सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 147, कुल 837 में से
संदर्भ में पढ़ें८८ सात्वतसंहिता व्याख्याने— 'तद्दिना बिम्बं विना कूर्चदर्पणादिष्वर्चितं यदि पात्रस्थमात्राणामपि खप्लुतमित्येष एव न्याय्यः' इति लिखितम् । तदसंगतम्, कूर्चदर्पणादीनामप्यन्यत्र स्थापनार्हत्वात् ॥ ४६-४७ ॥ प्रणाल भाग (अभिषेक जल निकलने का स्थान) से अन्य तथा भद्रासन से अन्य दो भागों को छोड़कर सभी गर्भगृहस्थल को घट में पर्याप्त जल पूर्ण कर उससे लीप-पोत कर शुद्ध करे । फिर उस संशोधित स्थल में सपीठ भगवद् बिम्ब को स्थापित करे । यदि भगवद् बिम्ब के बिना केवल पीठ की अर्चना की गई हो तो उस पीठ की अर्चना करे । फिर आकाश से आते हुए भगवद्विम्ब का ध्यान कर पुनः पीठ और भगवद्विम्ब दोनों की अर्चना करे ॥ ४६-४७ ॥ भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् । स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना ॥ ४८ ॥ पुनरर्घ्यादिपरिकल्पनमाह— भूय इति । इह केवलं पुनरर्घ्यादिपरिकल्पनस्यो- क्तत्वान्मन्त्रासनादौ परिकल्पितार्घ्यादिभिरेव स्नानासनेऽप्यर्ध्यादिसमर्पणमिति ज्ञायते । एवमलङ्कारासनादौ कल्पितार्घ्यादीनामेव भोग्यासनादिष्वप्युपयोगो ज्ञेयः, तत्र पुन- रर्घ्यादिकल्पनोपपत्तेः । अत्र स्नानकुम्भं विनाऽन्येषामर्घ्यादीनां कुम्भचतुष्टयं गन्धोदकेन पूर्यमित्युक्त्या मन्त्रासनादावर्घ्यादिकुम्भपञ्चकस्य स्थापनं सिद्धं भवति । ननु तत्र कुम्भचतुष्टयमेवोक्तमिति चेत्, सत्यम् । वयमपि जानीमः । तथापि तत्राष्टादशपरिच्छेदे वक्ष्यमाणं द्वितीयार्घ्यकलशस्थापनमप्यभिप्रेतम्, अन्यथाऽत्र स्नान- कुम्भं विना कुम्भचतुष्टयासिद्धेः । ननु च संहितावक्यार्थानभिज्ञोऽसि! तस्यैवमाशयः—कुम्भचतुष्टयं प्राग्वत् पूर्य- मेव, किन्तु स्नानकुम्भं विनाऽन्येषामर्घ्यादीनां त्रयाणामेव कल्पना ॐ अर्घ्यं कल्प- यामीत्याद्याकारिका कार्येति बोध्येति चेन्न, यतः प्रधानस्नानकुम्भपूरणमनुचितम् । किञ्च, ईश्वरपारमेश्वरयोः कण्ठरवेण कुम्भपञ्चकस्थापनं कथयोरपि 'भूयो गन्धो- दकेनैव पूर्यं कुम्भचतुष्टयम्' (ई० ४।१७१; पा० ६।३४०) इत्येवोक्तम् । तत्र भवदुक्ताभिप्राये प्रकृते पूर्यं कुम्भपञ्चकमिति वक्तव्यम्, तथा नोक्तम् । ननु च किमितीश्वरपारमेश्वराभिप्राये नैयत्यमस्ति, पारमेश्वरे मानसभोगयाग- प्रकरणे—'हृदयाः केसरादिषु' इति वक्तव्यत्वे सिद्धेऽपि 'लक्ष्माद्याः केसरादिषु' (पा० ५।१३०) इति जयाख्यवचनमेव (१२।८१) प्रतिपादितम् । तद्वदिहापि किं न स्यादिति चेत्, सत्यम् । तत्र मानसयागप्रकरणे 'लक्ष्माद्याः केसरादिषु' (पा० ५।१३०) इत्युक्तावपि बाह्ययागेऽपि हृन्मन्त्रादीनामेवार्चनमुक्तम्, न तथान्यत्र वा कुम्भपञ्चकं पूर्यमिति कुत्राप्युक्तम् ॥ ४८ ॥ फिर गन्धोदक से चार कलशों को पुनः पूर्ण करे और स्नान कुम्भ को छोड़कर अन्य कार्यों की पूर्ववत् कल्पना करे ॥ ४८ ॥ मध्येऽवतार्यो भगवान् विनिवेद्यासनं ततः ।