सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 112, कुल 837 में से
संदर्भ में पढ़ेंपञ्चमः परिच्छेदः जाग्रद्व्यूहसमाराधनम् नारद उवाच अथ विप्रवरा भूयः प्राह सर्वेश्वरो हरिः । व्यामोहविनिवृत्त्यर्थं भविनां सीरिणः स्फुटम् ॥ १ ॥ अथ पञ्चमो व्याख्यास्यते । अत्र पुनर्जाग्रद्व्यूहलक्षणमाह—अथेति । भविनां = संसारिणां व्यामोहविनिवृत्त्यर्थम् । सीरिणः = सङ्कर्षणस्य प्राहेत्यन्वयः ॥ १ ॥ नारद जी ने कहा—हे विप्रवरो ! संसारियों के व्यामोह की निवृत्ति के लिये श्रीभगवान् वासुदेव ने सङ्कर्षण से जाग्रल्लक्षण व्यूह को इस प्रकार कहा ॥ १ ॥ श्रीभगवानुवाच अनन्तसरसि क्षार्णे विश्रान्तं यन्महामते । अकाराक्षरमूलं तु नित्यं सर्वाश्रयाम्बुजम् ॥ २ ॥ अकाराक्षरनालं तु शेषसवर्णापिल्लवम् । दिगष्टकं समाश्रित्य यत्तत् तिष्ठति चक्रवत् ॥ ३ ॥ तत्पत्रमध्ये भगवान् जाग्रत्संज्ञपदे त्वधः । यष्टव्यो भावनीयश्च यथा तदधुनोच्यते ॥ ४ ॥ हृदयकमलस्य वर्णमयत्वनिरूपणपूर्वकं जाग्रत्यदसंज्ञे तत्पत्रे जाग्रद्व्यूहार्चनं कार्य- मित्याह—अनन्तसरसि = महासरोवर इत्यर्थः । अत्र क्षकारस्य जगदुत्पत्तिहेतुभूतब्रह्म- शक्तिपञ्चकप्राथमिकत्वात् सरोवरत्वं ज्ञेयम् । तदुक्तं लक्ष्मीतन्त्रे— क्षादि शान्तं सुरेशान शक्त्युन्मेषविशेषितम् ॥ क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया । वासुदेवाख्यया होऽभूत् सांख्यः सङ्कर्षणोदयः ॥ प्रद्युम्नः षाख्यया ज्ञेयो हानिरुद्धस्तु शाख्यया । ता एताः शक्तयः पञ्च पञ्चब्रह्मात्मिकाः पराः ॥ स्फूर्तयो मदभिन्नास्ता जगदुत्पत्तिहेतवः । ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः ॥ —(लक्ष्मी० १९।३०-३३) इति ।