भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 143, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 143

८४ सात्वतसंहिता अथ पुनरेव नारायण इति तृतीयकलशेन तु । अथ पुनरेव नारायण इति चतुर्थतः ... ... ॥ सहस्रशीर्षं पुरुषमिति पञ्चमकुम्भतः । पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः ॥ नारायणः परं ब्रह्म इति वै सप्तमेन तु । यच्च किञ्चिज्जगत्यस्मिन्निति ह्यष्टमकुम्भतः ॥ अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् । अधो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥ सन्ततं तु सिराभिस्तु लमित्येकादशेन तु । तस्य मध्ये महानग्निरिति द्वादशमेन वै ॥ सन्तापयति स्वं देहमिति त्रयोदशेन वै । नीलतोयदमध्यस्था इति चतुर्दशेन वै ॥ तस्याः शिखाया मध्ये इति पञ्चदशेन वै । सर्वस्य वशिनं देवमिति वै षोडशेन तु ॥ बहिरावरणस्थैस्तु कलशैरभिषेचयेत् । बहिरावरणे नास्ति इति प्राक्संस्थितेन तु ॥ यन्नाभिपद्माद्भवदिति वह्निगतेन तु । धृतोर्ध्वपुण्ड्र परमेति याम्यदिक्संस्थितेन तु ॥ दक्षिणे तु भुजे विप्र इति यातुगतेन वै । विष्णुनात्तमश्नन्तीति वारुणीसंस्थितेन तु ॥ पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै । इमां महोपनिषदमिति सोमगतेन वै ॥ ओमिति प्रथमं नाम इतीशानगतेन तु । पुरुषोऽहं वासुदेव इति मध्यगतेन तु ॥ यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात् । बहिरावरणस्थैस्तु कलशैरभिषिच्य च ॥ पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया । अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥ अवशिष्टैस्त्रिभिश्चान्ते मध्यकुम्भेन सेचयेत् । —(ई०सं० १२।६५-८०; पा०सं० १७।५६८-५८३) इत्युक्ताः । अत्र पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैः 'सहस्रशीर्षम्' इत्यादिभिः 'दक्षिणे तु भुजे विप्र' इत्यन्तैः षोडशमन्त्रैरित्यर्थः । द्विद्विकसंख्यया द्वाभ्यां मन्त्राभ्यामित्यर्थः । अवशिष्टैस्त्रिभिः विष्णुनात्तमश्नन्तीत्यादिभिः । 'एको ह वै नारायणः' इत्याद्याः 'य इमां महोपनिषदम्' इत्यन्तास्त्रयोविंशतिमन्त्राश्च महोपनिषद्गताः । तत्र 'सहस्रशीर्षं पुरुषम्' इति प्रक्रम्य 'य इमां महोपनिषदम्' इत्यन्तमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्त- मिति ज्ञेयम् ।

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक) · पृष्ठ 143, कुल 837 में से · BharatKosha