समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 89, कुल 726 में से
संदर्भ में पढ़ें२४ समराङ्गणसूत्रधारे विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे । अथैषां पश्यतामेव कदाचिद् भाग्यसंक्षयात् ॥ २२ ॥ विपर्ययाच्च कालस्य भूमेः पर्पटकोऽप्यगात् । ततः पर्पटके नष्टे तुषशूककणोज्झिताः ॥ २३ ॥ अकृष्टपच्या मेदिन्यामभवञ् शालितण्डुलाः । शाल्योदनेन तेनाथ स्वादुव्यञ्जनेन ते ॥ २४ ॥ परमां तृप्तिमासेदुः परितोषात्तचेतसः । तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वधः ॥ २५ ॥ ते व्यधुर्महतो राशींस्तंत्क्षेत्राणि च चक्रिरे । अजायत ततो लोभो मात्सर्यैर्ष्यापुरस्सरः ॥ २६ ॥ तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः । द्वन्द्वप्राप्त्या ततस्तेषां बिभ्रतामुत्तमां गतिम् ॥ २७ ॥ धैर्यध्वंसादभूत् स्त्रीषु भृशं रागतुरङ्गमः । दारक्षेत्रनिमित्तानि भूयांस्येषामनन्तरम् ॥ २८ ॥ परिक्लेशैकमूलानि द्वन्द्वान्यसन् पृथक्पृथक् । ततः स्वक्लृप्तमर्यादोच्छेदिष्वेष्वजितात्मसु ॥ २९ ॥ अविनीतेष्वभाग्येषु स शालिस्तुषतामगात् । प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥ ३० ॥ मलप्रवृत्तिरभवत् तुषधान्योपसेवया । तुषधान्ये ततो नष्टे परिभुक्ते च सञ्चये ॥ ३१ ॥ चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम् । ऋतवः कालपर्यासात् षड् वसन्तादयोऽभवन् ॥ ३२ ॥ ततस्तेषामभूद् दोषरोगशोकाकुलं वपुः । मनश्च कामक्रोधेष्र्यादैन्यास्रूयादिदूषितम् ॥ ३३ ॥ आधिदैवकमुष्णाम्बुशीतादिजनितं महत् । आधिभौतिकमप्यासीद् दुःखं व्यालमृगादिजम् ॥ ३४ ॥ १ 'स्ततः क्षेत्राणि चक्रि' ख. ग. पाठः । २ 'र्यादास्वनिष्ठेष्व' क. पाठः ।