भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 121, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 121

६२ सात्वतसंहिता 'अक्षस्थं षोडशं नाभेरित्यारभ्य षष्ठं सप्ताक्षरं स्मृतम्' इत्यन्तम् 'ॐ अः नन्द- कानन्दकराय ऋष्यध्वजायानिरुद्धायासितवाससे विष्क्कसेनाय नमः' इति द्वात्रिंशद- क्षरो मन्त्रः समुद्धृतः ॥ ५७-६८ ॥ 'अक्षस्थं षोडशं विद्धि ... ... सप्ताक्षरं स्मृतम्' पर्यन्त चौथे मन्त्र का उद्धार कहते हैं । मन्त्र का स्वरूप इस प्रकार है—'ॐ अः नन्दकानन्दकराय ऋष्य- ध्वजायानिरुद्धायासितवाससे विष्क्कसेनाय नमः' । यह बत्तीस अक्षर का मन्त्र है । अब इसके पदों तथा अक्षरों की संख्या सुनिए—पद का भेद करने पर यह मन्त्र ३२ से एक अक्षर अधिक ३३ अक्षर का हो जाता है । पहला पद दो अक्षर का, द्वितीय नव अक्षर का, इसके बाद तीन पद पाँच-पाँच अक्षर का, छठाँ सात अक्षरों का होता है । इस प्रकार पद और मन्त्रों की संख्या कही गई ॥ ५७-६८ ॥ पुरुष, सत्य, अच्युत, वासुदेवमन्त्रोद्धारः अप्ययावसरे प्राप्ते स्मरणे चार्चने विभोः ॥ ६८ ॥ शृणु मन्त्रचतुष्कं तु पुनरन्यत् समासतः । आद्यमेकादशाद् वर्णं पञ्चमस्वरसंयुक्तम् ॥ ६९ ॥ युक्तं स्वरेण तेनैव तृतीयं नेमिमण्डलात् । द्वितीयस्वरसंयुक्तमथ बाह्यात् तु सप्तमम् ॥ ७० ॥ द्वितीयं केवलं नेमेराद्यन्ते प्रणवो नमः । शुद्धं त्वथाष्टमं बाह्याद् द्वितीयमथ चाष्टमात् ॥ ७१ ॥ अथो नेमिद्वितीयेन युक्तं नाभ्यपरेण तु । केवलं द्वितीयं बाह्यान्नमस्कारमतः परम् ॥ ७२ ॥ अथाक्षगं नाभिपूर्वं द्वितीयं त्रितयादरात् । तदधो द्वितयं बाह्यान्नाभिपञ्चमसंयुक्तम् ॥ ७३ ॥ अथ नाभिद्वितीयेन युक्तं यत् परमाष्टमात् । द्वितीयं केवलं बाह्यान्नमस्कारं ततः परम् ॥ ७४ ॥ अक्षस्थबीजं तदनु द्वितीयं द्वादशादरात् । द्वितीयात् प्रथमं चाथ पञ्चमं नेमिमण्डलात् ॥ ७५ ॥ केवलं त्रितयं ह्येतद् द्वितीयं च तथाष्टमात् । एकादशस्वराक्रान्तं वासुदेवाय वै नमः ॥ ७६ ॥ अथाप्ययक्रमेण व्यूहार्चने मन्त्रचतुष्टयमाह—अप्ययावसर इत्यादिभिः । तथा च—'ॐ पुरुषाय नमः, ॐ सत्याय नमः, ॐ अच्युताय नमः, ॐ भगवते वासुदेवाय नमः' इत्यनिरुद्धादिवासुदेवान्तमन्त्रचतुष्कमुक्तं भवति ॥ ६८-७९ ॥