सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 145, कुल 837 में से
संदर्भ में पढ़ें८६ सात्वतसंहिता धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् । ततः स्नानान्तनीराजनविधिमाह—सम्पूर्णमिति द्वाभ्याम् । सम्पूर्णमित्यत्र स्नानी- यशेषेणेत्यध्याहार्यम् । तथा च लक्ष्मीतन्त्रे—'स्नानशिष्टाम्बुसम्पूर्णम्' (३९।१४) इति । ईश्वरपारमेश्वरयोरपि—'ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम्' (ई०सं० ४।१५९; पा०सं० ६।३२७) इति । मल्ल कम् = शरावः । एकस्मिन् पाणौ वामपाणावित्यर्थः । अपरस्मिन् दक्षिणपाणावित्यर्थः । तस्य सिद्धार्थैर्धूमायमानत्वो- क्त्याऽग्निपरीतत्वं ज्ञायते । धूपपात्राग्निरेव तत्र पूरणीयः । मूर्ध्नि भ्राम्येत्यत्र भगव- न्मूर्ध्नः परितो भ्रामणम् । तच्च सकृदेव । बहिः महाद्वाराद् बहिरित्यर्थः । तथा च पारमेश्वरे— तं कृत्वा वामपाणौ तु अपरस्मिंस्तु मल्लकम् । पुष्पप्रकरसम्पूर्णं धूपपात्राग्निना युतम् ॥ धूमायमानं सिद्धार्थैर्धूपद्रव्येण वा सह । एकधा देवदेवस्य भ्रामयित्वा तु मूर्धनि ॥ दीक्षितेन जनेनैव परिचर्यापरेण तु । शुद्धया योषिता वापि द्वारबाह्ये विसर्जयेत् ॥ इति ॥ —(पा०सं० १५।१००४-१००६) नीराजनाङ्गार्घ्यादीनामर्पणमपीदानीं न प्रकृ(तमित्यु)क्तं तत्रैव— कुर्यात् स्नानावसाने तु ऋग्गाद्यध्ययनादिकम् । अर्घ्यादिभोगैर्व्यजनं वर्जयेत् तत्र सर्वदा ॥ इति । —(पां०सं० १५।१०७९) एवं नीराजनस्य नैमित्तिककाम्यपूजनयोरप्यनुष्ठेयत्वं तत्प्रयोजनम् । इदानीम्, अलङ्कारासनोपचारान्ते वा, उभयत्र वाऽस्यानुष्ठानमप्युक्तं तत्रैव— नित्ये नैमित्तिके विप्र तथा काम्येऽपि पूजने ॥ अन्ततः स्नानभोगानां कुर्यान्नीराजनं विभोः । सर्वदोषप्रशान्त्यर्थं सर्वरक्षार्थमेव हि ॥ अलङ्कारासनोक्तानां भोगानामन्ततोऽपि वा । उभयत्रापि वा कुर्याद् विभवेच्छानुसारतः ॥ इति । —(पा०सं० १५।९९२-९९५) अस्य नीराजनस्यालङ्कारासनोपचारान्तेऽप्यनुष्ठेयत्वं पुनर्व्यक्तमाम्रेडितं तत्रैव— यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुक्तम् । धूमायमानं सिद्धार्थैर्भ्रामयेद् दीपवर्जितम् ॥ इति । (पा०सं० १५।१०४१-१०४२) किञ्च, स्नानान्तनीराजनकुम्भस्यार्घ्योदकैः केवलौदकैर्वा पूरणं ज्ञेयम्, 'अर्घ्य- पात्रोद्धृतैर्यद्वा केवलैर्गलितैः पुनः' (पा०सं०१५।१००८) इत्युक्तेः ॥ ४२-४४ ॥