समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 106, कुल 726 में से
संदर्भ में पढ़ेंपुरनिवेशो दशमोऽध्यायः । ४१ खातोद्वृत्तमृदा वप्रनिर्माणधिकया ततः । भूप्रदेशान् पुरा निम्नानापूर्य समतां नयेत् ॥ २० ॥ एवं संशोध्य परिखात्रितयं परितोऽश्मभिः । विधेयमिष्टकाभिर्वा सम्यग्बद्धतलं स्थिरम्¹ ॥ २१ ॥ सिरावारिभिरापूर्णं पूर्णं वागागिनाम्भसा । विचित्राब्जमनोहारि ²ससंग्राहाम्बुनिर्गमम् ॥ २२ ॥ सर्वपार्श्वेष्वथैतस्य गन्धान्धमधुपाङ्गनान् । सुमनोविटपारामान् कुर्याद् ³वासान् समुत्सकान् ॥ २३ ॥ बाह्यभागं पुनस्तस्य विदध्यात् सर्वतोदिशम् । द्रुममूलैर्लताजालैः कण्टकैरपि संवृतम् ॥ २४ ॥ वप्रोर्ध्वभागगं मध्यं स्थूलोपलशिलाचितम् । कुर्यात् प्राकारमुद्दामं यद्वा पक्वेष्टकामयम् ॥ २५ ॥ ⁴ज्यायान् करैर्द्वादशभिर्दशभिर्मध्यमः स्थितः । कनीयानष्टभिर्हस्तैर्विस्तारः⁵ स्यात् त्रिधेत्यसौ ॥ २६ ॥ उच्छ्रायः सप्तदशभिः करैर्ज्यायान् प्रशस्यते । मध्यमः पञ्चदशभिस्त्रयोदशभिरन्तिमः ॥ २७ ॥ ऊर्ध्वं न सप्तदशकान्न त्रयोदशकादधः । प्राकारोच्छ्रयमिच्छन्ति नापि युग्मकरोन्मितम् ॥ २८ ॥ ⁶हस्ते हस्तेऽङ्गुलद्वन्द्वमायतः सम्यगुच्छ्रयात् । यस्य वा द्वादशकरा मूले भवति विस्तृतिः ॥ २९ ॥ चतु(रस्त्रो ? र्हस्तो)⁷च्छ्रितिँस्तस्य शिरः स्याद् दशविस्तृतम् । हस्तोच्चं कपिशीर्षं स्याद् द्विहस्ता ⁸काण्डवारिणी ॥ ३० ॥ कार्याः कर्णाश्रितैर्द्वारकर्णान्तस्थैश्च संयुताः । प्राकारेऽट्टालकास्तस्मिन् दिक्षु दिक्षु चतुर्दिशम् ॥ ३१ ॥ १ द. ख. ग. ॰तलस्थितम् । २ द. ससंग्राहां तु निर्गमम् ( ? ) । सग्राहं साम्बुनिर्गमम् इति शास्त्रिभिः संस्कृतः पाठः । ३ क. द्वादशकच्छकान् । ४ क. ज्येष्ठः । ५ क. द. विस्तारान् । ६ द. हस्ताङ्गुलद्वन्द्वमायतः । ७ द. ॰स्थितितस्तस्य । ८ द. द्विहस्तात् कण्ठचारिणी । वा. ६