समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 91, कुल 726 में से
संदर्भ में पढ़ेंउक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम् । अवोचन् दुःखिता दुःखादस्मात् त्रायस्व नः प्रभो ! ॥ ६॥ कल्पद्रुमामर्त्यक्तान् द्वन्द्वार्तिक्रान्तचेतसः । व्यसनार्णवनिर्मग्नान् पाहि नः पृथिवीपते ! ॥ ७॥ अथो पृथुरुवाचैतान् मा भैष्ट सुखमास्यताम् । दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥ ८ ॥ ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत् । तेषु ये वेदणिरताः स्वाचाराः संयतेन्द्रियाः ॥ ९ ॥ ¹सूरयश्चावदाताश्च ब्राह्मणास्तेऽभवंस्तदा । यजनाध्ययने दानं याजनाध्यापनार्थिताः ॥ १० ॥ धर्मास्तेषां विमुच्यान्यांस्त्रींस्तुल्याः क्षत्रवैश्ययोः । ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥ ११ ॥ दृढव्यायतदेहाश्च क्षत्रियास्त इहाभवन् । विक्रमो लोकसंरक्षाविभागो व्यवसायिता ॥ १२ ॥ एतेषामयमप्युक्तो धर्मः शुभफलोदयः । निसर्गनैपुणं येषां रतिर्वित्त call: र्जनं प्रति ॥ १३ ॥ श्रद्धादाक्ष्य²दयावन्तो वैश्यांस्तानकरोदसौ । चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥ १४ ॥ वैश्यस्य कथितो धर्मस्तद्वत् कर्म च तैजसम् । नातिमानभृतो नातिशुचयः पिशुनाश्च ये ॥ १५ ॥ ते शूद्रजातयो जाता नातिधर्मरताश्च ये । कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥ १६ ॥ वर्णत्रितयशुश्रूषा धर्मस्तेषामुदाहृतः । ब्रह्मचारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥ १७ ॥ इत्याश्रमाः ³पृथक् तेन चत्वारः प्रविभाजिताः । गुरुशुश्रूषणं भैक्षं व्रतचर्याग्निकर्म च ॥ १८ ॥ १ द. ख. ग. शुचयश्चां । २ द. ˚दयावन्तो । ३ द. पृथक्त्वेन ।