संस्कार विधि (महर्षि दयानन्द सरस्वती - षोडश वैदिक संस्कार एवं गुरुकुल विधान सटीक)
Sanskar Vidhi of Maharshi Dayananda Saraswati
महर्षि स्वामी दयानन्द सरस्वती द्वारा
पृष्ठ 281, कुल 318 में से
संदर्भ में पढ़ेंसंन्यासप्रकरणम् २७७ अं॒हो॒मुचे॒ वृष॑भं य॒ज्ञिया॑नां वि॒राज॑न्तं प्रथ॒मम॑ध्व॒राणा॑म् । अ॒पां नपा॑तमश्विना हुवे धि॒येन्द्रेण॑ म इन्द्रि॒यं द॑त्त॒मोज॒: स्वाहा॑ ॥ ४ ॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह । अ॒ग्निर्मा॒ तत्र॑ नयत्व॒ग्निर्मेधां द॑धातु मे । अ॒ग्नये॒ स्वाहा॑ ॥ इदमग्नये—इदन्र मम ॥ ५ ॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह । वा॒युर्मा॒ तत्र॑ नयतु वा॒युः प्रा॒णान् द॑धातु मे । वा॒यवे॒ स्वाहा॑ ॥ इदं वायवे—इदन्र मम ॥ ६ ॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह । सूर्यो॑ मा॒ तत्र॑ नयतु चक्षुः॒ सूर्यो॑ दधातु मे । सूर्या॑य॒ स्वाहा॑ ॥ इदं सूर्याय—इदन्र मम ॥ ७ ॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह । च॒न्द्रो मा॒ तत्र॑ नयतु मन॑श्च॒न्द्रो द॑धातु मे । च॒न्द्राय॒ स्वाहा॑ ॥ इदं चन्द्राय—इदन्र मम ॥ ८ ॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह । सोमो॑ मा॒ तत्र॑ नयतु पयः॒ सोमो॑ दधातु मे । सोमा॑य॒ स्वाहा॑ ॥ इदं सोमाय—इदन्र मम ॥ ९ ॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह । इन्द्रो॑ मा॒ तत्र॑ नयतु बल॒मिन्द्रो॑ दधातु मे । इन्द्रा॑य स्वाहा॑ ॥ इदमिन्द्राय—इदन्र मम ॥ १० ॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह । आपो॑ मा॒ तत्र॑ नयन्त्व॒मृतं॒ मोप॑ तिष्ठतु । अ॒द्भ्यः स्वाहा॑ ॥ इदमद्भ्यः—इदन्र मम ॥ ११ ॥