भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 97, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 97

३२ समराङ्गणसूत्रधारे । कल्हारपाटलाम्भोजमालतीचम्पकोत्पलैः । स्थलाम्बुप्रभवैश्चान्यैः सुगन्धा कुसुमैस्तथा ॥ ४५ ॥ गोमूत्रगोमयक्षीरदधिमध्वाज्यगन्धभाक् । समानगन्धा मदिरामाध्वीकेभमदासवैः ॥ ४६ ॥ शालिपिष्टकगन्धैश्च धान्यगन्धैश्च या तथा । प्रशस्ताखिलवर्णानामीदृग्गन्धा वसुन्धरा ॥ ४७ ॥ सिता रक्ता च पीता च कृष्णा१ चैव क्रमान्मही । विप्रादीनां हि वर्णानां सर्वेषामथवा हिता ॥ ४८ ॥ स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात् । वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥ ४९ ॥ घर्मागमे हिमस्पर्शा या स्यादुष्णा हिमागमे । प्रावृष्युष्णहिमस्पर्शा सा प्रशस्ता वसुन्धरा ॥ ५० ॥ मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ । २द्विपाश्वाब्धिसमस्वाना चेति स्युर्भूमयः शुभाः ॥ ५१ ॥ इदानीमप्रशस्तानां भुवां लक्ष्माभिदध्महे । पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥ ५२ ॥ भस्माङ्गारकपालास्थितुषकेशविषाश्मभिः । मूषकोत्करवल्मीकशर्कराभिश्च निर्भरा ॥ ५३ ॥ रूक्षा प्ररोहिणी निम्ना भङ्गुरा सुषिरोषरा । वामावर्तजलास्राविण्यसारा विषमोन्नता ॥ ५४ ॥ कटुकण्टकिनिःसारशुष्कनिष्फलपादपा । क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥ ५५ ॥ सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात् । यस्यां विनाशमायान्ति सह तूर्यादिनिखनैः ॥ ५६ ॥ सरित् पूर्ववहा यस्यां पुरार्थं तामपि त्यजेत् । बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥ ५७ ॥ १. द. कृष्टे चेति । २. क. द्विपांश्वाब्धिसम°; द. द्विपादौप्यसमस्थाना (?) ।