भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 88, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 88

सहदेवाधिकारः षष्ठोऽध्यायः । २३ नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः । नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥ ९ ॥ भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्रनिस्वनाः । अचण्डाशनयश्चासन् कबरीकान्तयो घनाः ॥ १० ॥ माद्यत्पिकवधूदष्टमाकन्दमुकुराङ्कुराः । आसन् सदापुष्पफलाभोगा येषां वनालयाः ॥ ११ ॥ एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च । ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥ १२ ॥ रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि । समत्वान्नाभवत् तेषामुत्तमाधममध्यता ॥ १३ ॥ न खेटनगरग्रामपुरक्षेत्रखलादिकम् । न दंशमशकक्रव्याद्वयं वा न ग्रहादि च ॥ १४ ॥ कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् । पुरास्मिन् भारते वर्षे तेषां निवसत़ामिति ॥ १५ ॥ जगाम सुबहुः कालः सुरैः सार्ध सुर(स्त्रि ? श्रि)याम् । अज्ञाततत्प्रभावानां सहसंवाससंभवा ॥ १६ ॥ अथैषामभवद् दैवादवज्ञा त्रिदशान् प्रति । अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥ १७ ॥ आदाय तत्कल्पतरुं निपेतुर्द्यां दिवौकसः । दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥ १८ ॥ सरसः परमो भूमौ भूरसश्च न्यवर्तत । स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥ १९ ॥ व्यलपन् बहुधात्यर्थमनैर्थकृतचेतसः । ततो विलपतां भूरि स्वैरमाहारहेतवे ॥ २० ॥ प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि । भूरसेनेव तेनैते कुर्वाणाः प्राणरक्षणम् ॥ २१ ॥ १ 'नर्थीकृ' ख. पाठः ।