सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 109, कुल 837 में से
संदर्भ में पढ़ें५० सात्वतसंहिता नानामन्त्रस्वरूपेण ह्यादिदेवः परो विभुः । आदिमध्यावसानेषु स्थितः सर्वस्य सर्वदा ॥ ३१ ॥ अथ विशाखयूपः पूर्वोक्तः परवासुदेव एवेत्यभिप्रायं विशदयति—नानामन्त्रेति । वही आदिदेव पर विभु वासुदेव सर्वदा सभी के आदि, मध्य एवं अवसान में अनेक मन्त्र स्वरूपों से स्थित हैं ॥ ३१ ॥ चतुर्व्यूहचतुष्के स्वे शान्तादिव्यक्तलक्षणे । प्राधान्येन त्रयाणां च देवानांमवतिष्ठते ॥ ३२ ॥ एवं शान्तोदितादिव्यूहचतुष्टयेऽपि परवासुदेव एव तत्तद्व्यूहान्तर्गतवासुदेव- रूपेणावतिष्ठत इत्याह—चतुर्व्यूहेति । अत्र शान्तोदितव्यूहान्तर्गतवासुदेवस्य परात्पर- वासुदेवाभिन्नत्वेनोभयोरप्येकेनैव मन्त्रेण चारितार्थ्यात् सङ्कर्षणादीनां त्रयाणां तदङ्गत्वेन प्रत्येकं मन्त्रानुक्तेश्च शान्तोदितवासुदेवस्याङ्गित्त्वरूपं प्राधान्यं ज्ञेयम् । सुषुप्त्यादिव्यूहत्रये तु प्रत्येकं चतुर्णां वासुदेवादिमन्त्राणामुक्तत्वात् तत्र वासुदेवस्याग्रगण्यत्वरूपं प्राधान्यं बोध्यम् ॥ ३२ ॥ वही वासुदेव प्रभु शान्तोदितादि व्यूह चतुष्टय में एवं सङ्कर्षणादि तीनों देवों में प्रधान रूप से स्थित रहते हैं ॥ ३२ ॥ यथाम्बरस्थः सविता त्वेक एव महामते । जलाश्रयाणि चाश्रित्य बहुत्वं सम्प्रदर्शयेत् ॥ ३३ ॥ एवमेकोऽपि भगवान् नानामन्त्राश्रयेषु च । तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ॥ ३४ ॥ अनुग्रहार्थं भविनां नानाश्रद्धावशेन तु । एवं परस्यैकस्यैव नानारूपत्वं दृष्टान्तमुखेन द्रढयति—यथेति सार्ध- द्वाभ्याम् ॥ ३३-३५ ॥ हे महामते ! जिस प्रकार आकाश स्थित एक ही सूर्य जल के आश्रय में प्रतिबिम्बित होकर अपना बहुत्व रूप प्रकट करते हैं इसी प्रकार एक भगवान् भी अपना बहुत्व लोगों पर अनुग्रह करने के लिये तथा भक्तों के श्रद्धावश अनेक मन्त्रों में तथा चार प्रकार के अपने रूपों में प्रकट करते हैं अर्थात् बहुत्व को प्राप्त करते हैं ॥ ३३-३५ ॥ स्वप्नव्यूहमन्त्रचतुष्टयोद्धारः चतुष्कमथ मन्त्राणां निबोध गदतो मम ॥ ३५ ॥ सितादिवर्णव्यक्तीनां वाचकत्वेन वै क्रमात् । अथ स्वप्नव्यूहमन्त्रचतुष्टयोद्धारमाह—चतुष्कमथ मन्त्राणामित्यारभ्य यावत्