समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 82, कुल 726 में से
संदर्भ में पढ़ेंभुवनकोशः पञ्चमोऽध्यायः । १७ एकत्रिशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते । यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥ ३९ ॥ तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता । वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥ ४० ॥ जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः । हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥ ४१ ॥ १सायुतं च सहस्रं ते जीवन्ति रजतत्विषः । इलावृते नराः पद्मरागभासोद्गतास्तथा ॥ ४२ ॥ जम्बूफलरसाहाराः सपादायुतजीविनः । नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥ ४३ ॥ स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी । कैरवोदरसच्छाया भद्राश्वे साङ्गना नराः ॥ ४४ ॥ नीलाभ्रकफलाहारा भवन्त्यत्रायुतायुषः । दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥ ४५ ॥ शरदमयुतं तेषामायुः पनसभोजिनाम् । श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग् जनः ॥ ४६ ॥ हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः । श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्मये ॥ ४७ ॥ जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः । कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥ ४८ ॥ सपादमयुतं देवगर्भाभा गौरकान्तयः । पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥ ४९ ॥ शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी । वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥ ५० ॥ उद्भिन्नाद्रिनदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः । उदश्वद्वीचिमालेन लावणेनाम्बुधिना बहिः ॥ ५१ ॥ १ द. अयुतं सहस्रान्ते । वा. ३