भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 108, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 108

चतुर्थः परिच्छेदः ४९ आदौ विशाखयूपमन्त्रमाह—अथेत्यारभ्य मन्त्रस्यास्य महामते इत्यन्तम् । 'ॐ पराय तेजोरूपाय परानपेक्षाय परानपेक्षिताय नमः' इति चतुर्विंशत्यक्षरोऽयं मन्त्रः समुद्धृतो भवति ॥ २०-३० ॥ अब विभिन्न शरीर वाले इन महात्मा विशाखयूप संज्ञक देव का विद्या एवं विवेकप्रद महामन्त्र कहता हूँ ॥ २० ॥ वर्णमक्षस्थमादाय त्वाद्यमेकादशात् ततः । भिन्नं नाभिद्वितीयेन तृतीयं नेमिमण्डलात् ॥ २१ ॥ द्वितीयं केवलं बाह्यात् तेजोरूपाय वै पदम् । ततस्त्वेकादशात् पूर्वं केवलं तु समाहरेत् ॥ २२ ॥ तृतीयमक्षरं बाह्याद् युक्तं नाभ्यपरेण तु । दशमादपरं वर्णं पूर्वमेकादशात् ततः ॥ २३ ॥ एकादशस्वराक्रान्तमुद्धरेत् तदनन्तरम् । ततो नाभिद्वितीयेन युक्तं प्रध्यक्षरं हि यत् ॥ २४ ॥ केवलं द्वितीयं बाह्यादाद्यमेकादशात् तथा । नेमेस्तृतीयं तदनु द्वितीयं स्वरसंयुक्तम् ॥ २५ ॥ दशमादपरं शुद्धं पूर्वमेकादशात् ततः । नाभ्येकादशसंयुक्तं तदन्तेऽमललोचन ॥ २६ ॥ नाभेस्तृतीयसंयुक्तं प्रधिवर्णं समाहरेत् । अथ नाभिद्वितीयेन युक्तं यत्परमष्टमात् ॥ २७ ॥ नेमिद्वितीयं तदनु नमस्कारसमन्वितम् । चतुर्विंशतिभिर्वर्णैर्युक्तो मन्त्रो ह्ययं महान् ॥ २८ ॥ 'वर्णमक्षस्थमादाय ... ... नमस्कारसमन्वितम्' पर्यन्त (२१-२८) महामन्त्र कहा गया है, जिसका स्वरूप इस प्रकार है—'ॐ पराय तेजोरूपाय परानपेक्षाय परानपेक्षिताय नमः' । यह महामन्त्र चौबीस वर्णों से युक्त है ॥ २१-२८ ॥ प्रणवेन पदं चास्य पूर्वमेकाक्षरं स्मृतम् । द्वितीयं त्र्यक्षरं प्रोक्तं पञ्चार्णं तदनन्तरम् ॥ २९ ॥ षडक्षरं चतुर्थं तु सप्तार्णं चात्र पञ्चमम् । पदं तु द्व्यक्षरं षष्ठं मन्त्रस्यास्य महामते ॥ ३० ॥ अब इसके अन्तर्गत पदों तथा अक्षरों को कहते हैं—प्रथम पद एकाक्षर, द्वितीय पद तीन अक्षर, तृतीय पद पाँच अक्षर, चतुर्थ पद छह अक्षर, पञ्चम पद सात अक्षर, षष्ठ पद दो अक्षर इस प्रकार मन्त्रों के अक्षरों एवं पद की संख्या कही गई ।