समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 107, कुल 726 में से
संदर्भ में पढ़ें४२ समराङ्गणसूत्रधारे द्विभौमांश्चरिकोर्ध्वं च प्राकारोच्छ्रायविस्तृतान् । तदर्धं निर्गमान् कुर्यात् ससालाट्टालकानथ ॥ ३२ ॥ शतं शतं स्याद्धस्तानां मिथश्चाट्टालकान्तरम् । इत्थं पुरमगम्यं स्यात् पत्त्यश्वरथदन्तिनाम् ॥ ३३ ॥ चरिकां संचरद्वारां सुखारोहां सवेदिकाम् । ससोपानां सनिर्यूहां कुर्यात् सकपिशीर्षकाम् ॥ ३४ ॥ राजमार्गमहारथ्यासंश्रितानि चतुर्दिशम् । त्रीणि त्रीणि विधेयानि पुरे द्वाराणि तद्विदा ॥ ३५ ॥ राजमार्गमहाद्वारचतुष्कं विस्तरान्नव । अष्टौ सप्त करा नोर्ध्वं द्विगुणं ल्लिंकरोज्झितम्(?) ॥ ३६ ॥ महारथ्याश्रयं द्वारं तत् षट्पञ्चचतुष्करम् । उच्छ्रयात् सार्धसार्धैकहस्तोनं विस्तरेण तत् ॥ ३७ ॥ कुर्यात् प्रतोलीः सर्वेषु महाद्वारेष्वथो दृढाः । दृढार्गलाश्चेन्द्रकीलाः कपाटपरिघान्विताः ॥ ३८ ॥ राजमार्गसमा २ शाला स्यात् प्रतोलीविनिर्गमा ३ । तदर्धं कोष्ठकान्तः स्याद् व्यासोऽध्यर्धं तयोः स्मृतः ॥ ३९ ॥ चतुरश्रामिति न्यस्य प्रतोलीं वदनायताम् । व्यासत्र्यंशविन्यस्तमार्गां मूषाद्वयान्विताम् ॥ ४० ॥ अन्तर्भित्तौ चतुर्द्वारं महाद्वारेण सम्मितम् । विकल्पकोष्ठकान्तेषु दारुभिस्तद् विभूषयेत् ॥ ४१ ॥ द्वारे चोभयतःशाले द्वे द्वे द्वारे च मूषयोः । ते कार्ये सम्मुखे व्यासाद् द्विकरे द्विगुणोच्छ्रिते ॥ ४२ ॥ (ष ? त) द्वारूंमूषयोः पट्टमध्यं पञ्चकरोच्छ्रितम् । तद्वत् कार्या द्वितीया भूर्द्वारशेषोदयोच्छ्रिता ॥ ४३ ॥ १ द. ख. ग. ॰करोष्ठितम् । २ द. ख. ग. ॰समः । ३ क. विनिर्गमः, द. ख. विनिर्मात् । ४ द. ख. व्यासो वृद्ध । ५ द. ख. ग. ॰न्ते यद् दा°। ६ द. षद्दारुं, °तुं मू° [शा.] । ७ द. ख. बद्धा ।