समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 75, कुल 726 में से
संदर्भ में पढ़ें१० समराङ्गणसूत्रधारे किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् । अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥ ५७॥ विधेयं विधिना केन भवने च प्रवेशनम् । पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥ ५८ ॥ निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु । मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ॥ ५९ ॥ जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः । इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च । अस्मास्वनल्पकरुणार्द्रितचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनु- क्रमेण ॥ ६० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रश्नाध्यायस्तृतीयः ॥ अथ महदादिसर्गश्चतुर्थोऽध्यायः । जयस्येति समाकर्ण्य विश्वकर्मा च तद् वचः । जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥ १॥ साधु वत्स ! त्वया सम्यक् प्रज्ञयातिविशुद्धया । प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥ २ ॥ स त्वं निधाय प्रश्नानां समुदायममुं हृदि । वदतो मेऽवधानेन शृणु यद् ब्रह्मणोदितम् ॥ ३ ॥ इदमासीद् युगान्ताग्निप्लुष्टं संवर्तकादिभिः । समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥ ४ ॥ तमोभूते ततस्तस्मिन् भोगिपर्यङ्कमाश्रितः । हरिः सुष्याप सलिले कृत्वोदरगतं जगत् ॥ ५ ॥ अथास्य नाभावम्भोजमभूत् तस्मिन्नजायत । सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥ ६॥ स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः । महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥ ७ ॥