समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 79, कुल 726 में से
संदर्भ में पढ़ें१४ समराङ्गणसूत्रधारे मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः । द्वात्रिंशत्कोटयः षष्टिलक्षाणि परिधिः क्षितेः ॥ ३ ॥ अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः । योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥ ४ ॥ इति बाहुल्यमेतस्याः क्षितेर्वत्स ! तवोदितम् । चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥ ५ ॥ उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः । तोयादिषु स्थितेयं भूश्चक्रवद् वृत्तशालिनी ॥ ६ ॥ पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् । प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥ ७ ॥ द्वीपादीनां तु पाथोघिनिवेशः पुनरुच्यते । द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥ ८ ॥ जम्बूद्वीपो भवेद् वृत्त:^३ सहस्रशतविस्तृतः । हिमाद्रिर्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥ ९ ॥ श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः । एतस्मादुत्तरेणाद्रेस्तुषाराङ्कितमेखलात् ॥ १० ॥ पूर्वापरायताः सर्वेऽप्यद्रयो यावदम्बुधि । अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥ ११ ॥ वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः । उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥ १२ ॥ सेवितः सिद्धनारीभिरानीलनिषधायतः । सुमेरोः पश्चिमेनाद्रिर्गन्धर्वकुलसङ्कुलः ॥ १३ ॥ माल्यवत्सदृशायामो महीभृद् गन्धमादनः । पर्वतावुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥ १४ ॥ १ द. पात्रस्थापर; शास्त्रिभिः 'वर' पाठः टिप्पण्यां दत्तः । २ द. ख. ग. दीपावनीषु पाथोघेः । ३ क. सम ।