भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 76, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 76

महदादिसर्गश्चतुर्थोऽध्यायः । ११ त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः । राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥ ८ ॥ तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् । व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥ ९ ॥ अधरोत्तरभावश्च सम्यगेषामथोच्यते । आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥ १० ॥ तस्याप्यधस्तात् पवनस्ततः खमवकाशदम् । भूतादिस्थं वियत् सोऽपि महता परिवारितः ॥ ११ ॥ महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः । ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥ १२ ॥ आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ । महाभूतानि सगुणान्येवं सृष्ट्वा ततः प्रभुः ॥ १३ ॥ मनः पुनरसौ सर्गे भौतिके सम्यगादधौ¹ । सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान्² ॥ १४ ॥ ³नागान् मुनीनप्सरसो मनसा समजीजनत् । अर्केन्दू चक्षु (षी ? षो) जातौ गगनभ्रमणक्षमौ ॥ १५ ॥ गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत । इन्द्रियेभ्यश्च पञ्चभ्योऽभूत् ताराग्रहपञ्चकम् ॥ १६ ॥ ग्रहत्वं पुनरेतेषामिन्द्रियग्रहणाद् विदुः । सुरेन्द्रचापचिह्नानां विद्युद्वलयशालिनाम् ॥ १७ ॥ भीमाशनिभृतां चासीत् केशेभ्योऽम्बुमुचां भवः । विश्वमापूरयन् कृत्स्नमाविरासीत् तदिच्छया ॥ १८ ॥ त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः । ततश्चण्डानिलोद्भूतमुपर्यर्कांशुतापितम् ॥ १९ ॥ १ द. आदधे । २ द. राक्षसान् । ३ ख. ग. द. सावित्री पुनरप्सरसो ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 76, कुल 726 में से · BharatKosha