बुरुहासनम् । पृथ्वी पृथुभयभ्रान्ता चकिताक्षी समाययौ ॥ ६ ॥ प्रणम्य प्रणतिप्रह्वनिखिलत्रिदशेश्वरम् । सगद्गदमुवाचेति भूतधात्री पितामहम् ॥ ७ ॥
२ समराङ्गणसूत्रधारे भगवन्नहमेतेन पृथुना पृथुतेजसा । उप(ङ् ? द्रु)ता त्वां शरणं प्राप्ता त्रायस्व मां ततः ॥ ८ ॥ वदन्त्यामिति मेदिन्यामाविरासीदथो पृथुः । संरम्भमुक्तहृदयो ब्रह्माणं प्रणनाम च ॥ ९ ॥ जगादैनमथ स्निग्धध्वनिगम्भीरया गिरा । कुर्वंस्तद्यानहंसानां पयोदध्वनिशङ्कितम् ॥ १० ॥ त्वयास्मि जगतां नाथ ! जगतोऽधिपतिः कृतः । स्थापितानि च भूतानि सर्वाण्यपि वशे मम ॥ ११ ॥ तेष्वियं मम विश्वेश ! कदाचिद् वशवर्तिनी । समीकरोमि पाषाणजालान्यस्याः किलाधुना ॥ १२ ॥ व्यस्तानि धनुषा तावद् गौर्भूत्वेयं पलायिता । दोग्धुकामोऽहमप्येनां चिरमन्वगमं महीम् ॥ १३ ॥ यत्रक्वापि² प्रयात्येषा तत्र मामेव पश्यति । अपश्यन्त्यन्यतस्त्राणमदुग्धा त्वामुपस्थिता ॥ १४ ॥ अस्यां वर्णाश्रमस्थानविभागश्च विधास्यते । इयं च दुर्गमानेकक्षोणीधरकुलाकुला ॥ १५ ॥ विधास्येऽस्यां कथं त्वेतदिति मे शङ्कितं मनः । पृथुनेत्यथ विज्ञप्तो³ भगवानब्जसम्भवः ॥ १६ ॥ उवाच बोधयन्नेनं⁴ कृत्वा भूमिं च निर्भयाम् । इयं मही महीपाल ! विधिवत् पालिता सती ॥ १७ ॥ सस्यैरूत्पाद्य⁵ निष्पन्नैस्तव भोग्या भविष्यति । यच्च ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥ १८ ॥ १ क. प्रतेरारम्भः । २ ख-द आदर्शौ अत आरभ्येते । ३ द. विज्ञप्ते । ४ द. ज्ञेवं विकीर्य विभयां भुवम् । ५ क. रद्यैव, द. रुपाय । गणपतिशास्त्रिभिः उपाय-इति पाठनिर्देशः कृतः अस्माभिः उत्पाद्य इति ।
विश्वकर्मणः पुत्रसंवादो द्वितीयोऽध्यायः । ३ तदेष त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः । १सुतः प्रभासस्य विभोः स्वस्त्रीयश्च बृहस्पतेः ॥ १९ ॥ २विश्वाभिसायीधीः सर्वं विश्वकर्मा करिष्यति । राजन्नसौ महेन्द्रस्य विदधावमरावतीम् ॥ २० ॥ ३अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः । त्वया क्षेत्रीकृतां मूर्त्तिं दृष्ट्वा साद्रिद्रुमामसौ ॥ २१ ॥ सन्निवेशान् पुरग्रामनगराणां विधास्यति । तद् गच्छ वत्स ! लोकानामितस्त्वं हितकाम्यया ॥ २२ ॥ भयोज्झिता त्वमप्युर्वि ! पृथोः प्रियकरी भव । काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥ २३ ॥ त्वमप्यखिलमेवैतद् ५विश्वकर्म(न्) ! करिष्यसि । इत्युक्तवा गमनमुपेयुषि प्रजेशे ६स्वं स्थानं क्षितिभुजि चाश्रिते मुदोर्व्याम् । प्रालेयावनिभृतमाजगाम खेलत्सिद्धस्त्रीपरिगतमाशु विश्वकर्मा ॥ २४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे 'महासमागमनो नाम प्रथमोऽध्यायः' ॥ अथ विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः । अथ पृष्ठे हिमगिरेः शशाङ्कशुचिरोचिषि । सिद्धामरवधूमुक्तमणि८मञ्जुगुहागृहे ॥ १ ॥ विस्तीर्णासनमासीनं सर्वज्ञमथ संस्मृताः । आययुर्विश्वकर्माणं चत्वारो मानसाः सुताः ॥ २ ॥ जयो विजयसिद्धार्थौ चतुर्थश्चापराजितः । तमुपागम्य शिरसा नेमुः प्राञ्जलयो मुनिम् ॥ ३ ॥ १ क. श्रुतप्रभावश्च विभो प्रीतये ते बृहस्पतिः । २ शा. विश्वातिशायि° । द. विश्वाभिसायी । ३ क. सुराणामपि चान्येषां । ४ द. ग्रामभगवादीनविं ५ क. विश्वकर्मा, द. विश्वकर्म । ६ द. यं । ७ द. पृथिव्याख्याना शास्त्रसंभवा° । ८ द. पाणिगुहा° । ९ द. स्मृताः । १० द. भूयो ।
४ समराङ्गणसूत्रधारे तानुवाच मुनिर्वत्सा ! विदितं वो यथा पुरा । १वास्तुब्रह्म सदा विश्वं व्याप्नोति सकलं जगत् ॥ ४ ॥ २धम्र्म्यं कर्म तदा स्वेष्ट३प्राप्त्यै लोकावनानि च । व्यवस्थाप्य चकारैष लोकपालश्च कल्पनाम् ॥ ५ ॥ अहमप्यमुना विश्वनाथेनाम्बुजजन्मना । लोकानां ४सन्निवेशार्थमादिष्टोऽस्मि स्वयम्भुवा ॥ ६ ॥ रम्याणि नगरोद्यानसभास्थानान्यथो मया । सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥ ७ ॥ गत्वोर्वीं वैन्यनृपतेर्वत्साः ! प्रियचिकीर्षया । नगरग्रामखेटादीन् करिष्यामि पृथक् पृथक् ॥ ८ ॥ कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते । सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ॥ ९ ॥ यतस्त्रिभुवनालोकप्रोद्यतस्याब्जिनीपतेः । सहायतां तमश्छेदे कलयन्ति मरीचयः ॥ १० ॥ स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम् । विचित्रनगरग्रामखेटामतिमनोहराम् ॥ ११ ॥ भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् । तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकताश्रयान् ॥ १२ ॥ ६अन्तरेष्वध्वपाथोधीशैलानां सरितां तथा । विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥ १३ ॥ वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः । विधेयानि प्रतिग्रामं प्रतिपूर्ः प्रतिपत्तनम् ॥ १४ ॥ १ द. सपर्य्यादौ विश्वाप्यखिलं तथा; क....... व्याप्नोति सकलं जगत् । वास्तुब्रह्मेत्यादि मूल- स्थितः श्रष्ठः पाठः शास्त्रिभिः टिप्पण्यां प्रदत्तः, स तु पाटनप्रतेः प्रतीयते । २ द. धर्म्मं । ३ द. स्वेष्ट; क. श्रेष्ठच; ख. श्रेष्ठ । ४ ख. द. सत्रिवासार्थं । ५ द. प्रतौ मूलपाठः प्रोद्यत°, पश्चादिकृतः प्रद्योत° । क. त्रुटितः; ख. प्रद्योत° । ६ द. अन्तरेष्वध्वनाम्भोधि° । ७ ख. द. संजातभयशान्तये । ८ द. प्रतिष्टः ।
प्रश्नस्तृतीयोऽध्यायः । ५ तानित्थमात्मतनयानभिधाय सम्यक् सारार्थभूतमपरिस्फुटनोज्झितं च । १स्थानार्पितोरुभरनिर्वृतचित्तवृत्ति- स्तूष्णीं प्रभासतनयो नयविज्जगाम ॥ १५ ॥ इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे २विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ॥ छ ॥ अथ प्रश्नो नाम तृतीयोऽध्यायः । अथ तेषु जयो नाम वाक्यं तद् विश्वकर्मणः । श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥ १ ॥ ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल । वृणोषि तेन न वयमात्मानं बहु मन्महे ॥ २ ॥ तदिदानीं हितार्थे नः प्रजानामपि च प्रभो ! । अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥ ३ ॥ पूर्वमेकार्णवे जाते जगति प्रलयं गते । महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥ ४ ॥ किमाकारा किमाधारा किंप्रमाणा च मेदिनी । विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ॥ ५ ॥ उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः । कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥ ६ ॥ काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक् पृथक् । भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥ ७ ॥ किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः । लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ॥ ८ ॥ १ क. स्थानार्पणातिशयनिं । २ क. ' जयविजयसिद्धार्थापराजितसुतागमनो नाम ' ।
६ समराङ्गणसूत्रधारे। युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः। कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ॥ ९ ॥ कति देशाः कति भुवः पृथक्त्वेन निरूपिताः। कार्यः क्व च कथं सन्निवेशो जनपदाश्रयः ॥ १० ॥ ˚व्यक्तचिह्नैः स्वनस्पर्शगन्धवर्णरसादिभिः। काः शस्ता निन्दिताः काश्च पुराणामपि भूमयः ॥ ११ ॥ कार्यं केन विधानेन भूभृत्पुरनिवेशनम्। किं फलं सुविविष्टेऽस्मिन् दुर्विशिष्टे च किं पुनः ॥ १२ ॥ कतिप्रकारं दुर्गं च दुर्गकर्मक्रमश्च कः। किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ॥ १३ ॥ कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः। प्राकारगोपुराट्टालपरिखावप्रकर्म च ॥ १४ ॥ तमङ्गनिर्गमद्वारप्रतोल्यट्टालकादिभिः। कीदृशः प्रविभागश्च रथ्याचत्वरवत्मर्भिः ॥ १५ ॥ भूमिप्रमाणसंस्थानं सीमा चैं क्षेत्रदिक्पथैः। : नगरग्रामखेटानां निवेषाः स्युः पृथक् पृथक् ॥ १६ ॥ पुरस्याभ्यन्तरे पूर्वं कैर्द्रव्यैावयवक्रमैः। कस्मिन् स्थाने कथं कार्यं शक्रध्वजनिवेशनम् ॥ १७ ॥ प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः। हिताय नृपलोकानां विधातव्यो महोत्सवः ॥ १८ ॥ गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च। भागैर्बाह्यान्तरैः कैः कैः कार्याः काः काश्च देवताः ॥ १९ ॥ कैः कैर्यानपरीवारवर्णरूपविभूषणैः। कार्याः कैः कैः सुरा वस्त्रवयोवेषायुधध्वजैः ॥ २० ॥ १ क. ख. द. व्यक्तिचिह्नैः। २ द. विनिन्दितम्। ३ क. ग. भू. पाठः, ख. द. च।
प्रमाणमिति संस्थानसङ्ख्यानोच्छ्रयलक्ष्मभिः । प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ॥ २१ ॥ प्राकारपरिखागुप्तं पुरे स्याद् गोपुरं क्व च । युग्ममध्याम्बुवेश्मनि क्व च स्युः क्व महानसम् ॥ २२ ॥ कोष्ठागरायुधस्थानभाण्डागारनिवेशनैः । व्यायामवृत्तसङ्गीतस्नानधारागृहादिभिः ॥ २३ ॥ शय्यावासगृहप्रेक्षावेश्मादर्शगृहैः पृथक् । क्रीडादोलाश्रयारिष्टगृहान्तः पुरवेश्मभिः ॥ २४ ॥ विटङ्कभ्रमनिर्यूहकक्षासंयमनादिभिः । अशोकवनिकाभिश्च लतामण्डपवेश्मभिः ॥ २५ ॥ वापीभिर्दारुगिरिभिश्चित्रामिः पुष्पवीथिभिः । एतैर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥ २६ ॥ मानोन्मानक्रियायामद्रव्याकृतिविनिर्मितः । निकेतननिवेशः स्याद् राज्ञां भागाश्रितः कथम् ॥ २७ ॥ पुरोधःसैन्यभूश्रेष्ठदैवचिन्तकमन्त्रिणाम् । कं कं च भागं प्राप्य स्युर्निवेशा नृपवेश्मनः ॥ २८ ॥ पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च । विप्रराजन्यविट्शूद्रास्तज्जैरन्तरजैः समम् ॥ २९ ॥ तथा कृषितुलांशिल्पकलापण्योपजीविनः । हिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ॥ ३० ॥ निवेशाः कीदृशाश्चैषां कियन्तो वा भवन्ति ते । शस्यं लोकेन वा तेषां कैः प्रवेशजलभ्रमैः ॥ ३१ ॥ धिष्ण्यमात्रं कतिविधं द्रव्याण्याद्यानि कानि वा । हेतुरेषां च सर्वेषां स्याच्च किह्यनुक्रमः ॥ ३२ ॥ १ द. शिल्पकल्याणाद्योप॑ । २ द. सस्यां ( ? शस्यं ) लोकेन वा तेषां । क. शस्यन्ते केन वा तेषां ।
८ समराङ्गणसूत्रधारे भजन्ते योगमन्योन्यं कानि द्रव्याणि कैः सह । कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ॥ ३३ ॥ इष्टकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः । परिकर्मक्रमस्तासां वह्नयम्बुपवनैश्च कः ॥ ३४ ॥ गुरुवर्णिध्वजोर्वीशत्तद्गलप्रतिमा पुराम् । वृक्षाः के के प्रशस्ताः स्युर्गृहार्थे के च गर्हिताः ॥ ३५ ॥ तच्छेदस्रावसंभूतं शब्ददिक्पातगर्भजम् । विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ॥ ३६ ॥ प्रमाणं तक्षणच्छेदैः १शोधितानां कथं भवेत् । आहृत्य स्थापनं पूर्वं दारूणां स्थानके क्व च ॥ ३७ ॥ सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः । प्रशस्तैर्लक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ॥ ३८ ॥ शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च । २दिग्ग्रहः सूत्रणं चाधिवासनं च कथं भवेत् ॥ ३९ ॥ प्रमाणं मूलपादस्य शिलान्यासे च को विधिः । विभज्यते कथं वेश्म शालालिन्दविभाजनैः ॥ ४० ॥ मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के । कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ॥ ४१ ॥ समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह । नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥ ४२ ॥ जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च । कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ॥ ४३ ॥ स्वमानात् सर्ववर्णानां तलोच्छ्रायास्तु कीदृशाः । का गवाक्षकपोतालिवेदिकाजालकक्रियाः ॥ ४४ ॥ १ द. ख. ग. साधितानां । २ द. दिग्वहसू० ।
प्रश्नस्तृतीयोऽध्यायः । ९ स्थूणा ^१निस्सृष्टिकोत्सूका मृगा(ल्यो ? ल्यु)पतुलास्तथा । सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥ ४५ ॥ छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः । त्र्यश्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ॥ ४६ ॥ सीमालिन्दशिरस्तासां कीदृशी ^३चावलम्बना । कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥ ४७ ॥ यच्चान्यदेवमादि स्यात् प्रासादभवनादिषु । द्रव्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ॥ ४८ ॥ शालालिन्दप्रमाणानि चतुःशालेषु धामसु । ज्यायोमध्ययवीयस्सु मूषाभिः काष्ठकल्पना ॥ ४९ ॥ एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च । कथं कति च वेश्मानि ^४कल्प्यन्ते प्रविभागशः ॥ ५० ॥ कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् । संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥ ५१ ॥ आद्यो नवपदो वास्तुरन्त्यः साहस्रिकः कथम् । अङ्गप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ॥ ५२ ॥ कथमेते सुराः सर्वे वास्तोरस्य व्यवस्थिताः । एतद्वंशशिरश्श्रोत्रुःकुक्षिहृन्मूर्धमर्मसु ॥ ५३ ॥ जायेत पीडा द्रव्येषु सन्निविष्टेषु कस्य का । वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥ ५४ ॥ दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् । दारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ॥ ५५ ॥ ^६योज्यं किं किमयोग्यं च किं भूपभवनादिषु । हस्तस्य लक्षणं मानसंज्ञा वै ज्ञायते कथम् ॥ ५६ ॥ १ द. णिमृष्टिकोत्सूकामृगाल्योपतुलास्तथा । २ द. लुमानां । ३ द. भावलम्बना । ४ द. कल्पन्ते । ५ द. शिरोकक्ष । ६ द. अंगप्रत्यंगयोज्यं किं किमयोग्यं च । वा. २
१० समराङ्गणसूत्रधारे किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् । अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥ ५७॥ विधेयं विधिना केन भवने च प्रवेशनम् । पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥ ५८ ॥ निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु । मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ॥ ५९ ॥ जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः । इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च । अस्मास्वनल्पकरुणार्द्रितचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनु- क्रमेण ॥ ६० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रश्नाध्यायस्तृतीयः ॥ अथ महदादिसर्गश्चतुर्थोऽध्यायः । जयस्येति समाकर्ण्य विश्वकर्मा च तद् वचः । जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥ १॥ साधु वत्स ! त्वया सम्यक् प्रज्ञयातिविशुद्धया । प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥ २ ॥ स त्वं निधाय प्रश्नानां समुदायममुं हृदि । वदतो मेऽवधानेन शृणु यद् ब्रह्मणोदितम् ॥ ३ ॥ इदमासीद् युगान्ताग्निप्लुष्टं संवर्तकादिभिः । समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥ ४ ॥ तमोभूते ततस्तस्मिन् भोगिपर्यङ्कमाश्रितः । हरिः सुष्याप सलिले कृत्वोदरगतं जगत् ॥ ५ ॥ अथास्य नाभावम्भोजमभूत् तस्मिन्नजायत । सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥ ६॥ स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः । महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥ ७ ॥
महदादिसर्गश्चतुर्थोऽध्यायः । ११ त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः । राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥ ८ ॥ तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् । व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥ ९ ॥ अधरोत्तरभावश्च सम्यगेषामथोच्यते । आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥ १० ॥ तस्याप्यधस्तात् पवनस्ततः खमवकाशदम् । भूतादिस्थं वियत् सोऽपि महता परिवारितः ॥ ११ ॥ महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः । ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥ १२ ॥ आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ । महाभूतानि सगुणान्येवं सृष्ट्वा ततः प्रभुः ॥ १३ ॥ मनः पुनरसौ सर्गे भौतिके सम्यगादधौ¹ । सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान्² ॥ १४ ॥ ³नागान् मुनीनप्सरसो मनसा समजीजनत् । अर्केन्दू चक्षु (षी ? षो) जातौ गगनभ्रमणक्षमौ ॥ १५ ॥ गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत । इन्द्रियेभ्यश्च पञ्चभ्योऽभूत् ताराग्रहपञ्चकम् ॥ १६ ॥ ग्रहत्वं पुनरेतेषामिन्द्रियग्रहणाद् विदुः । सुरेन्द्रचापचिह्नानां विद्युद्वलयशालिनाम् ॥ १७ ॥ भीमाशनिभृतां चासीत् केशेभ्योऽम्बुमुचां भवः । विश्वमापूरयन् कृत्स्नमाविरासीत् तदिच्छया ॥ १८ ॥ त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः । ततश्चण्डानिलोद्भूतमुपर्यर्कांशुतापितम् ॥ १९ ॥ १ द. आदधे । २ द. राक्षसान् । ३ ख. ग. द. सावित्री पुनरप्सरसो ।
१२ समराङ्गणसूत्रधारे वायुभिः शोषमानीतं जगाम घनतां पयः । तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥ २० ॥ विष्णोः १सज्या( ? शय्या )त्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् । न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥ २१ ॥ नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन् । महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥ २२ ॥ यत्र यत्रापुरैक्यं ते तत्र तत्राद्रयोऽभवन् । निश्चलत्वार्थमवनिंश्चर्मवद् वितताथ तैः ॥ २३ ॥ शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् । वृद्धिं गताद्रिनिःष्यन्दैर्भूभृतां प्रविभाजगा ॥ २४ ॥ निम्नगाभूत् ततोऽम्भोधेः कान्ता निम्नानुसारिणी । मेदिन्यन्तेषु २जलधिपर्यन्तेषु विनिर्ययुः ॥ २५ ॥ अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः । सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा३ ॥ २६ ॥ व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती । स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥ २७ ॥ स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् । जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥ २८ ॥ चतुर्धैत्यसृजल्लोके भूतग्रामं चराचरम् । द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥ २९ ॥ ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः । पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥ ३० ॥ ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः । सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥ ३१ ॥ १ द. सज्यात्व ( ? शय्यात्व ); ग. सच्याल । २ द. जलधेः । ३ द. भूधराः ।
भुवनकोशः पञ्चमोऽध्यायः । १३ अरण्यगोचरा जीवाः सप्तैते वत्स ! निर्मिताः । धर्माधर्मविवेक्तिंत्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥ ३२ ॥ अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः । सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥ ३३ ॥ चतुर्धैत्यण्डजन्मानो जन्मनस्ते प्रकीर्त्तिताः । २क्लेद (केप ? केश) समुद्भूताः कृमियूकादिजन्तवः ॥ ३४ ॥ सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः । उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते३ ॥ ३५ ॥ द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः । छन्नान्तःकरणत्वं च स्वस्थानात्यागितापि च ॥ ३६ ॥ छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् । गायत्री भूतसंज्ञे(षां ? षा) चतुर्विंशतिपर्विका ॥ ३७ ॥ ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् । भुवन'भूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः । वसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स ! मे ॥३८॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महदादिस(ङ्गा ? र्गा )ध्यायश्चतुर्थः ॥ अथ भुवनकोशः पञ्चमोऽध्यायः । अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते । विष्कम्भपरिधी वत्स ! बाहुल्यमपि च स्फुटम् ॥ १ ॥ विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः । लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः । विष्कम्भत्रिगुणो यावद् विष्कम्भांशश्च पञ्चमः ॥ २ ॥ १ द. विवेक्तित्वा । २ द. केशकोषेषु (?) । ३ ख. ग. द. ये ।
१४ समराङ्गणसूत्रधारे मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः । द्वात्रिंशत्कोटयः षष्टिलक्षाणि परिधिः क्षितेः ॥ ३ ॥ अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः । योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥ ४ ॥ इति बाहुल्यमेतस्याः क्षितेर्वत्स ! तवोदितम् । चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥ ५ ॥ उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः । तोयादिषु स्थितेयं भूश्चक्रवद् वृत्तशालिनी ॥ ६ ॥ पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् । प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥ ७ ॥ द्वीपादीनां तु पाथोघिनिवेशः पुनरुच्यते । द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥ ८ ॥ जम्बूद्वीपो भवेद् वृत्त:^३ सहस्रशतविस्तृतः । हिमाद्रिर्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥ ९ ॥ श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः । एतस्मादुत्तरेणाद्रेस्तुषाराङ्कितमेखलात् ॥ १० ॥ पूर्वापरायताः सर्वेऽप्यद्रयो यावदम्बुधि । अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥ ११ ॥ वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः । उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥ १२ ॥ सेवितः सिद्धनारीभिरानीलनिषधायतः । सुमेरोः पश्चिमेनाद्रिर्गन्धर्वकुलसङ्कुलः ॥ १३ ॥ माल्यवत्सदृशायामो महीभृद् गन्धमादनः । पर्वतावुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥ १४ ॥ १ द. पात्रस्थापर; शास्त्रिभिः 'वर' पाठः टिप्पण्यां दत्तः । २ द. ख. ग. दीपावनीषु पाथोघेः । ३ क. सम ।
भुवनकोशः पञ्चमोऽध्यायः १९ योजनानां सहस्रे द्वे १सार्धे स्यादुच्छ्रयस्तयोः । श्वेतश्च हेमकूटश्चैत्यन्तयोः पृथिवीधरौ ॥ १५ ॥ योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः । निषधाचलनीलाद्रिमाल्यवद्गन्धमादनाः ॥ १६ ॥ सहस्रयोजनोच्छायाश्चत्वारोऽमी पृथक्पृथक् । एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥ १७ ॥ उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा । मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता२ ॥ १८ ॥ षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः३ । जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥ १९ ॥ द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः । शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥ २० ॥ महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः । कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥ २१ ॥ यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः । तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥ २२ ॥ निवसन्ति सुखं तत्र शेषवासुकितक्षकाः । हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥ २३ ॥ अत्रामराः साप्सरसस्त्रयस्त्रिंशद् वसन्ति ते । वैदूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥ २४ ॥ कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् । श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥ २५ ॥ दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् । महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥ २६ ॥ १ द. ख. ग द्वेद्वे सार्धे उच्छ्रं । २ द. चतुर्युताः । ३ द. विस्तृतः ।
१६ समराङ्गणसूत्रधारे। पितॄणामालयः शृङ्गैरूच्छ्रितैः शृङ्गवान् गिरिः। हिमाचलस्य याम्येन क्षारान्धिवृतमैन्यतः ॥ २७ ॥ वर्षं स्याद् भारतं नाम प्रथमं कार्मुकाकृति। तुषारनिलयस्याद्रेर्हेमकूटाचलस्य च ॥ २८ ॥ मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम्। अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥ २९ ॥ हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम्। निषधाचलनीलाद्रिमाल्यवद्गन्धभूभृताम् ॥ ३० ॥ चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम्। उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥ ३१ ॥ पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम्। श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥ ३२ ॥ मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाह्वयम्। अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥ ३३ ॥ कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते। अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥ ३४ ॥ भद्राश्वमष्टमं वर्षं प्राक्समुद्रान्तमीरितम्। गन्धमादनशैलस्य प्रत्यक् प्राक् चापाम्बुधेः ॥ ३५ ॥ नवमं वर्षमाचार्याः केतुमालं प्रचक्षते। इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥ ३६ ॥ साम्प्रतं पुनरेतेषां प्रमाणमवधारय। प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥ ३७ ॥ योजनानामिहेच्छन्ति चतुरश्रमिलावृतम्। प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥ ३८ ॥ १. द. ख. ग. मध्यतः।
भुवनकोशः पञ्चमोऽध्यायः । १७ एकत्रिशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते । यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥ ३९ ॥ तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता । वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥ ४० ॥ जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः । हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥ ४१ ॥ १सायुतं च सहस्रं ते जीवन्ति रजतत्विषः । इलावृते नराः पद्मरागभासोद्गतास्तथा ॥ ४२ ॥ जम्बूफलरसाहाराः सपादायुतजीविनः । नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥ ४३ ॥ स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी । कैरवोदरसच्छाया भद्राश्वे साङ्गना नराः ॥ ४४ ॥ नीलाभ्रकफलाहारा भवन्त्यत्रायुतायुषः । दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥ ४५ ॥ शरदमयुतं तेषामायुः पनसभोजिनाम् । श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग् जनः ॥ ४६ ॥ हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः । श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्मये ॥ ४७ ॥ जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः । कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥ ४८ ॥ सपादमयुतं देवगर्भाभा गौरकान्तयः । पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥ ४९ ॥ शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी । वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥ ५० ॥ उद्भिन्नाद्रिनदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः । उदश्वद्वीचिमालेन लावणेनाम्बुधिना बहिः ॥ ५१ ॥ १ द. अयुतं सहस्रान्ते । वा. ३
परिक्षिप्तोऽयमुक्तस्ते जम्बूद्वीपो मयाखिलः । द्वादशाम्बुनिधावत्र पृथग् भूमिभृतः स्थिताः ॥ ५२ ॥ त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः । मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥ ५३ ॥ नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे । उदग्भागेऽपि च द्रोणकङ्कचन्द्रा इति त्रयः ॥ ५४ ॥ धूम्रको दुन्दुभिश्चैव सार्द्रकश्चेति पूर्वतः । सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥ ५५ ॥ मग्नास्तदर्धमम्भोद्यौ विस्तुताश्च धराधराः । जुष्टाः सर्वै सुरैः शृङ्गौढिलीढविहायसः ॥ ५६ ॥ ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः । द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥ ५७ ॥ गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः । क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥ ५८ ॥ द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् । खद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥ ५९ ॥ अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः । यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥ ६० ॥ शाके सप्ताद्रयस्तेषूदद्यो जलधरस्तथा । नारको रैवतः श्यामो राजतोऽर्थाम्बिकेयकः ॥ ६१ ॥ चतुःसाहस्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः । तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥ ६२ ॥ वृत्तानां द्वीपवत् तेषां बाह्यतोऽमूननुक्रमात् । वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥ ६३ ॥ जलदाख्यं कुमारं च सुकुमारं मणीचकम् । कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥ ६४ ॥
१ द. यांबिको जयः । ख. जांबिको॑ । जयः ग. पाठः ।
भुवनकोशः पञ्चमोऽध्यायः । १९ कुशे विद्रुमहेमारुणौ द्युतिमानथ पुष्पवान् । कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥ ६५ ॥ विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः । तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥ ६६ ॥ उद्भिदं वेणुवत्संज्ञं सरालम्प्रथ लम्बनम् । वर्षं श्रीमत् प्रभाकृच्च कपिलं १पन्नगाभिधम् ॥ ६७ ॥ क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ । द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त २कुलाद्रयः ॥ ६८ ॥ विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः । अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥ ६९ ॥ ३कुसलाख्याष्टवर्षाख्ये ४परापतमनोनुगे । मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥ ७० ॥ गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा । वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥ ७१ ॥ वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः । वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥ ७२ ॥ गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ । योजनानां चतुःषष्टिसौ सहस्राणि विस्तृतौ ॥ ७३ ॥ उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः । धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥ ७४ ॥ अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः । बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥ ७५ ॥ विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते । सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥ ७६ ॥ व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः । सुरेशानां नगर्योऽस्मिन् मया वत्स ! निवेशिताः ॥ ७७ ॥ १ द. न्यूनगाभिधम् । २ द. ख. ग. कुलाचलाः । ३ द. कुशला° । ४ द. पारापत° ।
ऐन्द्री १वस्वोकसारा प्राग् याम्या संयमनी ततः । प्राचेतसी सुखा पश्चात् तथा सौम्योत्तरे विभा ॥ ७८ ॥ धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि । तथा लोकव्यवस्थार्थं पृथग् लोकभृतः स्थिताः ॥ ७९ ॥ लोकालोकाचलः स्वादुसलिलाद् द्विगुणो बहिः । स्वादूदधिप्रमाणात् स विस्ताराद् द्विगुणोऽपि च ॥ ८० ॥ समुच्छ्रितोऽसौ नियुतं नियुतार्धमधो गतः । पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥ ८१ ॥ तदूध्वं नियुतस्यार्धं मेरुमध्यात् तदन्तरम् । समुद्रासितदेहार्धस्तिग्मांशोः किरणैरयम् ॥ ८२ ॥ तत्समेन च भूम्यर्धेनावृतः परतः पुनः । भौतान्यावरणाण्युर्व्या यस्यैतानि स्थितान्यधः ॥ ८३ ॥ बाह्यतोऽपि च भूम्यूर्ध्वं निविष्टानि तथानघ ! । इति वत्स ! २तव प्रोक्तः सन्निवेशोऽखिलः क्षितेः ॥ ८४ ॥ स्थितिं गतिं च कथयाम्यर्कादीनामतःपरम् । सूर्येन्दुधिष्ण्यज्ञसितभौमार्किंत्रिदशार्चिताः ॥ ८५ ॥ सप्तर्षयो ध्रुवश्चेति भूमेरूर्ध्वं क्रमात् स्थिताः । चत्वारि द्वे तथा भूमेरूर्ध्वमा सूर्यनन्दनात् ॥ ८६ ॥ षडेवमन्तराणि स्युः सहस्राणां शतं शतम् । ३ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥ ८७ ॥ तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः । धरित्रीध्रुवयोर्मध्ये योजनानां चतुर्दश ॥ ८८ ॥ नियुतानि समुत्सेधस्त्रैलोक्यस्य प्रकीर्तितः । एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥ ८९ ॥ महोजनस्तपःसत्यलोकानामुपरि ध्रुवात् । ये स्थिताः सत्यलोकोर्ध्वमधस्तादण्डकर्परात् ॥ ९० ॥
१ द. वस्वौकसारा । २ द. यथोक्त...खिलक्षितेः । ३ द. सूक्ष्मांतराणि ।