सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 144, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः ८५ ननु महोपनिषत्कोशेषु 'सर्वस्य वशिनम्' इत्यादिमन्त्रा न दृश्यन्ते, कथं तेषां महोपनिषदन्तर्गतत्वमिति चेत्? सत्यम्, इयमाशङ्का तप्तमुद्रासमर्थनसिद्धान्तचन्द्रिकायां परिहृता । तथाहि पाद्मे— सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः । विधिना वैष्णवं चक्रं धार्यं हि विधिचोदनात् ॥ दक्षिणे तु भुजे विप्रो बिभृयाद् वै सुदर्शनम् । सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ एवं महोपनिषदि प्रोक्तं चक्रादिधारणमित्यर्थः । अस्य मन्त्रस्य महोपनिषत्कोशे- ष्वदर्शनात् कथं श्रुतित्वमिति चेन्न, चिरन्तनकोशेषूपलम्भात् । आधुनिककोशेष्व- नुपलम्भश्च लेखकदोषादिना नेयः । नायमेव मन्त्र आधुनिककोशेषु न दृश्यते, अपि तु सर्वस्य वशिनमित्यादिकमष्टर्चं ब्रह्मसूक्तमात्रं न दृश्यते । ब्रह्मसूक्ते चायं मन्त्रः श्रूयते । न च तावता श्रुतित्वभङ्गः, भगवच्छास्त्रेषु बहुषु प्रदेशेषु ब्रह्मसूक्तस्योपात्तत्वादिति । नन्वष्टार्चं ब्रह्मसूक्तमात्रं न दृश्यत इत्युक्तत्वात् सर्वस्य वशिनमित्याद्यष्ट- मन्त्राणामेव ब्रह्मसूक्तत्वं ज्ञायते । कथं भवता सहस्रशीर्षमित्याद्येकोनविंशतिमन्त्राणा- मपि ब्रह्मसूक्तत्वमुक्तमिति चेदुच्यते, सच्चरित्ररक्षामनुसृत्यास्माभिरुक्तम् । तत्र हि— 'अत्रापि ब्रह्मसूक्तपरमात्मसूक्ताभ्यां महोपनिषत्पठितमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्त- मेव परिगृहीतम्' (पृ० १४-१५) इति । महोपनिषदाद्ये मन्त्रे 'एको ह वै नारायणः' इति, 'एक एव नारायण' इति पाठद्वयं ज्ञेयम् ॥ ३५-४२ ॥ अब दुग्धादि पच्चीस कलशों के स्नान का प्रकार कहते हैं । तदनन्तर स्नान के लिये पर्याप्त गौ का दूध, दही, घृत तथा मधु देवे ॥ ३५ ॥ फिर ऊख का रस या उसके अभाव में शर्करा का रस देवे । फिर आमलक के फल का जल फिर लोध्र का जल देवे ॥ ३६ ॥ इसके बाद लाल चन्दन का जल, फिर हरिद्राचूर्ण का जल, फिर ग्रन्थि पल्लव का वारि, तगरोदक एवं प्रियङ्गुवारि, फिर जटामांसी का जल, फिर सिद्धार्थक का जल, फिर सर्वौषधि का जल, पत्र का जल, फिर पुष्पोदक, फिर फलोदक, फिर बीजोदक, फिर गन्धोदक; फिर हेमोदक, फिर रत्नोदक, फिर पुण्यतीर्थ सरिता का जल, फिर स्नान के लिये लाये गये विमिश्रित जल, जो अर्घ्य पुष्प से समन्वित हो, उससे स्नान करावे । हे महामते ! स्नान के बीच-बीच में अर्घ्यकलश से क्षालन तथा अर्घ्यदान करते रहना चाहिये ॥ ३७-४२ ॥ नीराजनविधिकथनम् सम्पूर्णमम्भसां कुम्भं हरिद्राशालितण्डुलैः ॥ ४२ ॥ गन्धादिभिश्च संलिप्तमथ युक्तं स्रगादिना । पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम् ॥ ४३ ॥