समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 105, कुल 726 में से
संदर्भ में पढ़ें४० समराङ्गणसूत्रधारे बलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च । असम्बाधसमश्चैष कार्योऽयं काश्मशर्करः ॥ ८ ॥ महारथ्याद्वयं कार्यं तदुपान्तस्थवंशयोः । तद् द्वादश दशाष्टौ स्यात् करान् ज्येष्ठादिकं त्रिषु ॥ ९ ॥ पदमध्यगतं कार्यं यानमार्गचतुष्टयम् । ज्येष्ठादिषु पुरेष्वेषु तत्पञ्च च चतुःकरम् ॥ १० ॥ उपरथ्या महामार्गस्यार्धं वा द्विशयाधिकम् । शेषा रथ्यास्तदर्धेन विधातव्याः प्रमाणतः ॥ ११ ॥ यानमार्गचतुष्कस्य कार्यों पार्श्वद्वयाश्रितौ । पदाष्टकपदान्तस्थौ द्वौ द्वौ जङ्घापथावपि ॥ १२ ॥ पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेऽर्धकरोज्झितौ । मध्यमादर्धहस्तेन हीनौ स्यातां कनीयसि ॥ १३ ॥ पुरस्यान्तर्गतौ कार्यों घण्टामार्गौ तथापरौ । राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥ १४ ॥ प्राक्प्रत्यगायताः सप्तदश मार्गा इतीरिताः । याम्योत्तरायतास्तद्वदन्ये स्युस्तत्प्रमाणतः ॥ १५ ॥ घण्टामार्गप्रमाणेण घण्टामार्गस्य बाह्यतः । समन्ततो वप्रभुवं स्थापयेत् तद्विधानवित् ॥ १६ ॥ महारथ्याप्रमाणेण तद्भूमेर्बाह्यतस्ततः । ५व्यासखातान्तरैः सार्धं विधेयं परिखात्रयम् ॥ १७ ॥ खातोत्पादोज्झितं कार्यं सत्र्यंशेनार्धतोऽपि वा । व्यासतः स्यादशेषेण मूलतस्तद्वदेव तत् ॥ १८ ॥ कुर्याद् वप्रं स्वभूभागे परिखोत्खातया मृदा । सोत्सङ्गं गजपृष्ठं वा गोत्रीयपदताडितम् ॥ १९ ॥ १ द. असम्बाधः । २ क. चतुःप्रान्तं । ३ ख. ग. द. स्यार्धस्वादिसया० । ४ द. ख. विधानवन् । ५ द. ख. ग. व्यासः ।