समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 96, कुल 726 में से
संदर्भ में पढ़ेंभूमिपरीक्षा नामाष्टमोऽध्यायः । ३१ स्थले तृणसमुद्राणामन्तरेषु वसुन्धराः । प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ॥ ३३ ॥ दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः । संरम्भत्रासनिर्मुक्तं मनश्च रमयन्ति याः ॥ ३४ ॥ तास्वेवंगुणयुक्तासु महीषु विनिवेशयेत् । यथास्थानं जनपदान् खेटग्रामपुरादि च ॥ ३५ ॥ युता महीध्रमूला(स्व ? म्वु)प्राकारैस्तु पृथक्पृथक् । चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥ ३६ ॥ दुरारोहतया दुर्गे टङ्कच्छिन्न इवान्ततः । २समपृष्ठेऽम्बुयुक्ताद्रौ गिरिदुर्गावनिर्भवेत् ॥ ३७॥ कण्टकिद्रुमनीरन्ध्रनद्धे ३साम्भसि कानने । गूढप्रवेशमार्गे भूर्भूलदुर्गेति कीर्तिता ॥ ३८ ॥ द्वीपेषु स्वादुतोयेषु बह्वागाधजला बहिः । रम्यावकाशदेशा स्याज्जलदुर्गा च मेदिनी ॥ ३९ ॥ स्निग्धाः सारभृतः शुद्धाः प्रदक्षिणजलाशयाः । बहूदकास्तरुच्छन्ना निबिडाः प्रागुदक्प्लवाः ॥ ४० ॥ ४दूर्वास(स्त्वौ ? स्यौ)षधीमुञ्जकुरुन्दकुशवल्कलैः । परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥ ४१ ॥ वास्तुयज्ञामरस्थानाद्यारामोद्यानसम्भृताः । तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥ ४२ ॥ या वाहनानां सुखदा मिथुनानां रतिप्रदाः । पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥ ४३ ॥ कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः । सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥ ४४ ॥ १ द. मूलास्व; क. मूलाम् । २ शा. समपृष्ठेन्दु( ?)युक्तेऽद्रौ; क. समपृष्ठेऽम्बुयुक्तादौ; द. समपृष्ठे तु युक्तोदौ । ३ द. नद्धे साम्भसि; क. ॰तीराम्बुनद्धे॰ । ४ क. दुर्वाशखौषधी॰; द. पूर्वास्तस्तौषधी॰ ।