भारतकोश
सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)

सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)

Sarva-Darshana-Sangraha with Hindi Commentary

माधवाचार्य (विद्यारण्य स्वामी) / पं. उमाशंकर शर्मा ऋषि द्वारा

DevanagariHindipublished316 पृष्ठ

पृष्ठ 149, कुल 316 में से

संदर्भ में पढ़ें
पृष्ठ 149

( १४० ) सर्वदर्शनसंग्रह । [ पूर्णप्रज्ञ- अशिक्षितत्रासनमेतत् दुष्टत्वमूलानिरूपणात् । तद्द्विविधं साधारणमसाधारणञ्च । तत्राद्यं स्वव्याघातकम् । द्वितीयं त्रिविधम् युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वञ्चेति । तत्र साधा- रणमसम्भावितमेव उक्तस्याक्षेपस्य स्वात्मव्यापनानुपलम्भात् । एवमसाधारणमपि घटस्य नास्तितोक्तावस्तित्ववत् प्रकृतेऽप्यु- पपत्तेः । ननु प्रपञ्चस्य मिथ्यात्वमभ्युपेयते नासत्त्वमिति चेत्त- देतत् सांड्य शिरश्छेदेऽपि शतं न ददाति विंशतिपञ्चकन्तु प्रय- च्छतीति शाकटिकवृत्तान्तमनुहरेत् मिथ्यात्वासत्त्वयो पर्या- यत्वादित्यलमतिप्रपञ्चेन ॥ ३८ ॥ यह अशिक्षितोंको भय दर्शाना है क्योंकि मिथ्या दोषका कारण कुछ नहीं दिखाया दुष्टत्वप्रयोजक दो प्रकार है एक साधारण और दूसरा असाधारण । साधारण स्वव्याघातक होता है । असाधारण तीन प्रकार हैं अपेक्षित अङ्गसे विकल १ अनपेक्षित अङ्गसे युक्त २ अनुपयुक्तस्थलवृत्तित्व ३ उक्त आक्षेप आत्मव्यापी न होनेसे साधारण संभव नहीं एव असाधारणभी असम्भावित हे जिस प्रकार घटका नास्तित्व कहनेसे अस्तित्व सम्भव नहीं । यदि कहो मैने प्रपञ्चको मिथ्यात्व कहा है असत्त्व नहीं कहा यह तो शिरके काटडालने परभी १०० रुपये न दूंगा पाच बी- सीही दूंगा इस प्रकार कहनेवाले मूर्खका अनुकरण करता हे असत्य ओर मिथ्या दोनों पर्याय हैं ॥ ३८ ॥ तत्र ‘अथातो ब्रह्मजिज्ञासा’ इति प्रथमसूत्रस्यायमर्थः । तत्राथशब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च स्वीक्रियते । अत शब्दो हेत्वर्थे । तदुक्तं गारुडे- अथात शब्दपूर्वाणि सूत्राणि निखिलान्यपि । प्रारभेत नियत्यैव तत्किमत्र नियामकम् ॥ कश्चार्थस्तु तयोर्वि- द्वान् कथमुत्तमता तयो । एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वत ॥ एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तम । आनन्त- र्याविकारे च मङ्गलार्थे तथैव च ॥ अथशब्दस्त्वत शब्दो हेत्वर्थे समुदीरित ॥” इति ॥ यतो नारायणप्रसादमन्तरेण न मोक्षो