समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 721, कुल 726 में से
संदर्भ में पढ़ें६६० समराङ्गणसूत्रधारे हंसपक्षत्वमानीय कुर्यात् कमलवर्तिताम् । तथा द्रुतभ्रमौ कृत्वा रेचितौ पार्श्वयोः शनैः ॥ २३८ ॥ रेचिताचित(विति)विज्ञेयौ हस्तौ हस्तविशारदैः । इति रेचितौ ॥ व्यावृत्तपरिवृत्तिभ्यां वर्तितौ चतुरश्रवत् ॥ २३९ ॥ कूर्परांसावि(श्वि)तौ हस्तौ नीतौ च त्रिपताकताम् । (शंकिञ्चि आश्रस्थितावेतौ ज्ञेयावुत्तानवञ्चितौ ? ) ॥ २४० ॥ इत्युत्तानवञ्चितौ ॥ बाहू(हु)वर्तनया कृत्वा पूर्वव्यावर्तितक्रियाम् । चतुरश्रक(? )परिवृत्तिभ्यां चतुरश्रः कृता(तो) यदा ॥ २४१ ॥ वामहस्त(स्त)दितरः (कृत्वादेष्वित ?)रेचितः करः । अर्धरेचितसंज्ञौ तौ विज्ञातव्यौ तदा बुधैः ॥ २४२ ॥ इत्यर्धरेचितौ ॥ बाहू(हु)वर्तनया बाहुशीर्षद्वौ(र्षाद् व्या)वर्तनेन वा । करणेन वि(निष्)क्रान्तौ (३मितं ?) वाभ्यर्णमागतौ २४३ ॥ पतकावेव निर्दिष्टौ पल्लवौ नामतः करौ । इति पल्लवौ ॥ उद्वेष्टितवर्तनया गत्या (वॅसंत्रास्रया ? ) स्थितौ मूर्द्ध्नः । पार्श्वद्वितये पल्लवसंस्थने(नौ) केशबन्धाख्यौ ॥ २४४ ॥ इति केशबन्धौ । अभिमुखमुखौ निविष्टौ (भुवेष्टितवर्तनक्रमादसौ ? ) । पल्लवहस्तौ पार्श्वद्वितये स्यातां लतासंज्ञौ ॥ २४५ ॥ इति लताहस्तौ ॥ १ मु. पु. अयं सार्धश्लोकः अर्धरेचितलक्षणानन्तरं निवेश्यो भाति । २ मु पु. ‘किञ्चित् त्र्यश्र- स्थितवितौ ज्ञेयावुत्तानवञ्चितौ’ इति स्यात् । अक्षरसाम्यादेवमुन्नीतम् । ‘किञ्चित् तिर्यक्तलावि’ति तु मुद्रितमुनिपाठः । ३ मु. पु. ‘यदि’ इति स्यात् । ४ मु. पु. ‘च स्रस्तया’ इति स्यात् ।