भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

२२ समराङ्गणसूत्रधारे गतिं चन्द्रग्रहर्क्षाणां भोगं चार्काद् विभावयेत् । प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ ! । पक्षमासर्तुवर्षादीन् व्यवहाराय कल्पयेत् ॥ १०४ ॥ इति निगदित एष द्वीपशैलाम्बुधीना- मवनिवलयवर्त्ती कात्स्न्यर्तः सन्निवेशः । गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥ १०५ ॥ ²इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भुवनकोशाध्यायः पञ्चमः ॥ अथ सहदेवाधिकारः षष्ठोऽध्यायः । अथ प्राक्थितादस्माद् भूतसर्गादनन्तरम् । प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥ १ ॥ शोकव्याधिजरातङ्कविमुक्तास्त्रिदशा इव । पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥ २ ॥ ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च । वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥ ३ ॥ हेलया ते समुत्पत्य कदाचिदमरैः सह । निरर्गलाः समासाद्य खर्विचेरुः सुरा इव ॥ ४ ॥ चित्राम्बरावृताः सर्वे नानाभरणशालिनः । विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥ ५ ॥ मनोज्ञाभिः सह स्त्रीभिर्विचित्राभर(णास्त्रि ? णश्रि)यः । कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥ ६ ॥ क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः । रक्तावदातदेहास्ते कदाचिद् भूरसाशिनः ॥ ७ ॥ रतिप्रायास्तदासन्स्ते स्वेच्छाहारविहारिणः । स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥ ८ ॥


१ द. ममुनानघ । २ द. इतः परं ६/२९ पर्यन्तं त्रुटितं ।

सहदेवाधिकारः षष्ठोऽध्यायः । २३ नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः । नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥ ९ ॥ भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्रनिस्वनाः । अचण्डाशनयश्चासन् कबरीकान्तयो घनाः ॥ १० ॥ माद्यत्पिकवधूदष्टमाकन्दमुकुराङ्कुराः । आसन् सदापुष्पफलाभोगा येषां वनालयाः ॥ ११ ॥ एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च । ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥ १२ ॥ रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि । समत्वान्नाभवत् तेषामुत्तमाधममध्यता ॥ १३ ॥ न खेटनगरग्रामपुरक्षेत्रखलादिकम् । न दंशमशकक्रव्याद्वयं वा न ग्रहादि च ॥ १४ ॥ कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् । पुरास्मिन् भारते वर्षे तेषां निवसत़ामिति ॥ १५ ॥ जगाम सुबहुः कालः सुरैः सार्ध सुर(स्त्रि ? श्रि)याम् । अज्ञाततत्प्रभावानां सहसंवाससंभवा ॥ १६ ॥ अथैषामभवद् दैवादवज्ञा त्रिदशान् प्रति । अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥ १७ ॥ आदाय तत्कल्पतरुं निपेतुर्द्यां दिवौकसः । दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥ १८ ॥ सरसः परमो भूमौ भूरसश्च न्यवर्तत । स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥ १९ ॥ व्यलपन् बहुधात्यर्थमनैर्थकृतचेतसः । ततो विलपतां भूरि स्वैरमाहारहेतवे ॥ २० ॥ प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि । भूरसेनेव तेनैते कुर्वाणाः प्राणरक्षणम् ॥ २१ ॥ १ 'नर्थीकृ' ख. पाठः ।

२४ समराङ्गणसूत्रधारे विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे । अथैषां पश्यतामेव कदाचिद् भाग्यसंक्षयात् ॥ २२ ॥ विपर्ययाच्च कालस्य भूमेः पर्पटकोऽप्यगात् । ततः पर्पटके नष्टे तुषशूककणोज्झिताः ॥ २३ ॥ अकृष्टपच्या मेदिन्यामभवञ् शालितण्डुलाः । शाल्योदनेन तेनाथ स्वादुव्यञ्जनेन ते ॥ २४ ॥ परमां तृप्तिमासेदुः परितोषात्तचेतसः । तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वधः ॥ २५ ॥ ते व्यधुर्महतो राशींस्तंत्क्षेत्राणि च चक्रिरे । अजायत ततो लोभो मात्सर्यैर्ष्यापुरस्सरः ॥ २६ ॥ तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः । द्वन्द्वप्राप्त्या ततस्तेषां बिभ्रतामुत्तमां गतिम् ॥ २७ ॥ धैर्यध्वंसादभूत् स्त्रीषु भृशं रागतुरङ्गमः । दारक्षेत्रनिमित्तानि भूयांस्येषामनन्तरम् ॥ २८ ॥ परिक्लेशैकमूलानि द्वन्द्वान्यसन् पृथक्पृथक् । ततः स्वक्लृप्तमर्यादोच्छेदिष्वेष्वजितात्मसु ॥ २९ ॥ अविनीतेष्वभाग्येषु स शालिस्तुषतामगात् । प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥ ३० ॥ मलप्रवृत्तिरभवत् तुषधान्योपसेवया । तुषधान्ये ततो नष्टे परिभुक्ते च सञ्चये ॥ ३१ ॥ चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम् । ऋतवः कालपर्यासात् षड् वसन्तादयोऽभवन् ॥ ३२ ॥ ततस्तेषामभूद् दोषरोगशोकाकुलं वपुः । मनश्च कामक्रोधेष्र्यादैन्यास्रूयादिदूषितम् ॥ ३३ ॥ आधिदैवकमुष्णाम्बुशीतादिजनितं महत् । आधिभौतिकमप्यासीद् दुःखं व्यालमृगादिजम् ॥ ३४ ॥ १ 'स्ततः क्षेत्राणि चक्रि' ख. ग. पाठः । २ 'र्यादास्वनिष्ठेष्व' क. पाठः ।

वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २५ इत्थं दुःखलयार्त्तास्ते व्यवायाद्यभिगुप्तये । हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपि च ॥ ३५ ॥ अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि (ते ? च) । व्यधुश्छित्त्वाश्मभिर्वृक्षानन्यान् दुःखार्तचेतसः ॥ ३६ ॥ स्मृत्वा कल्पद्रुमाकारास्तद्रूपाणि गृहाणि ते । एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥ ३७ ॥ श(ब्दा ? ष्प)प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः । हृष्टास्तेष्वनयन् 'कालमाप्तेषु गृहमेधिनः ॥ ३८ ॥ इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु । हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥ ३९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सहदेवाधिकारो नाम षष्ठोऽध्यायः ॥

अथ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । अथामरगणैः सार्धमाजगाम पितामहः । दुःखच्छेदाय मर्त्यानामादाय नृपतिं पृथुम् ॥ १ ॥ स तानूचे प्रभुर्वोऽसौ मरुतामिव वासवः । दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥ २ ॥ प्रतापतापितारांतिसिंहः सिंहपराक्रमः । युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥ ३ ॥ रक्षाकृत् सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम् । ³वृत्तितो भीतिहृत् च भविष्यत्येष वो नृपः ॥ ४ ॥ भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया । करिष्यत्येष वो ⁴नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥ ५ ॥ १ द. क्रामास्तेषु; ख. ग. कामाप्तास्ते । २ क. ॰रातिः शश्वन् सिंह॰ । ३ द. वृत्तिदो । ४ द. नित्याचारवर्णाश्रमस्थितीः । वा. ४

उक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम् । अवोचन् दुःखिता दुःखादस्मात् त्रायस्व नः प्रभो ! ॥ ६॥ कल्पद्रुमामर्त्यक्तान् द्वन्द्वार्तिक्रान्तचेतसः । व्यसनार्णवनिर्मग्नान् पाहि नः पृथिवीपते ! ॥ ७॥ अथो पृथुरुवाचैतान् मा भैष्ट सुखमास्यताम् । दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥ ८ ॥ ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत् । तेषु ये वेदणिरताः स्वाचाराः संयतेन्द्रियाः ॥ ९ ॥ ¹सूरयश्चावदाताश्च ब्राह्मणास्तेऽभवंस्तदा । यजनाध्ययने दानं याजनाध्यापनार्थिताः ॥ १० ॥ धर्मास्तेषां विमुच्यान्यांस्त्रींस्तुल्याः क्षत्रवैश्ययोः । ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥ ११ ॥ दृढव्यायतदेहाश्च क्षत्रियास्त इहाभवन् । विक्रमो लोकसंरक्षाविभागो व्यवसायिता ॥ १२ ॥ एतेषामयमप्युक्तो धर्मः शुभफलोदयः । निसर्गनैपुणं येषां रतिर्वित्त call: र्जनं प्रति ॥ १३ ॥ श्रद्धादाक्ष्य²दयावन्तो वैश्यांस्तानकरोदसौ । चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥ १४ ॥ वैश्यस्य कथितो धर्मस्तद्वत् कर्म च तैजसम् । नातिमानभृतो नातिशुचयः पिशुनाश्च ये ॥ १५ ॥ ते शूद्रजातयो जाता नातिधर्मरताश्च ये । कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥ १६ ॥ वर्णत्रितयशुश्रूषा धर्मस्तेषामुदाहृतः । ब्रह्मचारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥ १७ ॥ इत्याश्रमाः ³पृथक् तेन चत्वारः प्रविभाजिताः । गुरुशुश्रूषणं भैक्षं व्रतचर्याग्निकर्म च ॥ १८ ॥ १ द. ख. ग. शुचयश्चां । २ द. ˚दयावन्तो । ३ द. पृथक्त्वेन ।

वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २७ स्वाध्यायश्चाभिषेकश्च धर्मोऽयं ब्रह्मचारिणः । पूजाग्न्यतिथिदेवानां स्ववृत्त्या जीवनं दमः ॥ १९ ॥ असमानर्षिगोत्रेषु विवाह ऋतुगामिता । $^१$परस्थ स्त्रीषु वैमुख्यं परानुग्रहशीलता ॥ २० ॥ विनिवृत्तिकरार्य्येभ्यो धर्मोऽयं गृहिणां कृतः । देवतातिथिसत्कारो ब्रह्मचर्यं वने स्थितिः ॥ २१ ॥ वल्काजिनजटाचीरधारणं शयनं भुवि । उपोषणैर्व्रतैर्देहकर्शनं नियमैस्तथा ॥ २२ ॥ आहारोऽकृष्टपच्यैश्च धर्मोऽयं वनवासिषु । वैराग्यमिन्द्रियजयश्चिन्त्यात्यागः प्रशान्तता ॥ २३ ॥ आकिञ्चन्यमनारम्भो यतिधर्मः सदा स्मृतः । क्षमत्वं गुर्वधीनत्वं शौचं स्वाध्यायनित्यता ॥ २४ ॥ विशुद्धिर्व्यवहारेषु शिष्यधर्मोऽयमीरितः । शुचित्वं वाङ्मनःकायैः पतिशुश्रूषणं क्षमा ॥ २५ ॥ पूजनं पतिपूज्यानां स्त्रीधर्मः शौचमेव च । एवं वर्णाश्रमान् सम्यक् कृत्वा वर्णांस्तदुद्भवान् ॥ २६ ॥ विभज्य तेषां बैन्येन ते ते धर्माः प्रकीर्तिताः । वृत्तिं कर्माणि चैतेषां पृथगुद्दिश्य सोऽभ्यधात् ॥ २७ ॥ स्वधर्मावस्थितानां वो भावि लोकद्वये सुखम् । य एतां स्थितिमुल्लङ्घ्य मोहादन्यद् विधास्यति ॥ २८ ॥ तस्याहं यमवत् क्रुद्धः करिष्याम्यनुशासनम् । युक्तानां कर्मसु स्वेषु $^२$वृत्त्यर्थं भवनामहम् ॥ २९ ॥ खेटकग्रामवेश्मानि विधास्यामि पुराणि च । इत्युक्त्वा तानथो कोट्या कार्मुकस्य पृथुर्नृपः ॥ ३० ॥ विषमां साधयामास पृथिवीं पृथुविक्रमः । तत्सङ्क्लेशेन गौर्भूत्वा नश्यन्ती तेन मेदिनी ॥ ३१ ॥ १ द. परस्वं । २ द. ख. ग. भूत्यर्थं ।

२८ समराङ्गणसूत्रधारे विधेर्नियोगाद् दुदुहे साधु सस्यानि भूतये । कल्पितास्तेन शैलानां सरितामन्तरेषु च ॥ ३२ ॥ समेषु चावकाशेषु पुरादीनां विभक्तयः । तेन सीराग्रकृष्टेयं धान्यैरुत्तैर्यथाविधि ॥ ३३ ॥ ससस्या क्रियते क्षोणी भगवत्यम्बुदागमे । इत्युद्भवो निगदितः प्रथमो नृपस्य धर्मेण सार्धमपि चाश्रमवर्णभेदाः । प्रोक्ताः कृषिव्यतिकरोऽपि च दर्शितस्ते कार्त्स्न्येन वत्स ! शृणु देशविभागभूमिम् ॥ ३४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः ॥ अथ भूमिपरीक्षा नामाष्टमोऽध्यायः । देशाश्च देशभूम्यश्च समासात् तव सम्प्रति । तत्सङ्ख्या तद्विभागाश्च प्रोच्यन्तेऽवहितः शृणु ॥ १ ॥ देशः स्याज्जाङ्गलानूपसाधारणतया त्रिधा । त्रिविधस्याप्यथैतस्य यथावल्लक्ष्म कथ्यते ॥ २ ॥ दूराम्बुरिरिणप्रायो ह्रस्वकण्टकिपादपः । रूक्षोष्णचण्डपवनः कृष्णमृत् तेषु जाङ्गलः ॥ ३ ॥ निम्नो भूरिजलः स्निग्धो बहुमत्स्यामिषो हिमः । स्यादानूपः सरित्प्रायः स्निग्धोच्छ्रितबहुद्रुमः ॥ ४ ॥ यः पुनर्नातिशीतोष्णः स्याद् देशद्वयलक्षणः । स साधारण इत्युक्तो देशो देशविशारदैः ॥ ५ ॥ जाङ्गलादिषु देशेषु त्रि(पुण्ये ? ष्वप्ये)षु स्वलक्षणैः युक्ताः षोडश विज्ञेया भूमयः प्रविभागतः ॥ ६ ॥

भूमिपरीक्षा नामाष्टमोऽध्यायः । २१ बालिशस्वामिनी भोग्या सीता गोचररक्षिणी । अपाश्रयवती कान्ता खनिमत्यत्मधारिणी ॥ ७ ॥ वणिक्प्रसाधिना द्रव्यसम्पन्नामित्रघातिनी । आश्रेणीपुरुषा शक्यसामन्ता देवमातृका ॥ ८ ॥ धान्या हस्तिवनोपेता सुरक्षा चेति षोडश । भुवः संज्ञाभिरुद्दिष्टा लक्ष्मासामथ कथ्यते ॥ ९ ॥ भूभुजा बालिशेनापि शक्यते या प्रशासितुम् । या च भद्रजना सा स्याद् बालिशस्वामिनी क्षितिः ॥ १० ॥ वितरन्त्यधिकं यस्यां भागभोगादिकान् करान् । नरा भूरिश्रियः सात्र भोग्येति क्षितिरुच्यते ॥ ११ ॥ यस्यां नदाश्च नद्यश्च गिरिर्मध्येऽथवा बहिः¹ । विभक्तक्षेत्रसीमा सा सीता गोचररक्षिणी ॥ १२ ॥ सरिद्रिद्वनागेषु त्रासाद् यस्यां विशेज्जनः । जनापाश्रययोग्यत्वादपाश्रयवतीति सा ॥ १३ ॥ वनोपवनवल्यद्रिसरित्कुञ्जमनोहरा । देहिनो रमयत्युर्वी या सा कान्तेति कीर्तिता ॥ १४ ॥ यस्यां सदैव जायन्ते कलधौतादिधातवः । लवणानि च भूयांसि प्राहुः खनिमतीति ताम् ॥ १५ ॥ यात्यन्तं नानुगृह्येत दण्डकोशासनादिभिः । स्फीतलोकाश्रया या च सा स्याद् भूरात्मधारिणी ॥ १६ ॥ प्रसिध्यन्त्यसकृद् यत्र पण्योपक्रयविक्रयाः । वणिक्प्रसाधितेत्युक्ता सा भूर्वणिंगलङ्कृता ॥ १७ ॥ शाकाश्वकर्णखदिरश्रीपर्णीस्यन्दनासनैः । वेणुवेत्रशराद्यैश्च युक्ता द्रव्यवतीति भूः ॥ १८ ॥ यस्यां जनपदाः साधु विभक्तास्त्यक्तविक्रमाः । योगं यान्ति च मित्राणि स्याद् भूः सामित्रघातिनी ॥ १९ ॥ १ द. हितः ।

३० समराङ्गणसूत्रधारे न क्षुद्रा 'वन्दिनो यस्यां दुर्गप्रत्यन्तसंश्रयाः । भूः साश्रेणीमनुष्येति विनीतैराश्रिता जनैः ॥ २० ॥ मन्त्रोत्साहादिवैमुख्यं यस्यां सामन्तभूभुजः । भजन्ते सा स्मृता शक्यसामन्ता भूः समन्ततः ॥ २१ ॥ जीवन्ति क्षेत्रिणो यस्यां न(दी ? द)नद्यादिवारिभिः । तां देवमातृकेत्याहुरनपेक्षितवारिदाम् ॥ २२ ॥ निष्पद्यन्तेऽधिकं यस्यां बीजान्युप्तान्ययत्नतः । कृष्टानुपहतक्षेत्रा धान्या सा धान्यशालिनी ॥ २३ ॥ पर्यन्तेष्वद्रयो यस्यां या च हस्तिवनाश्रिता । सा हस्तिवनवत्युर्वी भूभृतः सैन्यवर्धिनी ॥ २४ ॥ दुष्प्रधृष्यैव या नित्यं विषमत्वादरातिभिः । विषमाद्रिसरिद्गुप्ता सा सुरक्षेति भूः स्मृता ॥ २५ ॥ षोडशेत्युदिता भूम्यः प्रविभागाद् यथातथम् । अन्या जनपदादीनां ब्रूमः सम्मिश्रलक्षणाः ॥ २६ ॥ धातुस्यन्दोल्लसत्कुञ्जगुल्मद्रुमलतावृतैः । उत्सङ्गिताः पृथुशिलैः समन्तादवनीधरैः ॥ २७ ॥ तीर्थावतारकान्ताभिः स्वादुतोयाभिरावृताः । नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ॥ २८ ॥ कोकिलालापसुभगैर्मधुमत्तालिशालिभिः । विचित्रफलपुष्पाढ्यैः काननै रुपशोभिताः ॥ २९ ॥ दलत्कुवलयश्रेणीक्वणन्मधुपहारिभिः । सरसीदेवखाताद्यैर्भूषिताः प्राज्यवारिभिः ॥ ३० ॥ समैः सुगन्धिभिः स्वादुशीतैः कान्तैरभङ्गुरैः । क्षेत्रैरक्षतसीमान्तैः सस्यनिष्पादिभिर्वृताः ॥ ३१ ॥ निष्कण्टकाश्मवल्मीकैः प्रभूतयवसेन्धनैः । विभक्तक्षेत्रसीमान्तैर्गोचरैरुपशोभिताः ॥ ३२ ॥ १ क. द. वृन्दिनो । २ द. ग. ˚नान्विता ।

भूमिपरीक्षा नामाष्टमोऽध्यायः । ३१ स्थले तृणसमुद्राणामन्तरेषु वसुन्धराः । प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ॥ ३३ ॥ दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः । संरम्भत्रासनिर्मुक्तं मनश्च रमयन्ति याः ॥ ३४ ॥ तास्वेवंगुणयुक्तासु महीषु विनिवेशयेत् । यथास्थानं जनपदान् खेटग्रामपुरादि च ॥ ३५ ॥ युता महीध्रमूला(स्व ? म्वु)प्राकारैस्तु पृथक्पृथक् । चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥ ३६ ॥ दुरारोहतया दुर्गे टङ्कच्छिन्न इवान्ततः । २समपृष्ठेऽम्बुयुक्ताद्रौ गिरिदुर्गावनिर्भवेत् ॥ ३७॥ कण्टकिद्रुमनीरन्ध्रनद्धे ३साम्भसि कानने । गूढप्रवेशमार्गे भूर्भूलदुर्गेति कीर्तिता ॥ ३८ ॥ द्वीपेषु स्वादुतोयेषु बह्वागाधजला बहिः । रम्यावकाशदेशा स्याज्जलदुर्गा च मेदिनी ॥ ३९ ॥ स्निग्धाः सारभृतः शुद्धाः प्रदक्षिणजलाशयाः । बहूदकास्तरुच्छन्ना निबिडाः प्रागुदक्प्लवाः ॥ ४० ॥ ४दूर्वास(स्त्वौ ? स्यौ)षधीमुञ्जकुरुन्दकुशवल्कलैः । परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥ ४१ ॥ वास्तुयज्ञामरस्थानाद्यारामोद्यानसम्भृताः । तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥ ४२ ॥ या वाहनानां सुखदा मिथुनानां रतिप्रदाः । पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥ ४३ ॥ कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः । सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥ ४४ ॥ १ द. मूलास्व; क. मूलाम् । २ शा. समपृष्ठेन्दु( ?)युक्तेऽद्रौ; क. समपृष्ठेऽम्बुयुक्तादौ; द. समपृष्ठे तु युक्तोदौ । ३ द. नद्धे साम्भसि; क. ॰तीराम्बुनद्धे॰ । ४ क. दुर्वाशखौषधी॰; द. पूर्वास्तस्तौषधी॰ ।

३२ समराङ्गणसूत्रधारे । कल्हारपाटलाम्भोजमालतीचम्पकोत्पलैः । स्थलाम्बुप्रभवैश्चान्यैः सुगन्धा कुसुमैस्तथा ॥ ४५ ॥ गोमूत्रगोमयक्षीरदधिमध्वाज्यगन्धभाक् । समानगन्धा मदिरामाध्वीकेभमदासवैः ॥ ४६ ॥ शालिपिष्टकगन्धैश्च धान्यगन्धैश्च या तथा । प्रशस्ताखिलवर्णानामीदृग्गन्धा वसुन्धरा ॥ ४७ ॥ सिता रक्ता च पीता च कृष्णा१ चैव क्रमान्मही । विप्रादीनां हि वर्णानां सर्वेषामथवा हिता ॥ ४८ ॥ स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात् । वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥ ४९ ॥ घर्मागमे हिमस्पर्शा या स्यादुष्णा हिमागमे । प्रावृष्युष्णहिमस्पर्शा सा प्रशस्ता वसुन्धरा ॥ ५० ॥ मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ । २द्विपाश्वाब्धिसमस्वाना चेति स्युर्भूमयः शुभाः ॥ ५१ ॥ इदानीमप्रशस्तानां भुवां लक्ष्माभिदध्महे । पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥ ५२ ॥ भस्माङ्गारकपालास्थितुषकेशविषाश्मभिः । मूषकोत्करवल्मीकशर्कराभिश्च निर्भरा ॥ ५३ ॥ रूक्षा प्ररोहिणी निम्ना भङ्गुरा सुषिरोषरा । वामावर्तजलास्राविण्यसारा विषमोन्नता ॥ ५४ ॥ कटुकण्टकिनिःसारशुष्कनिष्फलपादपा । क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥ ५५ ॥ सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात् । यस्यां विनाशमायान्ति सह तूर्यादिनिखनैः ॥ ५६ ॥ सरित् पूर्ववहा यस्यां पुरार्थं तामपि त्यजेत् । बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥ ५७ ॥ १. द. कृष्टे चेति । २. क. द्विपांश्वाब्धिसम°; द. द्विपादौप्यसमस्थाना (?) ।

भूमिपरीक्षा नामाष्टमोऽध्यायः ३३ वसासृङ्मज्जविण्मूत्रमलको(थ ? श)पतत्रिणाम् । समगन्धां त्यजेदुवीं तैलस्य च शवस्य च ॥ ५८ ॥ सदैव धूम्रवर्णा या मिश्रवर्णाथवा मही । विवर्णा रूक्षवर्णा वा सा न स्यादिष्टदायिनी ॥ ५९ ॥ तिक्ताम्ललवणा चापि भूमिर्या १खादनो भवेत् । तां लोकविद्वेषकरीं त्यजेत् पुरनिवेशने ॥ ६० ॥ या रूक्षखरसंस्पर्शा सदैवोष्णा हिमाथवा । अनिष्टसुखसंस्पर्शा या स्यात् तामपि सन्त्यजेत् ॥ ६१ ॥ क्रोष्टूष्ट्रखरस्वाना या च निर्झरनिस्वना । भिन्नभाण्डसमक्रूरध्वनितापि च नेष्यते ॥ ६२ ॥ इति गन्धादिभिर्भूमिः कथितेयं शुभाशुभा । हलेन कृष्यमाणायां भूमौ काष्ठे समुद्धृते ॥ ६३ ॥ विद्याद् भयं वह्निभवमिष्टकायां धनागमम् । पाषाणेषु तु कल्याणं कुलप्रध्वंसमस्थिषु ॥ ६४ ॥ सरीसृपेषु सर्वेषु स्तेनेभ्यो भयमादिशेत् । अनूषरा बहुतृणा शस्ता स्निग्धोत्तरप्लवा ॥ ६५ ॥ प्रागीशानप्लवा सर्वप्लवा वा दर्पणोदरा । शुभेऽह्न्युपोषितः स्नातः शुचिः शुक्लस्रगम्बरः ॥ ६६ ॥ स्वस्ति विप्रान् वाचयित्वा वास्तुदेवान् समर्च्य च । करप्रमाणं कुर्वीत खातं तद्भूमिमध्यगम् ॥ ६७ ॥ ततस्तन्मृदमाकृष्य तत् तयैवानुपूरयेत् । खाताधिकमृदुक्ता भूः श्रेष्ठा मध्या च तत्समा ॥ ६८ ॥ प्रहीणखातमृत् क्षोणी हीना शस्ता न सा नृणाम् । खन्यमाने यदा खाते तन्मृदोऽन्तर्विलोक्यते ॥ ६९ ॥ मणिशङ्खप्रवालादि तदातिश्रेयसी क्षितिः । सापि प्रशस्यते भूमिर्यस्यां स्युः खातपांसवः ॥ ७० ॥ १ क. ख. ग. द. स्वादनो । वा. ५

३४ समराङ्गणसूत्रधारे तुषकेशोपलाङ्गारभस्मास्थिलववर्जिताः । भृत्वाद्भिः खातमापूर्णे तस्मिन् पदशतं व्रजेत् ॥ ७१ ॥ तावच्चेदौगमेऽम्भः स्यात् तदा भूः सार्वकामिकी । मध्यमात्रप्रहीणे स्यात् ततो हीनतरेऽधमा ॥ ७२ ॥ खाते सितादिमाल्यानि यस्यां निन्युषितानि च । यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही ॥ ७३ ॥ खातस्योदक्प्रभृतिषु दिक्षु प्रज्वालयीत वा । दीपान् यस्यां चिरं तिष्ठेत् तद्वर्णेष्टप्रदा हि सा ॥ ७४ ॥ इत्येवं कीर्त्तिताः कार्त्स्न्याल्लक्ष्मभिः पुरभूमयः । खर्वटग्रामखेटानामेता एव स्मृता हिताः ॥ ७५ ॥ वर्णिनां वर्णधाम्नां च शिबिराणां च सर्वदा । प्रासादयज्ञवाटानामेता एवेष्टदा भुवः ॥ ७६ ॥ इत्येवमादिभिरिमाः शुभलक्ष्मयुक्ता भूम्यः शुभा निगदिता नगरादिहेतोः । आभ्यः परेण बहुधा परिकल्प्यमानं ब्रूमस्त्रिधा स्थितवतोऽपि करस्य मानम् ॥ ७७ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भूमिपरीक्षा नामाष्टमोऽध्यायः ॥

अथ हस्तलक्षणं नाम नवमोऽध्यायः । हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् । मानोन्मानविभागादिनिर्णयैकनिबन्धनम् ॥ १ ॥ परिध्युदयविस्तारदैर्ध्याणां स्युरमी यतः । ज्येष्ठमध्याधमा भेदा यं च ज्ञात्वा न मुह्यति ॥ २ ॥ इदानीं तस्य हस्तस्य सम्यङ् निश्चयसंयुतम् । कथ्यते २त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् ॥ ३ ॥ १ क. दागतेऽम्भ(:)स्यात् । २ ख. ग. विविधं ।

हस्तलक्षणं नाम नवमोऽध्यायः । ३५ रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः । भवेद् यूकाष्टभिस्ताभिर्यवमध्यं तदष्टकात् ॥ ४ ॥ अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः । ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥ ५ ॥ सोऽष्टभिः पर्वभिर्युक्तः करः कार्यो विजानता । करस्यार्धं चतुःपर्व शेषं स्याद् भक्तमङ्गुलैः ॥ ६ ॥ तत्राग्रे पर्वरेखाः स्युस्तिस्रः पुष्पकभूषिताः । शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥ ७ ॥ अत्रार्धे मध्यतः कार्यं द्वेधा पञ्चममङ्गुलम् । १मध्यं त्रिधाष्टमं कार्यं चतुर्था द्वादशं ततः ॥ ८ ॥ हस्तः स्वाङ्गुलमानेन विधेयाङ्गुल(मि ? इ)ष्यते । तत् सार्धं द्विगुणं वापि बाहुल्यं तु तदर्धतः ॥ ९ ॥ कथितः करभेदोऽयमङ्गुलानां विभेदतः । तस्य निर्माणदारूणि देवताश्च प्रचक्ष्महे ॥ १० ॥ खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् । सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥ ११ ॥ ग्रन्थिलं लघु निर्दग्धं जीर्णं विस्फुटितं२ तथा । अदृढं कोटराक्रान्तं दारु हस्ताय नेष्यते ॥ १२ ॥ त्रिविधस्याप्यथैतस्य पर्वरेखासु देवताः । †३मध्यादारभ्य विज्ञेयाः क्रमेण नव वच्मि ताः ॥ १३ ॥ *ब्रह्मा वह्निर्यमो विश्वकर्मा नाथश्च पाथसाम् । वायुर्धनाधिपो रुद्रो विष्णुश्चाग्रे जगत्पतिः ॥ १४ ॥ १ ख. ग. द. मध्यात् । २ द. विस्फटितं । ३ द. मूलां । † ‘ मध्यपर्वत एकस्मिन् पार्श्वगणनया प्रान्तसंयुक्तानि चत्वारि पर्वाणि भवन्ति । मध्यादेव परस्मिन् पार्श्वे समध्यमपर्वत्वात् पञ्च भवन्ति ’ ।

  • ‘ मध्ये ब्रह्मा । ततो वामे पर्वणि वह्निः दक्षिणे पर्वणि यमः, पुनर्वामे विश्वकर्मा दक्षिणे वरुणः, पुनर्वामे वायुः दक्षिणे धनदः, पुनर्वामे रुद्रो दक्षिणे विष्णुः । ततस्तु क्रमेण गणनायां रुद्रो वायुर्विश्वकर्मा वह्निर्विधाता कालस्तोयेशः कुबेरो विष्णुरिति पर्वदेवता भवन्ति ’ इति टिप्पणमिह दत्तमस्ति ।

३६ समराङ्गणसूत्रधारे वास्तुद्रव्यविभागेषु यानेषु च विशेषतः । प्रारभेत यतो मानं कल्पयेद् देवतास्ततः ॥ १५॥ विद्धैश्च द्रव्यमध्यैश्च देवताभिश्च १पीडिते । प्रत्येकं त्रिदशस्थाने यथोक्तं फलमादिशेत् ॥ १६॥ शिरोर्त्तिरनलप्लोषो मरणं स्थपतेर्वधः । २अतिसारो मरुद्व्याधिरर्थभ्रंशो भयं नृपात् ॥ १७॥ कुलपीडा च महती कर्तृकारक३योरिति । यथाक्रमममी दोषा ब्रह्मादीनां निपीडनात् ॥ १८॥ ब्रह्मानलकयोर्मध्ये यदा हस्तं तु ४धारयेत् । कर्मस्वधिगतस्तेषां पुत्रलाभो भविष्यति ॥ १९॥ कर्मणः सुष्ठुनिष्पत्ति(स्तिष्ठतेभोग ? स्थपतेर्भोग्य)मक्षयम् । ब्रह्मा यमस्तयोर्मध्ये यदा हस्तं तु धारयेत् ॥ २०॥ कर्ता सशिल्पिकश्चैव(अ ? न)चिरेण५ विनश्यति । विश्वानलकयोर्मध्ये हस्तसूत्रं यदा धृतम्६ ॥ २१॥ ७सु(ष्ठु)कर्मणि मध्यान्तं निष्पन्ने पुरवृद्धिता । यमजलदयोर्मध्ये मध्यमं च विनिर्दिशेत् ॥ २२॥ पवनो विश्वकर्मा चोभयोर्मध्ये च धारणम् । यदा तु तत्र कर्मान्तं ८शुभं तत्सर्वकामदम् ॥ २३॥ ९नीरधनदयोर्मध्ये मध्यमं च विनिर्दिशेत् । एषां मध्ये यदा वत्सहस्तं तत्र यदा धृतम्१०(?) ॥ २४॥ अनावृष्टिभयं लोके देशभङ्गो न संशयः । रुद्रपवनयोर्मध्ये रुचिहस्तं तु धारयेत् ॥ २५॥ तत्र लक्ष्मीवतस्तस्य कार्यसिद्धिर्न संशयः । विष्णुधनदयोर्मध्ये यदा पाणिकरा११र्यैतः ॥ २६॥ १ द. ख. ग. पीडितैः । २ द. प्रमीसारो । ३ द. क. ख. ॰योरपि । ४ क. कारयेत् । ५ द. कर्तारो शिल्पिनश्चैव अचिरेण विनश्यति । ६ द. वृतम् । ७ द. क. सुमतिर्मणिमध्यान्तं । ८ द. शुभं तं सर्वं°; क. शुभान्तं सर्वं° । ९ द. नीरदधन° । १० द. एषां मध्ये न हस्तं तत्र यदा वृतम् । ११ द. ख. ग. काराप्रतः ।

हस्तलक्षणं नाम नवमोऽध्यायः । ३७ विविधास्तत्र भोगाश्च १प्रजायन्ते नरस्य हि । ज्येष्ठादीनामथैतेषां संज्ञाभेदो विधीयते ॥ २७ ॥ यच्च येन भवेद् द्रव्यं मेयं तदपि कीर्त्यते । यवाष्टकाङ्गुलैः क्लृप्तः प्रकर्षेणायतः किल ॥ २८ ॥ ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः । यः पुनः कल्पितः सप्तयवक्लृप्तैरिहाङ्गुलैः ॥ २९ ॥ तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः । मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते ॥ ३० ॥ तेन मात्राशयः स स्याद्धस्तो यः षड्यवाङ्गुलः२ । विभागायामविस्ताराः खेटग्रामपुरादिषु ॥ ३१ ॥ प्रासादवेश्मपरिखाद्वाररथ्यासभादिषु । मार्गाश्च निर्गमाँ(?ये ?श्चै)षां सीमक्षेत्रान्तराणि च ॥ ३२ ॥ वनोपवनभागाश्च देशान्तरविभक्तयः । योजनक्रोशगव्यूतिप्रमाणमपि चाध्वनः ॥ ३३ ॥ प्राशयेन प्रमातव्याः खातक्रकचराशयः । तलोच्छ्रयान् मूलपादान् जलोद्देशानधः क्षितेः४ ॥ ३४ ॥ तथा दोलाम्बुशस्त्रादि पातमौनवनिर्णयम् । शैलखातँनिकेतानि सुरुङ्गामानमान्तरम् ॥ ३५ ॥ साधारणेन वास्थ्यध्वमानं च परिकल्पयेत् । आयुधानि धनुर्दण्डान् यानं शयनमासनम् ॥ ३६ ॥ प्रमाणं कूपवापीनां गजानां वाजिनां नृणाम् । अरघट्टेक्षुयन्त्राणि युगयूपहलानि च ॥ ३७ ॥ शिल्प्युपस्करनौच्छत्रध्वजातोध्यानि यानि च । वृसीधर्मोपकरणपटवानादिकं च यत् ॥ ३८ ॥ १ द. ख. ग. सदा चैतस्य संभवेत् । २ द. षट्पञ्चाङ्गुलः । ३ द. ०श्चार्गमायेषां । ४ द. स्थितैः । ५ द. पातयामानवनिर्णयम् ; क. ०तयामाननि० । ६ द. ख. ग. ०खातनेत्रोतानि । ७ द. सान्तरम् । ८ द. ख. ग. परिकीर्तयेत् ।

३८ समराङ्गणसूत्रधारे १नलवदण्डांस्तथा मात्राशयहस्तेन मापयेत् । भेदत्रयान्वितमपि प्रोक्तं हस्तस्य लक्षणम् ॥ ३९ ॥ संज्ञाभेदोऽथ सामान्यमानानां प्रतिपाद्यते । स्यादेकमङ्गुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ॥ ४० ॥ पर्व त्रीण्यङ्गुलान्याहुर्मुष्टिः स्याच्चतुरङ्गुला । तलं स्यात् पञ्चभिः षड्भिः करपादाङ्गुलैर्भवेत् ॥ ४१ ॥ सप्तभि( र्द्द ? र्दि )ष्टिरष्टाभिरङ्गुलैस्तूणिरिष्यते । प्रादेशो नवभिस्तैः स्याच्छयतालो दशाङ्गुलः ॥ ४२ ॥ गोकर्ण एकादशभिर्वितस्तिर्द्वादशाङ्गुला । चतुर्दशभिरुद्दिष्टः पादो नाम तथाङ्गुलैः ॥ ४३ ॥ रत्निः स्यादेकविंशत्या स्यादरत्निः करोन्मितः । द्वाचत्वारिंशता किष्कुरङ्गुलैः परिकीर्त्तितः ॥ ४४ ॥ चतुरुत्तरयाशीत्या व्यामः स्यात् पुरुषस्तथा । षण्णवत्याङ्गुलैश्चापं भवेन्नाडीयुगं तथा ॥ ४५ ॥ शतं षडुत्तरं दण्डो नलवस्त्रिंशद्धनुर्मितः । क्रोशो धनुःसहस्रं तु गव्यूतं तद्द्वयं विदुः ॥ ४६ ॥ चतुर्गव्यूतं२मिच्छन्ति योजनं मानवेदिनः । एकं दश शतमस्मात् सहस्रमनु चायुतम् ॥ ४७॥ नियुतं प्रयुतं तस्मादर्बुदन्यर्बुदे अपि । बृन्दखर्वनिखर्वाणि शङ्कुपद्माम्बुराशयः ॥ ४८ ॥ ततः स्यान्मध्यमन्त्यं च परं चापरमप्यतः । परार्धं चेति विज्ञेयं दशवृद्धयोत्तरोत्तरम् ॥ ४९ ॥ सङ्ख्यास्थानानि कथितान्येवमेतानि विंशतिः । इदानीं कालसङ्ख्यायाः प्रमाणमभिधीयते ॥ ५० ॥ दृङ्निमेषो निमेषः स्यात् तैः पञ्चदशभिः स्मृता । काष्ठा ताभिः कला ताभिर्मुहूर्त्तस्तैरहर्निशम् ॥ ५१ ॥ १ क. भल्लदं ; द. नव्वदं । २ ‘व्यूर्ति त’ । ३ ‘ति’ क. पाठः ।

पुरनिवेशो दशमोऽध्यायः । ३९ विंशतैतत् त्रिकं विद्यात् क्रमादित्यत्तरोत्तरम् । अहोरात्रैः पुनः पञ्चदशभिः पक्ष उच्यते ॥ ५२ ॥ पक्षद्वयेन मासः स्याद् भवेन्मासद्वयाद्दृतुः । ऋतुत्रयं स्यादयनं वत्सरस्त्वयनद्वयम् ॥ ५३ ॥ दशधायमिति प्रोक्तः कालः कालविदां वरैः । इत्युक्तमेतदखिलं करमानमत्र सम्यक्तया निगदितापि च कालसङ्ख्या । अन्तःपुरं जनपदामरधाममार्गैराचक्ष्महे नगरसंप्रविभागमत्र ॥ ५४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे हस्तलक्षणं नाम नवमोऽध्यायः ॥ अथ पुरनिवेशो दशमोऽध्यायः । पुरस्य त्रिविधस्यापि प्रमाणमथ कथ्यते । प्राकारपरिखाट्टालद्वाररथ्याध्वभिः सह ॥ १ ॥ ज्येष्ठं तत्र चतुश्चापसहस्रं पुरमिष्यते । मध्यं द्वाभ्यां सहस्राभ्यामेकेन व्यासतोऽधमम् ॥ २ ॥ साष्टमांशं सपादं वा सार्धं वा व्यासमायतम् । कुर्यादेकैकमायामं चतुरास्त्रीकृतं शुभम् ॥ ३ ॥ चतुःषष्टिपदाख्येन पुरं सर्वं प्रकल्पयेत् । द्विरष्टकोष्ठं तत् कुर्यात् षट्पथं नवचत्वरम् ॥ ४ ॥ चतुरश्रीकृते क्षेत्रे प्रागुदीच्यन्तमागताः । चतुर्भागान्तरा वंशाः कार्यास्तस्य त्रयस्त्रयः ॥ ५ ॥ वंशषट्कविभक्तेऽस्मिन् पदषोडशकान्विते । राजमार्गः शुभः कार्यो मध्यमं वंशमाश्रितः ॥ ६ ॥ कार्यो ज्यायसि (च) ज्यायांश्चतुर्विंशतिकः करैः । विंशत्या मध्यमे मध्योऽधमे षोडशकोऽधमः ॥ ७ ॥ १ द. ग. मासास्थं । २ क. ॰विंशतिभिः ।

४० समराङ्गणसूत्रधारे बलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च । असम्बाधसमश्चैष कार्योऽयं काश्मशर्करः ॥ ८ ॥ महारथ्याद्वयं कार्यं तदुपान्तस्थवंशयोः । तद् द्वादश दशाष्टौ स्यात् करान् ज्येष्ठादिकं त्रिषु ॥ ९ ॥ पदमध्यगतं कार्यं यानमार्गचतुष्टयम् । ज्येष्ठादिषु पुरेष्वेषु तत्पञ्च च चतुःकरम् ॥ १० ॥ उपरथ्या महामार्गस्यार्धं वा द्विशयाधिकम् । शेषा रथ्यास्तदर्धेन विधातव्याः प्रमाणतः ॥ ११ ॥ यानमार्गचतुष्कस्य कार्यों पार्श्वद्वयाश्रितौ । पदाष्टकपदान्तस्थौ द्वौ द्वौ जङ्घापथावपि ॥ १२ ॥ पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेऽर्धकरोज्झितौ । मध्यमादर्धहस्तेन हीनौ स्यातां कनीयसि ॥ १३ ॥ पुरस्यान्तर्गतौ कार्यों घण्टामार्गौ तथापरौ । राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥ १४ ॥ प्राक्प्रत्यगायताः सप्तदश मार्गा इतीरिताः । याम्योत्तरायतास्तद्वदन्ये स्युस्तत्प्रमाणतः ॥ १५ ॥ घण्टामार्गप्रमाणेण घण्टामार्गस्य बाह्यतः । समन्ततो वप्रभुवं स्थापयेत् तद्विधानवित् ॥ १६ ॥ महारथ्याप्रमाणेण तद्भूमेर्बाह्यतस्ततः । ५व्यासखातान्तरैः सार्धं विधेयं परिखात्रयम् ॥ १७ ॥ खातोत्पादोज्झितं कार्यं सत्र्यंशेनार्धतोऽपि वा । व्यासतः स्यादशेषेण मूलतस्तद्वदेव तत् ॥ १८ ॥ कुर्याद् वप्रं स्वभूभागे परिखोत्खातया मृदा । सोत्सङ्गं गजपृष्ठं वा गोत्रीयपदताडितम् ॥ १९ ॥ १ द. असम्बाधः । २ क. चतुःप्रान्तं । ३ ख. ग. द. स्यार्धस्वादिसया० । ४ द. ख. विधानवन् । ५ द. ख. ग. व्यासः ।

पुरनिवेशो दशमोऽध्यायः । ४१ खातोद्वृत्तमृदा वप्रनिर्माणधिकया ततः । भूप्रदेशान् पुरा निम्नानापूर्य समतां नयेत् ॥ २० ॥ एवं संशोध्य परिखात्रितयं परितोऽश्मभिः । विधेयमिष्टकाभिर्वा सम्यग्बद्धतलं स्थिरम्¹ ॥ २१ ॥ सिरावारिभिरापूर्णं पूर्णं वागागिनाम्भसा । विचित्राब्जमनोहारि ²ससंग्राहाम्बुनिर्गमम् ॥ २२ ॥ सर्वपार्श्वेष्वथैतस्य गन्धान्धमधुपाङ्गनान् । सुमनोविटपारामान् कुर्याद् ³वासान् समुत्सकान् ॥ २३ ॥ बाह्यभागं पुनस्तस्य विदध्यात् सर्वतोदिशम् । द्रुममूलैर्लताजालैः कण्टकैरपि संवृतम् ॥ २४ ॥ वप्रोर्ध्वभागगं मध्यं स्थूलोपलशिलाचितम् । कुर्यात् प्राकारमुद्दामं यद्वा पक्वेष्टकामयम् ॥ २५ ॥ ⁴ज्यायान् करैर्द्वादशभिर्दशभिर्मध्यमः स्थितः । कनीयानष्टभिर्हस्तैर्विस्तारः⁵ स्यात् त्रिधेत्यसौ ॥ २६ ॥ उच्छ्रायः सप्तदशभिः करैर्ज्यायान् प्रशस्यते । मध्यमः पञ्चदशभिस्त्रयोदशभिरन्तिमः ॥ २७ ॥ ऊर्ध्वं न सप्तदशकान्न त्रयोदशकादधः । प्राकारोच्छ्रयमिच्छन्ति नापि युग्मकरोन्मितम् ॥ २८ ॥ ⁶हस्ते हस्तेऽङ्गुलद्वन्द्वमायतः सम्यगुच्छ्रयात् । यस्य वा द्वादशकरा मूले भवति विस्तृतिः ॥ २९ ॥ चतु(रस्त्रो ? र्हस्तो)⁷च्छ्रितिँस्तस्य शिरः स्याद् दशविस्तृतम् । हस्तोच्चं कपिशीर्षं स्याद् द्विहस्ता ⁸काण्डवारिणी ॥ ३० ॥ कार्याः कर्णाश्रितैर्द्वारकर्णान्तस्थैश्च संयुताः । प्राकारेऽट्टालकास्तस्मिन् दिक्षु दिक्षु चतुर्दिशम् ॥ ३१ ॥ १ द. ख. ग. ॰तलस्थितम् । २ द. ससंग्राहां तु निर्गमम् ( ? ) । सग्राहं साम्बुनिर्गमम् इति शास्त्रिभिः संस्कृतः पाठः । ३ क. द्वादशकच्छकान् । ४ क. ज्येष्ठः । ५ क. द. विस्तारान् । ६ द. हस्ताङ्गुलद्वन्द्वमायतः । ७ द. ॰स्थितितस्तस्य । ८ द. द्विहस्तात् कण्ठचारिणी । वा. ६