समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 722, कुल 726 में से
संदर्भ में पढ़ेंपताकादिचतुष्षष्ठिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६६१ व्यावर्तितकरणाभ्यां ( करिहस्ते ) दक्षिणो लताहस्ता ( स्त ) ः । उन्नतविलोलितः स्यात् त्रिषक्त( पता )को वामहस्तस्तु ॥ २४६ ॥ इति करिहस्तः ॥ उद्वेष्टित( परि ? )वर्तनया त्रिपताकावभिमुखौ यदा घटितौ । करिहस्तसन्निविष्टौ करौ तदा पक्षवञ्चितकौ ॥ २४७ ॥ इति पक्षवञ्चितकौ ॥ तावेव त्रिपताकौ हस्तौ कटिशीर्षसन्निविष्टाग्रौ । विपरावृत्तिविधानात् पक्षप्रच्योतकौ नाम्ना ॥ २४८ ॥ इति पक्षप्रच्योतकौ १ ॥ ( त्रिंप शाखौ हस्तावधोमुखा हि तद् २ ? ) विज्ञेयौ गरुडपक्षाख्यौ । इति गरुडप(क्ष)कौ ३ । [ आवर्तितपरिवर्तितकरणकृतौ हंसपक्षकौ गम् ॥ २४९ ॥ पक्षतिरूपत्वमानान्तौ प्रसृतौ च यदा भवेत् उपक्षौ । *व्यावर्तितपरिवर्तितयोगौ यदि मण्डलाकृती स्याताम् ॥ २५० ॥ ऊर्ध्ववर्तितादघवदा स्मृतावूर्ध्वमण्डलिनौ । तथोर्ध्वमण्डलिसंज्ञौ वावर्तितं विधाया परिवर्तितकरणतारौ ॥ ऽ इति पार्श्वमण्डलिनौ ॥ १ ‘पक्षप्रयोतकौ इति उद्देशानुसरेण पाठ्यम् । २ वलयान्तर्गतमशुद्धप्रायं लुप्तकतिपयपदमिदं वाक्यम् ‘अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षको’ इति मुनिना सङ्गृहोक्तं लक्षणवाक्यमवष्टभ्य शोधनीयम् । ‘त्रिपताकौ’ इति विशेष्यम् । ३ इत उपरि श्लोकत्रयं दण्डपक्षोर्ध्वमण्डलिपार्श्वमण्डल्युरोमण्डल्याख्यानां चतुर्णां हस्तविशेषाणां लक्षणप्रदर्शनपरमशुद्धपदप्रक्षेपादिना तथा मिश्रितं यथा तत् प्रायो विवेक्तुमपि न पार्येत । अतस्तदर्थज्ञानाय मुन्युक्तं तल्लक्षणमिह प्रदर्श्यते । यथा—‘‘हंसपक्षकृतौ हस्तौ व्यावृतपरिवर्तितौ तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ ऊर्ध्वमण्डलिनौ हस्तादूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः । आञ्चितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥’ ( नाट्यशा० अ० ९, श्लो० १७९-१८१ ) इति ।
- इत उपरि श्लोकानां यथावद् विभागाद्यनुपलम्भात् संख्या न निवेशिता ।