सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 142, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः ८३ स्नपनत्वादङ्कुरादिकं न कार्यम् । तथा चोक्तं पाद्मे— नित्ये च स्नपने नापि कौतुकं नाङ्कुरार्पणम् । निशाचूर्णेन स्नपनमिष्यते मण्टपस्थलम् ॥ इति । ‘स्नानार्थं कल्पितेनैव ह्युदकेन विमिश्रितम्’ (६।४०) इत्युक्तत्वाद् धात्री- फलोदकादिविंशतिद्रव्येष्वपि किञ्चित् स्नानीयजलं संयोज्यम्, ‘स्नानीयाम्बुसमेतानि देयान्यम्बून्धमूनि तु’ (लक्ष्मी० ३९।१३) इति लक्ष्मीतन्त्रोक्त्या क्षीरादिपञ्चकं विना आमलकाद्याम्बुष्वेव स्नानीयाम्बुसंयोजनस्य प्रतीयमानत्वात् । अर्घ्यपुष्पसमन्वितमिति पदं क्षालनमित्यस्य विशेषणं ज्ञेयम्, पारमेश्वरेऽप्येषामेव श्लोकानां प्रतिपादितत्वात् । केषुचित् प्रयोगेषु अर्घ्यपुष्पसमन्वितमिति पदस्य स्नपनद्रव्यविशेषणत्वाभिप्रायेण द्रव्यकलशेषु स्नानीयकलशात् किञ्चिज्जलमर्घ्यपात्रात् किञ्चित् पुष्पं च निक्षिप्ये- त्युक्तम् । तत् सात्वतोपबृंहणलक्ष्मीतन्त्रविरुद्धम् । यतस्तत्र ‘क्षीरं दधि घृतं गव्यम्’ (३९।९) इति प्रक्रम्य, हेमरत्नसरित्तीर्थकेवलाम्बूनि वै क्रमात् ॥ स्नानीयाम्बुसमेतानि देयान्यम्बून्धमूनि तु । अर्घ्यपात्रात्तथैवार्घ्यं स्नानान्तरान्तरा ॥ दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा । —(३९।१२-१४) इति सपुष्पत्वं क्षालनतोयस्य विशेषणं कृतम् । अर्घ्यपुष्पसमन्वितम् अर्घ्यपात्रे पूजनार्थं प्रक्षिप्तपुष्पैः सहितमित्यर्थः । अत्र क्षीरादिकलाशस्नपनानां मध्ये मध्येऽर्घ्यो- दकेनोपस्नानं केवलमर्घ्यदानं चोक्तम् । सति विभवे वस्त्राद्युपचारा अपि देयाः । तथा चोक्तमीश्वरपारमेश्वरयोः— प्रतिद्रव्यं तु वस्त्रेण हृद्यर्ध्यालम्भनमाल्यकैः ॥ धूपेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् । यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ॥ दद्याद् यथाक्रमं सर्वं केवलं चार्घ्यमेव वा ॥ इति । —(ई०सं० १५।१७५-१७७; पा०सं० १४।१७०-१७२) ननु बृहद्बिम्बस्नपनेऽर्घ्योदकस्योपस्नानाऽपर्याप्तत्वे का गतिरिति चेत्, सत्यम् । तदानीम्— अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ॥ स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत् । —(ई०सं० १५।७५-७६; पा०सं० १४।७६-७७) इतीश्वरपारमेश्वरयोः स्नपनाध्याये गतिरुक्तैव । एषां पञ्चविंशतिकलशानाम- भिषेचनमन्त्रास्त्वीश्वरपारमेश्वरयोर्दमनकोत्सवप्रकरणे— एको ह वै नारायण इति प्राक्कलशेन तु । तस्य ध्यानान्तःस्थस्येति द्वितीयकलशेन तु ॥