भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 87, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 87

२२ समराङ्गणसूत्रधारे गतिं चन्द्रग्रहर्क्षाणां भोगं चार्काद् विभावयेत् । प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ ! । पक्षमासर्तुवर्षादीन् व्यवहाराय कल्पयेत् ॥ १०४ ॥ इति निगदित एष द्वीपशैलाम्बुधीना- मवनिवलयवर्त्ती कात्स्न्यर्तः सन्निवेशः । गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥ १०५ ॥ ²इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भुवनकोशाध्यायः पञ्चमः ॥ अथ सहदेवाधिकारः षष्ठोऽध्यायः । अथ प्राक्थितादस्माद् भूतसर्गादनन्तरम् । प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥ १ ॥ शोकव्याधिजरातङ्कविमुक्तास्त्रिदशा इव । पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥ २ ॥ ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च । वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥ ३ ॥ हेलया ते समुत्पत्य कदाचिदमरैः सह । निरर्गलाः समासाद्य खर्विचेरुः सुरा इव ॥ ४ ॥ चित्राम्बरावृताः सर्वे नानाभरणशालिनः । विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥ ५ ॥ मनोज्ञाभिः सह स्त्रीभिर्विचित्राभर(णास्त्रि ? णश्रि)यः । कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥ ६ ॥ क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः । रक्तावदातदेहास्ते कदाचिद् भूरसाशिनः ॥ ७ ॥ रतिप्रायास्तदासन्स्ते स्वेच्छाहारविहारिणः । स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥ ८ ॥


१ द. ममुनानघ । २ द. इतः परं ६/२९ पर्यन्तं त्रुटितं ।