भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 119, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 119

६० सात्वतसंहिता बहिष्ठेभ्यश्चतुर्थं तु द्वाभ्यां नाभेः परं न्यसेत् ॥ ४६ ॥ द्वितीयं केवलं बाह्यात् सङ्कर्षणाय वै पदम् । तृतीयं प्रथमं नेमेरादायाकारसंयुक्तम् ॥ ४७ ॥ द्वितीयमपि वै बाह्याच्छुद्धं तदनु वै नमः । षट्त्रिंशाक्षरसंयुक्तस्त्वयं मन्त्रो महामते ॥ ४८ ॥ प्रणवान्ते त्वथादायेत्यारभ्य त्रीणि पञ्चाक्षराणयत इत्यन्तम् 'ॐ आं सौनन्दकिने संवर्तकिने तालकेतवे नीलवाससे कामपालाय सङ्कर्षणाय रामाय नमः' इति षट्त्रिंश- दक्षरमन्त्रः समुद्धृतः ॥ ३९-४९ ॥ अब 'प्रणवान्ते त्वथादाय ... ... पञ्चाक्षराणयतः' (५.३९-५.४९) पर्यन्त दूसरे मन्त्र का उद्धार कहते हैं । मन्त्र का स्वरूप—'ॐ आं सौनन्दकिने संवर्तकिने तालकेतवे नीलवाससे कामपालाय सङ्कर्षणाय रामाय नमः' । यह ३६ अक्षर का मन्त्र कहा गया है ॥ ३९-४९ ॥ षड्वर्णं पदमस्याद्यं पञ्चार्णं तदनन्तरम् । दशाक्षरं तृतीयं तु त्रीणि पञ्चाक्षराणयतः ॥ ४९ ॥ इसका आदि पद छः अक्षर का, द्वितीय पद पाँच अक्षर का, तृतीय पद १० अक्षर का, इसके बाद ३ पद पाँच-पाँच अक्षरों के हैं ॥ ४९ ॥ अथादायार्क्षगं बीजं नाभेः पञ्चदशात् ततः । शार्ङ्गधृते पदं दद्याच्चतुर्वर्णमतः परम् ॥ ५० ॥ नेमिपूर्वमथादाय प्रागरात् प्रथमं ततः । तृतीयं च बहिष्ठेभ्यः पदं त्र्यर्णं ध्वजाय वै ॥ ५१ ॥ ततस्तृतीयं बाह्यात् तु प्रथमात् प्रथमं ततः । तदधो विनियोक्तव्यं द्वितीयं वर्णमष्टमात् ॥ ५२ ॥ द्वितीयस्वरसंयुक्तमथ बाह्यात् तु पञ्चमम् । अष्टमं तं तदुद्देशात् केवलं पुनरेव तत् ॥ ५३ ॥ नाभेरेकादशाक्रान्तं षडक्षरमतः परम् । पदं सनत्कुमाराय पञ्चाक्षरमनन्तरम् ॥ ५४ ॥ पदं जगत्प्रियायेति प्रद्युम्नाय नमस्ततः । चतुस्त्रिंशाक्षरः सोऽयं मन्त्रः शृणु पदान्यपि ॥ ५५ ॥ अथादायार्क्षगं बीजमित्यारभ्य षड्वर्णं षष्ठमेव हीत्यन्तम् 'ॐ अं शार्ङ्गधृते मकरध्वजाय रक्तवाससे सनत्कुमाराय जगत्प्रियाय प्रद्युम्नाय नमः' इति चतुस्त्रिंशदक्षरः समुद्धृतः ॥ ५०-५७ ॥