समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 86, कुल 726 में से
संदर्भ में पढ़ेंभुवनकोशः पञ्चमोऽध्यायः । २१ एका कोटिर्भवेत् तेषां पञ्चाशन्नियुतान्विता । अथावरणयोगोऽस्य विहितः (स ? प )ङ्कजन्मना ॥ ९१ ॥ यथैवाधस्तथा तिर्यक् तथैवोर्ध्वमपि क्रमात् । वहेऽब्दाः प्रवहे सूर्यः स्थितः शीतांशुुरुद्वहे ॥ ९२ ॥ संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्गहाः । सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥ ९३ ॥ प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमून । मेधीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ॥ ९४ ॥ समस्तमपि तद्बद्धं ज्योतिश्चक्रं भ्रमत्यदः । सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ॥ ९५ ॥ १तेजोमयेन २सततं भ्राम्यति ज्योतिषां पतिः । केतुमाले (रजन्यर्धं ? व्रजन्नूर्ध्वं) करोत्यस्तं कुरुष्वपि ॥ ९६ ॥ मध्यन्दिनं च भद्राश्वे (दृष्ट् ? स्तंग)च्छन् भारते रविः । रसाब्धिपक्षसङ्ख्यानि योजनानि निमेषतः ॥ ९७ ॥ सप्तविंशतिकां चाष्टौ भागान् सर्पत्यहर्पतिः । ३योजनान्य(धिवनन्दनुं ? च्धिनन्दतुं) गुणसङ्ख्यानि काष्ठया ॥ ९८ ॥ नवांशकचतुष्कं च क्रामत्यहिमदीधितिः । वह्न्यग्निवसुखेन्द्रक्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥ ९९ ॥ योजनस्य त्रिभागं च प्रयाति कलयाैकया । वियत्खव्योमभूताश्विगुणपावकसङ्ख्यया ॥ १०० ॥ योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति । रात्र्यहेण सहस्राणि पञ्चाशन्नवकोटयः ॥ १०१ ॥ लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिषः । मध्येन पुष्करद्वीपस्यार्को गत्यानया व्रजन् ॥ १०२ ॥ नभस्तलेन पुनरप्युदयादुदयं श्रयेत् । इत्थं गतिरियं सम्यक् तिग्मभानोर्निरूपिता ॥ १०३ ॥ १ एतदादिश्लोकद्वयं ख. ग. मातृकयोर्नास्ति । २ दृ. पतितं । ३ योजनान्यं नाश्विनंदत्तु (?)