समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 94, कुल 726 में से
संदर्भ में पढ़ेंभूमिपरीक्षा नामाष्टमोऽध्यायः । २१ बालिशस्वामिनी भोग्या सीता गोचररक्षिणी । अपाश्रयवती कान्ता खनिमत्यत्मधारिणी ॥ ७ ॥ वणिक्प्रसाधिना द्रव्यसम्पन्नामित्रघातिनी । आश्रेणीपुरुषा शक्यसामन्ता देवमातृका ॥ ८ ॥ धान्या हस्तिवनोपेता सुरक्षा चेति षोडश । भुवः संज्ञाभिरुद्दिष्टा लक्ष्मासामथ कथ्यते ॥ ९ ॥ भूभुजा बालिशेनापि शक्यते या प्रशासितुम् । या च भद्रजना सा स्याद् बालिशस्वामिनी क्षितिः ॥ १० ॥ वितरन्त्यधिकं यस्यां भागभोगादिकान् करान् । नरा भूरिश्रियः सात्र भोग्येति क्षितिरुच्यते ॥ ११ ॥ यस्यां नदाश्च नद्यश्च गिरिर्मध्येऽथवा बहिः¹ । विभक्तक्षेत्रसीमा सा सीता गोचररक्षिणी ॥ १२ ॥ सरिद्रिद्वनागेषु त्रासाद् यस्यां विशेज्जनः । जनापाश्रययोग्यत्वादपाश्रयवतीति सा ॥ १३ ॥ वनोपवनवल्यद्रिसरित्कुञ्जमनोहरा । देहिनो रमयत्युर्वी या सा कान्तेति कीर्तिता ॥ १४ ॥ यस्यां सदैव जायन्ते कलधौतादिधातवः । लवणानि च भूयांसि प्राहुः खनिमतीति ताम् ॥ १५ ॥ यात्यन्तं नानुगृह्येत दण्डकोशासनादिभिः । स्फीतलोकाश्रया या च सा स्याद् भूरात्मधारिणी ॥ १६ ॥ प्रसिध्यन्त्यसकृद् यत्र पण्योपक्रयविक्रयाः । वणिक्प्रसाधितेत्युक्ता सा भूर्वणिंगलङ्कृता ॥ १७ ॥ शाकाश्वकर्णखदिरश्रीपर्णीस्यन्दनासनैः । वेणुवेत्रशराद्यैश्च युक्ता द्रव्यवतीति भूः ॥ १८ ॥ यस्यां जनपदाः साधु विभक्तास्त्यक्तविक्रमाः । योगं यान्ति च मित्राणि स्याद् भूः सामित्रघातिनी ॥ १९ ॥ १ द. हितः ।