सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 146, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः ८७ हरिद्रा, शालि, तण्डुल तथा गन्धादि से संलिप्त माला से युक्त कर जल से पूर्ण सम्पूर्ण कुम्भों को क्रमशः एक-एक को हाथ में लेवे । फिर दूसरे हाथ में पुरवा लेकर सिद्धार्थक का धूप देकर, शिर पर घुमा कर, उसे बाहर फेंक देवे ॥ ४२-४४॥ सुधौतमहतं चाथ शाटकं विनिवेद्य च ॥ ४४ ॥ कचोदकापकर्षार्थमपरं देहवारिहृत् । अधरोत्तरवस्त्रे द्वे गन्धधूपाधिवासिते ॥ ४५ ॥ अथाङ्गाभिमर्शनाथं वस्त्रद्वयसमर्पणं पश्चादन्तरीयोत्तरीयसमर्पणं चाह—सुधौत- मिति सार्धेन ॥ ४४-४५ ॥ फिर अत्यन्त श्वेत, शुद्ध, नया, शाटक (=वस्त्र) भगवान् को निवेदन करे । शरीर के जल को तथा शिरस्थ केशों के जल को दूर करने के लिये गन्ध, पुष्पादि वासित अधरोत्तर दो वस्त्र प्रदान करे ॥ ४४-४५ ॥ प्रणालभागादपरं स्थानं भद्रासनात् तु वै । भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च ॥ ४६ ॥ सपीठं भगवद्विम्बं तद्विना वार्चितं यदि । खप्लुतं भावयेद् देवं निःशेषं क्षालयेत् पुनः ॥ ४७ ॥ भद्रासनशोधनमाह—प्रणालभागादिति द्वाभ्याम् । प्रणालभागात् 'मकरास्य- प्रणालं च प्रमाणेनोपलक्षितम्' (सात्वत० २।४९) इति द्वितीयपरिच्छेदोक्तप्रकारेणा- भिषेकादिजलनिर्गमनार्थकप्रणालभागविशिष्टादित्यर्थः । भद्रासनात् = भद्रपीठात् । अपरं स्थानं भद्रपीठं विना सर्वं गर्भगेहस्थलमपीत्यर्थः । भूरिनीरघटैः शुद्धं कृत्वाऽने- कजलपूर्णकुम्भैः संक्षाल्य। तत्र परिशोधितस्थले सपीठं स्नानपीठस्थितं भगवद्विम्ब- मवतार्य संस्थाप्येत्यर्थः । क्षालयेत् भद्रासनमपीत्यनुषज्यते । भद्रासनोपरि भगवम्बि- स्थितेस्तद्दिना प्रथमं सर्वमपि स्थानं प्रक्षाल्यान्यत्र पीठोपरि बिम्बं संस्थाप्य भद्रासनमपि क्षालयेदिति भावः । तद्विना = बिम्बं विना अर्चितं यदि 'भद्रपीठभुवो मध्ये सुश्लक्ष्णे केवले तु वा' (सा० ५।१०९) इति पूर्वोक्तप्रकारेण केवलपीठोपर्यैवार्चितं चेत् तदानीं देवं खप्लुतं भावयेत्, आकाशस्थितं ध्यात्वेत्यर्थः । निःशेषं क्षालयेद् देवस्योपरि स्थितत्वाद् एकदैव गर्भगेहस्थानं भद्रपीठमपि क्षालयेदित्यर्थः । भद्रासनोपर्येव भग- वदुपवेशेन भावनायां तत्क्षालनासंभवादिति भावः । एवमेवोक्तं लक्ष्मीतन्त्रेऽपि— 'भद्रासनं ततः । शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम् ।' (९।१७-१८) इति । एवमर्थवर्णने प्रणालभागादिति विशेषणस्य न किमपि प्रयोजनम्, अतोऽर्थान्तरं वर्ण्यते । तथाहि—भद्रासनात् भद्रसानसम्बन्धिन इत्यर्थः । प्रणालभागात् प्रणाला- व्यवहितभागादित्यर्थः । अपरस्थानम् = अन्यद् भद्रासनस्थानं सर्वमपि संक्षाल्य शोधितस्थले बिम्बमवतार्य प्रणालभागमपि क्षालयेत् । अन्यत् सर्वं पूर्वोक्तमेव । 'स्थानं भद्रासनस्य तु' इति पाठश्चेत्, अयमर्थः स्वरसतमो ज्ञेयः । ईश्वर(४।१६९- १७१)पारमेश्वर(६।३३८-३४०)योरपीदमेव श्लोकद्वयमुक्तम् । अतः पारमेश्वर-