भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

८४ सात्वतसंहिता अथ पुनरेव नारायण इति तृतीयकलशेन तु । अथ पुनरेव नारायण इति चतुर्थतः ... ... ॥ सहस्रशीर्षं पुरुषमिति पञ्चमकुम्भतः । पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः ॥ नारायणः परं ब्रह्म इति वै सप्तमेन तु । यच्च किञ्चिज्जगत्यस्मिन्निति ह्यष्टमकुम्भतः ॥ अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् । अधो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥ सन्ततं तु सिराभिस्तु लमित्येकादशेन तु । तस्य मध्ये महानग्निरिति द्वादशमेन वै ॥ सन्तापयति स्वं देहमिति त्रयोदशेन वै । नीलतोयदमध्यस्था इति चतुर्दशेन वै ॥ तस्याः शिखाया मध्ये इति पञ्चदशेन वै । सर्वस्य वशिनं देवमिति वै षोडशेन तु ॥ बहिरावरणस्थैस्तु कलशैरभिषेचयेत् । बहिरावरणे नास्ति इति प्राक्संस्थितेन तु ॥ यन्नाभिपद्माद्भवदिति वह्निगतेन तु । धृतोर्ध्वपुण्ड्र परमेति याम्यदिक्संस्थितेन तु ॥ दक्षिणे तु भुजे विप्र इति यातुगतेन वै । विष्णुनात्तमश्नन्तीति वारुणीसंस्थितेन तु ॥ पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै । इमां महोपनिषदमिति सोमगतेन वै ॥ ओमिति प्रथमं नाम इतीशानगतेन तु । पुरुषोऽहं वासुदेव इति मध्यगतेन तु ॥ यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात् । बहिरावरणस्थैस्तु कलशैरभिषिच्य च ॥ पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया । अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥ अवशिष्टैस्त्रिभिश्चान्ते मध्यकुम्भेन सेचयेत् । —(ई०सं० १२।६५-८०; पा०सं० १७।५६८-५८३) इत्युक्ताः । अत्र पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैः 'सहस्रशीर्षम्' इत्यादिभिः 'दक्षिणे तु भुजे विप्र' इत्यन्तैः षोडशमन्त्रैरित्यर्थः । द्विद्विकसंख्यया द्वाभ्यां मन्त्राभ्यामित्यर्थः । अवशिष्टैस्त्रिभिः विष्णुनात्तमश्नन्तीत्यादिभिः । 'एको ह वै नारायणः' इत्याद्याः 'य इमां महोपनिषदम्' इत्यन्तास्त्रयोविंशतिमन्त्राश्च महोपनिषद्गताः । तत्र 'सहस्रशीर्षं पुरुषम्' इति प्रक्रम्य 'य इमां महोपनिषदम्' इत्यन्तमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्त- मिति ज्ञेयम् ।

षष्ठः परिच्छेदः ८५ ननु महोपनिषत्कोशेषु 'सर्वस्य वशिनम्' इत्यादिमन्त्रा न दृश्यन्ते, कथं तेषां महोपनिषदन्तर्गतत्वमिति चेत्? सत्यम्, इयमाशङ्का तप्तमुद्रासमर्थनसिद्धान्तचन्द्रिकायां परिहृता । तथाहि पाद्मे— सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः । विधिना वैष्णवं चक्रं धार्यं हि विधिचोदनात् ॥ दक्षिणे तु भुजे विप्रो बिभृयाद् वै सुदर्शनम् । सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ एवं महोपनिषदि प्रोक्तं चक्रादिधारणमित्यर्थः । अस्य मन्त्रस्य महोपनिषत्कोशे- ष्वदर्शनात् कथं श्रुतित्वमिति चेन्न, चिरन्तनकोशेषूपलम्भात् । आधुनिककोशेष्व- नुपलम्भश्च लेखकदोषादिना नेयः । नायमेव मन्त्र आधुनिककोशेषु न दृश्यते, अपि तु सर्वस्य वशिनमित्यादिकमष्टर्चं ब्रह्मसूक्तमात्रं न दृश्यते । ब्रह्मसूक्ते चायं मन्त्रः श्रूयते । न च तावता श्रुतित्वभङ्गः, भगवच्छास्त्रेषु बहुषु प्रदेशेषु ब्रह्मसूक्तस्योपात्तत्वादिति । नन्वष्टार्चं ब्रह्मसूक्तमात्रं न दृश्यत इत्युक्तत्वात् सर्वस्य वशिनमित्याद्यष्ट- मन्त्राणामेव ब्रह्मसूक्तत्वं ज्ञायते । कथं भवता सहस्रशीर्षमित्याद्येकोनविंशतिमन्त्राणा- मपि ब्रह्मसूक्तत्वमुक्तमिति चेदुच्यते, सच्चरित्ररक्षामनुसृत्यास्माभिरुक्तम् । तत्र हि— 'अत्रापि ब्रह्मसूक्तपरमात्मसूक्ताभ्यां महोपनिषत्पठितमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्त- मेव परिगृहीतम्' (पृ० १४-१५) इति । महोपनिषदाद्ये मन्त्रे 'एको ह वै नारायणः' इति, 'एक एव नारायण' इति पाठद्वयं ज्ञेयम् ॥ ३५-४२ ॥ अब दुग्धादि पच्चीस कलशों के स्नान का प्रकार कहते हैं । तदनन्तर स्नान के लिये पर्याप्त गौ का दूध, दही, घृत तथा मधु देवे ॥ ३५ ॥ फिर ऊख का रस या उसके अभाव में शर्करा का रस देवे । फिर आमलक के फल का जल फिर लोध्र का जल देवे ॥ ३६ ॥ इसके बाद लाल चन्दन का जल, फिर हरिद्राचूर्ण का जल, फिर ग्रन्थि पल्लव का वारि, तगरोदक एवं प्रियङ्गुवारि, फिर जटामांसी का जल, फिर सिद्धार्थक का जल, फिर सर्वौषधि का जल, पत्र का जल, फिर पुष्पोदक, फिर फलोदक, फिर बीजोदक, फिर गन्धोदक; फिर हेमोदक, फिर रत्नोदक, फिर पुण्यतीर्थ सरिता का जल, फिर स्नान के लिये लाये गये विमिश्रित जल, जो अर्घ्य पुष्प से समन्वित हो, उससे स्नान करावे । हे महामते ! स्नान के बीच-बीच में अर्घ्यकलश से क्षालन तथा अर्घ्यदान करते रहना चाहिये ॥ ३७-४२ ॥ नीराजनविधिकथनम् सम्पूर्णमम्भसां कुम्भं हरिद्राशालितण्डुलैः ॥ ४२ ॥ गन्धादिभिश्च संलिप्तमथ युक्तं स्रगादिना । पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम् ॥ ४३ ॥

८६ सात्वतसंहिता धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् । ततः स्नानान्तनीराजनविधिमाह—सम्पूर्णमिति द्वाभ्याम् । सम्पूर्णमित्यत्र स्नानी- यशेषेणेत्यध्याहार्यम् । तथा च लक्ष्मीतन्त्रे—'स्नानशिष्टाम्बुसम्पूर्णम्' (३९।१४) इति । ईश्वरपारमेश्वरयोरपि—'ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम्' (ई०सं० ४।१५९; पा०सं० ६।३२७) इति । मल्ल कम् = शरावः । एकस्मिन् पाणौ वामपाणावित्यर्थः । अपरस्मिन् दक्षिणपाणावित्यर्थः । तस्य सिद्धार्थैर्धूमायमानत्वो- क्त्याऽग्निपरीतत्वं ज्ञायते । धूपपात्राग्निरेव तत्र पूरणीयः । मूर्ध्नि भ्राम्येत्यत्र भगव- न्मूर्ध्नः परितो भ्रामणम् । तच्च सकृदेव । बहिः महाद्वाराद् बहिरित्यर्थः । तथा च पारमेश्वरे— तं कृत्वा वामपाणौ तु अपरस्मिंस्तु मल्लकम् । पुष्पप्रकरसम्पूर्णं धूपपात्राग्निना युतम् ॥ धूमायमानं सिद्धार्थैर्धूपद्रव्येण वा सह । एकधा देवदेवस्य भ्रामयित्वा तु मूर्धनि ॥ दीक्षितेन जनेनैव परिचर्यापरेण तु । शुद्धया योषिता वापि द्वारबाह्ये विसर्जयेत् ॥ इति ॥ —(पा०सं० १५।१००४-१००६) नीराजनाङ्गार्घ्यादीनामर्पणमपीदानीं न प्रकृ(तमित्यु)क्तं तत्रैव— कुर्यात् स्नानावसाने तु ऋग्गाद्यध्ययनादिकम् । अर्घ्यादिभोगैर्व्यजनं वर्जयेत् तत्र सर्वदा ॥ इति । —(पां०सं० १५।१०७९) एवं नीराजनस्य नैमित्तिककाम्यपूजनयोरप्यनुष्ठेयत्वं तत्प्रयोजनम् । इदानीम्, अलङ्कारासनोपचारान्ते वा, उभयत्र वाऽस्यानुष्ठानमप्युक्तं तत्रैव— नित्ये नैमित्तिके विप्र तथा काम्येऽपि पूजने ॥ अन्ततः स्नानभोगानां कुर्यान्नीराजनं विभोः । सर्वदोषप्रशान्त्यर्थं सर्वरक्षार्थमेव हि ॥ अलङ्कारासनोक्तानां भोगानामन्ततोऽपि वा । उभयत्रापि वा कुर्याद् विभवेच्छानुसारतः ॥ इति । —(पा०सं० १५।९९२-९९५) अस्य नीराजनस्यालङ्कारासनोपचारान्तेऽप्यनुष्ठेयत्वं पुनर्व्यक्तमाम्रेडितं तत्रैव— यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुक्तम् । धूमायमानं सिद्धार्थैर्भ्रामयेद् दीपवर्जितम् ॥ इति । (पा०सं० १५।१०४१-१०४२) किञ्च, स्नानान्तनीराजनकुम्भस्यार्घ्योदकैः केवलौदकैर्वा पूरणं ज्ञेयम्, 'अर्घ्य- पात्रोद्धृतैर्यद्वा केवलैर्गलितैः पुनः' (पा०सं०१५।१००८) इत्युक्तेः ॥ ४२-४४ ॥

षष्ठः परिच्छेदः ८७ हरिद्रा, शालि, तण्डुल तथा गन्धादि से संलिप्त माला से युक्त कर जल से पूर्ण सम्पूर्ण कुम्भों को क्रमशः एक-एक को हाथ में लेवे । फिर दूसरे हाथ में पुरवा लेकर सिद्धार्थक का धूप देकर, शिर पर घुमा कर, उसे बाहर फेंक देवे ॥ ४२-४४॥ सुधौतमहतं चाथ शाटकं विनिवेद्य च ॥ ४४ ॥ कचोदकापकर्षार्थमपरं देहवारिहृत् । अधरोत्तरवस्त्रे द्वे गन्धधूपाधिवासिते ॥ ४५ ॥ अथाङ्गाभिमर्शनाथं वस्त्रद्वयसमर्पणं पश्चादन्तरीयोत्तरीयसमर्पणं चाह—सुधौत- मिति सार्धेन ॥ ४४-४५ ॥ फिर अत्यन्त श्वेत, शुद्ध, नया, शाटक (=वस्त्र) भगवान् को निवेदन करे । शरीर के जल को तथा शिरस्थ केशों के जल को दूर करने के लिये गन्ध, पुष्पादि वासित अधरोत्तर दो वस्त्र प्रदान करे ॥ ४४-४५ ॥ प्रणालभागादपरं स्थानं भद्रासनात् तु वै । भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च ॥ ४६ ॥ सपीठं भगवद्विम्बं तद्विना वार्चितं यदि । खप्लुतं भावयेद् देवं निःशेषं क्षालयेत् पुनः ॥ ४७ ॥ भद्रासनशोधनमाह—प्रणालभागादिति द्वाभ्याम् । प्रणालभागात् 'मकरास्य- प्रणालं च प्रमाणेनोपलक्षितम्' (सात्वत० २।४९) इति द्वितीयपरिच्छेदोक्तप्रकारेणा- भिषेकादिजलनिर्गमनार्थकप्रणालभागविशिष्टादित्यर्थः । भद्रासनात् = भद्रपीठात् । अपरं स्थानं भद्रपीठं विना सर्वं गर्भगेहस्थलमपीत्यर्थः । भूरिनीरघटैः शुद्धं कृत्वाऽने- कजलपूर्णकुम्भैः संक्षाल्य। तत्र परिशोधितस्थले सपीठं स्नानपीठस्थितं भगवद्विम्ब- मवतार्य संस्थाप्येत्यर्थः । क्षालयेत् भद्रासनमपीत्यनुषज्यते । भद्रासनोपरि भगवम्बि- स्थितेस्तद्दिना प्रथमं सर्वमपि स्थानं प्रक्षाल्यान्यत्र पीठोपरि बिम्बं संस्थाप्य भद्रासनमपि क्षालयेदिति भावः । तद्विना = बिम्बं विना अर्चितं यदि 'भद्रपीठभुवो मध्ये सुश्लक्ष्णे केवले तु वा' (सा० ५।१०९) इति पूर्वोक्तप्रकारेण केवलपीठोपर्यैवार्चितं चेत् तदानीं देवं खप्लुतं भावयेत्, आकाशस्थितं ध्यात्वेत्यर्थः । निःशेषं क्षालयेद् देवस्योपरि स्थितत्वाद् एकदैव गर्भगेहस्थानं भद्रपीठमपि क्षालयेदित्यर्थः । भद्रासनोपर्येव भग- वदुपवेशेन भावनायां तत्क्षालनासंभवादिति भावः । एवमेवोक्तं लक्ष्मीतन्त्रेऽपि— 'भद्रासनं ततः । शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम् ।' (९।१७-१८) इति । एवमर्थवर्णने प्रणालभागादिति विशेषणस्य न किमपि प्रयोजनम्, अतोऽर्थान्तरं वर्ण्यते । तथाहि—भद्रासनात् भद्रसानसम्बन्धिन इत्यर्थः । प्रणालभागात् प्रणाला- व्यवहितभागादित्यर्थः । अपरस्थानम् = अन्यद् भद्रासनस्थानं सर्वमपि संक्षाल्य शोधितस्थले बिम्बमवतार्य प्रणालभागमपि क्षालयेत् । अन्यत् सर्वं पूर्वोक्तमेव । 'स्थानं भद्रासनस्य तु' इति पाठश्चेत्, अयमर्थः स्वरसतमो ज्ञेयः । ईश्वर(४।१६९- १७१)पारमेश्वर(६।३३८-३४०)योरपीदमेव श्लोकद्वयमुक्तम् । अतः पारमेश्वर-

८८ सात्वतसंहिता व्याख्याने— 'तद्दिना बिम्बं विना कूर्चदर्पणादिष्वर्चितं यदि पात्रस्थमात्राणामपि खप्लुतमित्येष एव न्याय्यः' इति लिखितम् । तदसंगतम्, कूर्चदर्पणादीनामप्यन्यत्र स्थापनार्हत्वात् ॥ ४६-४७ ॥ प्रणाल भाग (अभिषेक जल निकलने का स्थान) से अन्य तथा भद्रासन से अन्य दो भागों को छोड़कर सभी गर्भगृहस्थल को घट में पर्याप्त जल पूर्ण कर उससे लीप-पोत कर शुद्ध करे । फिर उस संशोधित स्थल में सपीठ भगवद् बिम्ब को स्थापित करे । यदि भगवद् बिम्ब के बिना केवल पीठ की अर्चना की गई हो तो उस पीठ की अर्चना करे । फिर आकाश से आते हुए भगवद्विम्ब का ध्यान कर पुनः पीठ और भगवद्विम्ब दोनों की अर्चना करे ॥ ४६-४७ ॥ भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् । स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना ॥ ४८ ॥ पुनरर्घ्यादिपरिकल्पनमाह— भूय इति । इह केवलं पुनरर्घ्यादिपरिकल्पनस्यो- क्तत्वान्मन्त्रासनादौ परिकल्पितार्घ्यादिभिरेव स्नानासनेऽप्यर्ध्यादिसमर्पणमिति ज्ञायते । एवमलङ्कारासनादौ कल्पितार्घ्यादीनामेव भोग्यासनादिष्वप्युपयोगो ज्ञेयः, तत्र पुन- रर्घ्यादिकल्पनोपपत्तेः । अत्र स्नानकुम्भं विनाऽन्येषामर्घ्यादीनां कुम्भचतुष्टयं गन्धोदकेन पूर्यमित्युक्त्या मन्त्रासनादावर्घ्यादिकुम्भपञ्चकस्य स्थापनं सिद्धं भवति । ननु तत्र कुम्भचतुष्टयमेवोक्तमिति चेत्, सत्यम् । वयमपि जानीमः । तथापि तत्राष्टादशपरिच्छेदे वक्ष्यमाणं द्वितीयार्घ्यकलशस्थापनमप्यभिप्रेतम्, अन्यथाऽत्र स्नान- कुम्भं विना कुम्भचतुष्टयासिद्धेः । ननु च संहितावक्यार्थानभिज्ञोऽसि! तस्यैवमाशयः—कुम्भचतुष्टयं प्राग्वत् पूर्य- मेव, किन्तु स्नानकुम्भं विनाऽन्येषामर्घ्यादीनां त्रयाणामेव कल्पना ॐ अर्घ्यं कल्प- यामीत्याद्याकारिका कार्येति बोध्येति चेन्न, यतः प्रधानस्नानकुम्भपूरणमनुचितम् । किञ्च, ईश्वरपारमेश्वरयोः कण्ठरवेण कुम्भपञ्चकस्थापनं कथयोरपि 'भूयो गन्धो- दकेनैव पूर्यं कुम्भचतुष्टयम्' (ई० ४।१७१; पा० ६।३४०) इत्येवोक्तम् । तत्र भवदुक्ताभिप्राये प्रकृते पूर्यं कुम्भपञ्चकमिति वक्तव्यम्, तथा नोक्तम् । ननु च किमितीश्वरपारमेश्वराभिप्राये नैयत्यमस्ति, पारमेश्वरे मानसभोगयाग- प्रकरणे—'हृदयाः केसरादिषु' इति वक्तव्यत्वे सिद्धेऽपि 'लक्ष्माद्याः केसरादिषु' (पा० ५।१३०) इति जयाख्यवचनमेव (१२।८१) प्रतिपादितम् । तद्वदिहापि किं न स्यादिति चेत्, सत्यम् । तत्र मानसयागप्रकरणे 'लक्ष्माद्याः केसरादिषु' (पा० ५।१३०) इत्युक्तावपि बाह्ययागेऽपि हृन्मन्त्रादीनामेवार्चनमुक्तम्, न तथान्यत्र वा कुम्भपञ्चकं पूर्यमिति कुत्राप्युक्तम् ॥ ४८ ॥ फिर गन्धोदक से चार कलशों को पुनः पूर्ण करे और स्नान कुम्भ को छोड़कर अन्य कार्यों की पूर्ववत् कल्पना करे ॥ ४८ ॥ मध्येऽवतार्यो भगवान् विनिवेद्यासनं ततः ।

षष्ठः परिच्छेदः ८९ तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम् ॥ ४९ ॥ विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः । अथालङ्कारासनसमर्पणमाह—मध्येऽवतार्य इति सार्धेन । तत्रस्थं परमेश्वरं स्रक्चन्दनादिभिर्भोगैरलङ्कृतं विभाव्य कृतकृत्यो भवेदिति शेषः । यद्वा अलङ्कृत- मित्यत्रालङ्करिष्यमाणमिति भविष्यदर्थकत्वं बोध्यम् ॥ ४९-५० ॥ अब अलङ्कार आसान का समर्पण कहते हैं—मध्य में भगवान् को उतार कर आसन निवेदन करे । तत्रस्थ तृतीय परमेश्वर को रत्नखचित अलङ्कारों से अलङ्कृत ध्यान करे । फिर भक्तिपूर्वक अर्घ्य, पाद्य निवेदन कर स्रक्, चन्दनादि भोगों से उनकी अर्चना करे ॥ ४९-५० ॥ अलङ्कारासने समर्पणीयानुपचारकथनम् समभ्यर्च्यर्घ्यपाद्येन पादुकाभ्यामनन्तरम् ॥ ५० ॥ देयमाचमनं भूयः पादपीठं तथैव च । समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ॥ ५१ ॥ संवीज्य व्यजनेनैव मायूरेण ततेन च । केशप्रसारकृत् कूर्चं पुष्पताम्बूलकर्तरीम् ॥ ५२ ॥ निवेद्य देवदेवाय दुकूलवसने सिते । उपवीतं सोत्तरीयं मकुटाद्यमनन्तरम् ॥ ५३ ॥ पादनूपुरपर्यन्तमलङ्करणमुत्तमम् । विचित्रं हि शिरोमाल्यं मुक्तपुष्पसमन्वितम् ॥ ५४ ॥ स्रग्दामसूत्रसम्बद्धमा कर्णाच्चरणावधि । रुचिरं कङ्कणं चाथ दद्यात् प्रतिसरं ततः ॥ ५५ ॥ धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् । पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा ॥ ५६ ॥ अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् । ललाटतिलकं हैमं मुखवासनरोचनम् ॥ ५७ ॥ कर्णावतंसकुसुमे मण्डलं दर्पणं महत् । प्राकारं चित्रकुसुमैर्दीप्तं रत्नप्रभोज्ज्वलम् ॥ ५८ ॥ मृष्टधूपसमायुक्तं गुग्गुलं धूपयेच्छुभम् । सह घण्टारवै रम्यैश्चाल्यमानेन बाहुना ॥ ५९ ॥ उपानहौ सितं छत्रं शिबिकां च रथादि यत् । वाहनं गजपर्यन्तं सपताकं खगध्वजम् ॥ ६० ॥ सा० सं० - 10

९० सात्वतसंहिता सितासितौ चामरौ तु मात्रावित्तमनन्तरम्। औपचारिकभोगानामेतेषां पूरणाय च ॥ ६१ ॥ भेरीमृदङ्गशङ्खाद्यैर्जयशब्दसमन्वितैः । गीतकैर्विविधैर्नृत्यैस्तन्त्रीवाद्यसमन्वितैः ॥ ६२ ॥ स्तोत्रमन्त्रैर्नमस्कारैः प्रणामैः सप्रदक्षिणैः । अलङ्कारासने समर्पणीयान्युपचारानाह— ‘समभ्यर्च्यार्घ्यपाद्येन’ इत्यारभ्य ‘प्रणामैः स-प्रदक्षिणैः पूज्यः’ इत्यन्तम्। चन्दनादिनेत्यादिशब्देन कुङ्कुमादिकं गृह्यते। तथा च पारमेश्वरे—‘घृष्टकुङ्कुमकस्तूरीमृगस्नेहावलेपनम्’ (६।३४७) इति । बीजनं च आर्द्रगन्धशোষণार्थं ज्ञेयम्। तथा च लक्ष्मीतन्त्रे—‘चन्दनाद्याः सुगन्धाश्च वीजनं शोषणार्थकम्’ (ल० ३९।२०) इति। केशप्रसादकृत कूर्चं कङ्कतमित्यर्थः। तथा च लक्ष्मीतन्त्रे—‘विवेचनं च केशानां कङ्कतेन प्रशोधनम्’ (ल० ३९।१९) इति। पुष्पताम्बूलकर्तरीम्। मुक्तपुष्पसमन्वितम्, मुक्तैः अग्रथितैः पुष्पैः सहितमित्यर्थः। पुष्पाञ्जलिसमर्पणसहितमिति यावत्। तथा च पारमेश्वरे—‘मुक्तपुष्पं ततो दद्याद् यथाकालसमुद्भवम्’ (६।३४८) इति। लक्ष्मीतन्त्रेऽपि— मकुटाद्या अलङ्काराः प्रदेयाः परमात्मनः। स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः॥ पुष्पाञ्जलिः पदद्वन्दे प्राकारसुमनश्चयैः। —(३९।२१-२२) इति। प्रतिसरं = पवित्रमित्यर्थः। धातुभिः गैरिकादिभिः, कुङ्कुमादिभिः कुङ्कुमह- रिद्रागोरोचनादिभिरित्यर्थः। तथा चेश्वरपारमेश्वरयोः— निशारोचनया वापि पवित्राणां च धातुना॥ केनचिद् ग्रन्थयो विप्रा विधिवत् परिरञ्जयेद्। —(ई०सं० १४।२६७-२६८; पा०सं० १२।५००-५०१) मृदु तूलेनेति हेमरत्नाद्युपलक्षकम्। यतो हेमरत्नादिभिरपि गर्भपूरणमुप- बृंहितमीश्वरादिषु। मुखवासं मुखं वास्यतेऽनेनेति मुखवासः। कर्पूरमित्यर्थः। रोचनं गोरोचनसहितम्। प्राकारं चित्रकुसुमैः रत्नप्रभोज्ज्वलं रत्नसदृशनिजप्रभाभासुर- मित्यर्थः। अत्र विशेषणान्तराण्यप्युक्तानीश्वरादिषु ग्राह्याणि— प्रभूतैस्तु महाज्वालैस्तैलतैलाज्यपूरितैः॥ अभुक्ताहतसुश्वेतरचितैर्वर्तिवेष्टितैः । ग्रन्थीकृतत्वगेलाद्यैः पूजयेत् तदनन्तरम् ॥ —(४।१८३-१८४) इति। मृष्टधूपसमायुक्तं = कृतधूपेनागर्वाद्विना वा विमिश्रितमित्यर्थः। कर्पूरमेलनम- प्युक्तमीश्वरादिषु—‘कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु (४।१८५) इति। अत्राज्य- मिश्रणमपि कार्यम्, ‘धूपार्थं गुग्गुलुः साज्यो देयश्चाभवतोऽपरः’ (२१।३५) इति

षष्ठः परिच्छेदः ९१

समयपरिच्छेदे वक्ष्यमाणत्वात् । चाल्यमानेन बाहुना = परिकल्पितैरिति शेषः । अत्र दीपधूपयोभयत्रापि घण्टानादसहितत्वं बोध्यम् । यतः—'आवाहनेऽर्घ्ये धूपे च दीपे नैवेद्यजोषणे' (३।८३) इतीश्वरादिषूक्तम् । वाहनं = सुवर्णादिमयममित्यर्थः । तथा च लक्ष्मीतन्त्रे—'प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्' (ल० ३९।२४) इति । मात्रावित्तं = मीयते परिच्छिद्यते पूर्यत इति मात्रा, मात्रार्थं वित्तं द्रविणम् । औपचारिकभोगानां = दृष्ट्यानन्दजनकानां दीपादीनाम्, श्रोत्रानन्दजनकानां स्तुतिवादित्रगीतानां चेत्यर्थः । एत एव भोगा लक्ष्मीतन्त्रे सांदृष्टिकत्वेनाभिमानिकत्वेन च प्रतिपादिताः । तथाहि— दृष्ट्यैव जन्यते प्रीतिर्यैस्ते सांदृष्टिका मताः ॥ शुभा रूपोल्बणास्ते च दीपप्रवहणादयः । भोगाः शुभकरास्तद्वत् तर्पयन्ति रसैर्हि ये ॥ प्रापणाचमनीयाद्यास्ते स्युराभ्यवहारिकाः । सुखरम्यमृदुस्पर्शा भोगैर्यैं तर्पयन्त्यजम् ॥ भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः । गन्धाः सांस्पर्शिके केचित् केचिदाभ्यवहारिके ॥ निविष्टा अनिलाद्याः स्युरन्याः पाकजगन्धिनः । स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये ॥ दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः । इत्थं चतुर्विधैर्भोगैः शास्त्रदृष्टेन वर्त्मना ॥ —(३६।८७-९२) इति । अत्र तु पवित्रोत्सवप्रकरणे औपचारिकसांस्पर्शिकाभ्यवहारिकत्वेन भोगत्रै- विध्यस्यैव वक्ष्यमाणत्वाद् औपचारिकशब्देनैव लक्ष्मीतन्त्रोक्ताः सांदृष्टिका आभिमानि- काश्च भोगाः संगृह्यन्ते । किञ्चात्र औपचारिकभोगानामिति सांस्पर्शिकानामित्युप- लक्षणम् । यतोऽत्र—'सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम्' (१४।६) इति मात्रावित्तस्य सांस्पर्शिकभोगपूरकत्वमपि वक्ष्यति । अत एव पारमेश्वरे—'सम्पूर्णार्थं भोगानां सर्वेषां द्विजसत्तम' (पा० ६।३५९) इति मात्रावित्तस्य सर्वभोगपूरकत्वमुप- बृंहितम् । अपि च, औपचारिकभोगानां छिद्रपूरकं मात्रान्तरमपि वक्ष्यति पवित्र- प्रकरणे—'औपचारिकभोगानां बीजानि विहितानि वै' (१४।७) इति । एतद्बीजमात्रादानस्य कालस्तु ईश्वरपारमेश्वरयोर्भोज्यासने मधुपर्काङ्गोमात्रानि- वेदनानन्तरमुक्तः। बीजानि च ग्राम्याणि ग्राह्याणि, 'मधुपर्कं च गोमात्रा साध्यबीजानि पश्चिमे' (१८।३६५) इति तत्रैव महाहविःप्रकरणे उक्तत्वात् । साध्यबीजानि कर्ष- णादिकृतिसाध्यबीजानि, ग्राम्यबीजानीति यावत् । आरण्यकबीजानां कृतिसाध्यत्वा- भावादिति भावः । बीजानामलाभे गतिरप्युक्ता पारमेश्वरे— बीजानामप्यलाभे तु फलमेकं प्रशस्यते । बीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ॥—(१८।२७) इति । तत्रप्रमाणादिकमपि तत्रैव विस्तरेणोक्तं द्रष्टव्यम् । तण्डुलमात्रापि द्रव्य- मात्रानिवेदनसमय एव दातव्या, अन्यत्रानुक्तत्वात् । गोमात्रातिलमात्रयोः कालभेदमत्रैव

९२ सात्वतसंहिता वक्ष्यति । लक्ष्मीतन्त्रे तु—'मात्राश्च रत्नसम्पूर्णा भोगच्छिद्रप्रपूरणाः' (३९।२५) इति बहुवचनोक्त्या द्रव्यमात्रा-तण्डुलमात्रा-बीजमात्रा-तिलमात्राणां चतसृणामपि युग- पद्दानमिति ज्ञायते । शालिमात्रायास्तु स्नपनमात्रनियतत्वं प्रतिपादितं पारमेश्वरे— शालिमात्रा न कर्तव्या यागे स्नपनवर्जिते ॥ अन्या मात्राः प्रकल्प्याः स्युः सर्वस्मिन्नर्चनाविधौ । —(१८।२९-३०) इति अत एव लक्ष्मीतन्त्रेऽपि स्नानासन एव शालिमात्रा प्रतिपादिता, गोमात्रा तु मधुपर्कानन्तरमुक्ता, पाद्ये तु सर्वा अप्येकदैव प्रतिपादिताः— तिलान् वस्त्रं तथा हेम ताम्बूलं तण्डुलानपि । फलानि गव्यमाघारं गाश्च धान्यं यथा वसु ॥ गोग्रासं देशिकायातैतद् दद्याद् देवस्य सन्निधौ । इति । स्तोत्रमन्त्रैः जितन्ता(लक्ष्मी० २४.६९)द्यैरित्यर्थः । तथा च पारमेश्वरे— स्तोत्रमन्त्रजपं कुर्याज्जितन्ताद्यं महामते । व्यस्तं चैव समस्तं च वाक्ययुक्तं विशेषतः ॥ —(सा० ६।३६१) इति ॥ ५०-६३ ॥ फिर आचमन देवे और उसी प्रकार पादपीठ भी प्रदान करे । पुनः भक्तिपूर्वक चन्दनादि सुगन्ध पदार्थ प्रदान करे ॥ ५१ ॥ फिर आर्द्र गन्ध सुखाने के लिये मयूर के पिच्छ द्वारा विजित कर केश प्रसाधन के लिये कङ्कत (कंघी) प्रदान करे । पुष्प, ताम्बूल तथा कैंची प्रदान करे । तदनन्तर देवाधिदेव को मङ्गलकारी दुकूल वस्त्र प्रदान करे । इसके बाद उत्तरीय सहित उपवीत एवं मुकुटादि समर्पित करे ॥ ५२-५३ ॥ पैरों में विचित्र नूपुर पर्यन्त समस्त अलङ्कारों से अलङ्कृत कर उन्हें केवल (छुट्टा) पुष्प सहित शिरो माल्य समर्पित करे ॥ ५४ ॥ कान से लेकर चरण पर्यन्त सूत्र में पिरोया हुआ पुष्पमाला तथा हार समर्पित करे । फिर अत्यन्त मनोहर कङ्कण तथा प्रतिसर पवित्र, जो गैरिकादि धातुओं, कुङ्कुम, हरिद्रा एवं गोरोचन आदि से विचित्र हो, श्वेत सूत्र में पिरोया गया हो, बीच-बीच में अत्यन्त कोमल तूल से ग्रथित हो, ऐसी पवित्री देवे ॥ ५५-५६ ॥ शलाका सहित अञ्जन देवे, गन्ध युक्त ताम्बूल देवे, सुवर्ण गर्भ समन्वित ललाट तिलक तथा कपूर समन्वित गोरोचन मुख वास के लिये प्रदान करे ।।५७।। वर्ण को अलङ्कृत करने के लिये पुष्प मण्डल तथा महान् दर्पण देवे, विचित्र कुसुमों से देदीप्यमान, रत्नप्रभा से भासित प्राकार प्रदान करे ॥ ५८ ॥ फिर हाथों के द्वारा बजाये जाते हुए घण्टा के शब्द के साथ मधुर, धूप से संयुक्त गुग्गुल के धूप से धूपित करे ॥ ५९ ॥

षष्ठः परिच्छेदः ९३ उपानह, श्वेत छत्र, शिविका, रथादि से लेकर गज पर्यन्त सभी वाहन पताका सहित गरुड़ध्वज समर्पित करे ॥ ६० ॥ सितासित चामर, तदनन्तर समस्त औपचारिक भोगों में दोष पूर्त्ति के लिये मात्रावित्त (औपचारिक बीज) समर्पित करे ॥ ६१ ॥ फिर भेरी मृदङ्ग, शङ्खादि तथा जय-जयकार शब्द से युक्त अनेक प्रकार के गाने, नृत्य एवं तन्त्री वाद्य से युक्त (जितन्तादि) स्तोत्र, मन्त्र, नमस्कार, प्रणाम तथा प्रदक्षिणादि द्वारा पादपीठ सहित श्रीभगवान् का पूजन करे । फिर उन्हें भोजनार्थ आसन प्रदान करे ॥ ६२-६३ ॥ पूज्यः सपादपीठं वै दद्याद् भोज्यासनं विभोः ॥ ६३ ॥ छत्रं दुकूलतूलोत्थमसूरकवरेण तु । अथार्हणजलं स्वच्छं सुगन्ध्यं पात्रतः कृतम् ॥ ६४ ॥ मधुपर्कं दधिमधुघृतयुक्तमनन्तरम् । शीतलं तर्पणजलमथ चूर्णं पुरोदितम् ॥ ६५ ॥ देयं निष्पुंसनार्थं तु पुनराचमनं विभोः । स्वलङ्कृतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ॥ ६६ ॥ प्रभूतमथ नैवेद्यं भक्ष्यभोज्यान्यनेकशः । मधुराद्या रसाः सर्वे शाकाः सफलमूलकाः ॥ ६७ ॥ पानकानि पवित्राणि स्वादूनि मधुपर्कवत् । सर्वमाचमनार्थं तु प्रदद्यादर्हणोदकम् ॥ ६८ ॥ तिलान्यथ सुरत्नानि ताम्बूलं पुनरेव हि । अथ भोज्यासनोपचारानाह—सपादपीठमित्यादिभिः । दुकूलतूलोत्थमसूरकव- रेण क्षौमाद्याच्छादितदुकूलोत्थितमृद्वास्तरणेनेत्यर्थः । अर्हणजलं मधुपर्काङ्गमापोशन- रूपं प्रधानार्घ्योदकं पात्रतः कृतं पृथक्पात्रे प्रणीतमित्यर्थः । तथा च वक्ष्यति दीक्षा- धिवासपरिच्छेदे प्रधानाविनियोगविवरणप्रकरणे—'तदम्भसाचार्हणं तु तथैव परिषे- चनम्' (१८।७२) इति । दधिमधुघृतयुक्तमित्यत्र क्षीरमपि योज्यम्, 'नाconstruct/नाविकं मधु- पर्कार्थे दधिक्षीरादिकं शुभम्' (२१।३७) इति समयपरिच्छेदे वक्ष्यमाणत्वात्, 'पयसो मधुनो दध्नः संयोगो मधुपर्ककः' (३९।२७) इति लक्ष्मीतन्त्रोक्तेश्च । तर्पणजलं मधुपर्कनिवेदनानन्तरं तृप्त्यर्थं पानीयम् । तदपि प्रधानार्घ्योदकमेव, 'कुर्यात् प्रणय- नादानम्' (१८।७२) इति प्रधानार्घ्यविनियोगस्य वक्ष्यमाणत्वात् । प्रणयनं = पात्रान्तरे सेचनम्, तत्पूर्वकमादानं = ग्रहणमित्यर्थः । तथा च व्यक्तमुपबृंहितमीश्वरपारमेश्व- रयोः—'तर्पणं सम्प्रतिष्ठाप्य वासितं चार्यवारिणा' (ई०सं० ५।३; पा०सं० ६।३७६) इति । पुरोदितं चूर्णं स्नानासनोक्तमुद्वर्तनचूर्णमित्यर्थः । निष्पुंसनार्थं = हस्तोद्वर्तनार्थम् । गां विनिवेद्य । इदं गोविनिवेदनं मधुपर्कच्छिद्रसम्पूर्णार्थमिति ज्ञेयम् ।

९४ सात्वतसंहिता तथा च लक्ष्मीतन्त्रे— 'देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी' (३९।३०) इति । एतद्गोमात्रानन्तरं बीजमात्रा विनिवेदनीया । 'ओषधीः शालिपूर्वाश्च स्रक्फलाढ्यं वनस्पतिम् । मूर्तं निवेदयेत् पूर्वम्' (ई०सं० ५।७; पा०सं० ६।३७९-३८०) इतीश्वरादिषु प्रतिपादनात् प्रभूतं प्रचुरमित्यर्थः । नैवेद्यं = पायसान्नादि-हविरष्टकम् । भक्ष्याणि अपूपानि, भोज्यानि फलानि । तथा च पारमेश्वरे—'भक्ष्याण्यपूपपूर्वाणि भोज्यानि तु फलानि च । लेह्यानि मधुपूवार्णि चोध्याण्याम्रादिकान्यपि । पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च ।' (१८।३८६-३८७) इति । मधुराद्या रसा सर्वे इत्यनेन षण्णामपि रसानां भगवन्निवेदनार्हत्वमुक्तं भवति । यद्यपि— अपक्वव्रीहिविहिततण्डुलेनैव साधितम् । भक्ष्यं दुग्धाज्यसंसिक्तं गुलखण्डफलान्वितम् । अक्षारलवणोपेतं देवानां हविरुच्यते ॥ —(ई० २५।८८-८९; पा० १८।१६४-१६५) इति मधुररसमात्रस्य देवतार्हत्वमुक्तम्, तथापि व्रतयज्ञादिविषयत्वमात्रं बोध्यम्; अन्यत्र सर्वेषामपि रसानां समर्पणीयत्वोक्तेः । तथा चेश्वरपारमेश्वरयोः— अक्षारलवणं सिद्धं गुलक्षीरफलान्वितम् । शान्तये व्रतयज्ञे च संसाध्यं हविरुत्तमम् ॥ इति । —(ई० २५।९०-९१; पा० १८।१६७) शाकफलमूलानां ग्राह्याग्राह्यत्वविवेचनं हविःसाधनविधानं पानकादिप्रकल्पनं तत्तन्निवेदनप्रकारादिकं सर्वमीश्वरादिषु विस्तरेणोक्तं द्रष्टव्यम् । सरलतिलमात्रा सुव- र्णादिपात्रेण निवेदनीया । तथा चेश्वरे— तिलान्यथ सुरत्नानि सुवर्णे वाथ राजते ॥ पात्रे कृत्वाऽथ मात्रार्थं देवाय विनिवेदयेत् । (५।२२-२३) इति । ताम्बूलम्— लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् । जातीपूगफलोपेतं ससुगन्धच्छदं बहु ॥ कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णविमिश्रितम् । मातुलुङ्गफलोपेतं नालिकेलफलान्वितम् ॥ प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतः पतेः । —(ई०सं० ५।२३-२५) इत्युक्तलक्षणं ज्ञेयम् । पूर्वमलङ्कारासने ताम्बूलस्य समर्पितत्वात् पुनरित्युक्तम् ॥ ६३-६९ ॥ रूई से परिपूर्ण गद्दे, जो क्षौम वस्त्र से आच्छन्न हो, ऐसा आसन प्रदान करे । फिर प्रधान अर्घ्यपात्र, जो स्वच्छ तथा सुगन्ध पूर्ण हो, उसे अलग पात्र में स्थापित कर समर्पण करे । इसके बाद दधि, मधु, घृत युक्त मधुपर्क, फिर शीतल तर्पण जल तथा पूर्व कथित उद्वर्तन चूर्ण प्रदान करे ॥ ६३-६५ ॥

षष्ठः परिच्छेदः ९५ तथा हस्तोद्वर्त्तनार्थ सुगन्धित द्रव्यं तदनन्तर भगवान् को आचमन देवे । तदनन्तर अलङ्कृत, सुरूपा एवं माल्यादि से शोभित गौ प्रदान करे ॥ ६६ ॥ तत्पश्चात् अनेक प्रकार के भक्ष्य भोज्य (अपूप फल पायसादि) सहित पर्याप्त नैवेद्य, मधुर आदि षड् रस सभी प्रकार के शाक, सभी प्रकार के फल सहित मूल पवित्र पानक (दुग्धादि) जो मधुपर्क के समान स्वादिष्ट हों, उसे निवेदन करे । फिर आचमन के लिये सब प्रकार का अर्हणोदक देवे । फिर रत्ननिर्मित पात्र में तिल, पुनः ताम्बूल निवेदन करे ॥ ६७-६८ ॥ गन्धदिग्धौ करौ कृत्वा मुद्राबन्धमथाचरेत् ॥ ६९ ॥ मध्यमानामिकाभ्यां तु द्वन्द्वयुक्तं करद्वयात् । पराङ्मुखं च सुस्पष्टं कृत्वा योज्यं परस्परम् ॥ ७० ॥ आमूलान्नखपर्यन्तं नैरन्तर्येण यत्नतः । समुत्ताने करतले शेषाश्चाङ्गुलस्तथा ॥ ७१ ॥ अधरोत्तरयोगेन वामदक्षिणतस्तथा । तर्जन्यामूर्ध्वतोऽङ्गुष्ठे सम्मुखे सम्प्रसार्य च ॥ ७२ ॥ निविष्टा हृदयोद्देशे कार्याऽथ जपमाचरेत् । मुद्राबन्धलक्षणमाह—गन्धदिग्धावित्यारभ्य कार्येत्यन्तम् । अत्र हस्तयोर्गन्धले- पनात् पूर्वं द्वितीयार्घ्योदकेन हस्तप्रक्षालनं गन्धलेपनानन्तरं तेनैवार्घ्येण हस्तयोः परस्पर- मर्चनं च कार्यम् । यतः—'मुद्राबन्धे कराभ्युक्षं तदर्चा क्षालनं तथा' (ई० ३।९६; पा० ६।१९७) इतीश्वरपारमेश्वरयोर्द्वितीयार्घ्यविनियोग उक्तः । तथैव मुद्राबन्ध- प्रकरणेऽपि— प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै । पाणियुग्मं यथा वै स्यात् स्वच्छमेत्यन्तानिर्मलम् ॥ नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम् । कृत्वा सद्गन्धदिग्धौ तावर्येणार्च्य परस्परम् ॥ मुद्रा मूलादिमन्त्राणां दर्शयित्वा यथाक्रमम् । —(ई० ५।२६-२८; पा० ६।४००-४०२) इति व्यक्तमुक्तम् । मुद्राबन्धप्रकारस्तु—मध्यमानामिकायुगलं पराङ्मुखं सुस्पष्टम् आमूलान्नखपर्यन्तं निरन्तरं यथा तथा परस्परं संयोज्य समुत्तानयोः करतलयोस्तर्जनीद्वितयं कनिष्ठाद्वितयं चोत्तरोत्तरयोगेन वामदक्षिणतः कृत्वा तर्जनीयामूर्ध्वतः संमुखेऽङ्गुष्ठे सम्प्रसार्य इमां मुद्रां हृदये निविष्टां कुर्यात् । इयं व्यूहानां मूलमुद्रेति ज्ञेयम् ॥ ६९-७३ ॥ इसके बाद दोनों हाथों को इत्रादि सुगन्ध पदार्थों से अनुलिप्त करे । तदनन्तर मुद्रा बन्ध करे । मुद्राबन्धन का प्रकार कहते हैं—दोनों हाथ की मध्यमा

९६ सात्वतसंहिता और अनामिका अङ्गुलियों को पराङ्मुख करे । फिर मूल से लेकर नख पर्यन्त परस्पर संयुक्त कर उत्तान हाथकर दोनों तर्जनियों को और दोनों कनिष्ठाओं को उत्तरोत्तर योग से बायें तथा दक्षिण की ओर कर तर्जनी के ऊपर सामने दोनों अंगूठों को फैला देवे । फिर इस मुद्रा को हृदय पर स्थापित करे । तब यही व्यूहों की मूल मुद्रा कही जाती है ॥ ६९-७३ ॥ स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ ७३ ॥ यथाभिमतसंख्यं च जपान्ते स्रग्वरैः सह । सम्पूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥ ७४ ॥ यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च । तेषां मात्रावसानं चाप्यग्नौ सन्तर्पयेत् ततः ॥ ७५ ॥ जपमाह—अथेति । स्फाटिकेनाक्षसूत्रेणेत्यत्राक्षमालाप्रतिष्ठादिकं जयाख्यानु- सारेण ईश्वरादिषु प्रतिपादितं द्रष्टव्यम् । स्वकैर्वा करपर्वभिरित्यत्र पाञ्चरात्ररक्षायां (पृ० १०८) विशेष उक्तः— कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण तु । अनामिकान्तं देवेशं जपेत् कोटिसहस्रकम् ॥ (अर्च०, पृ०१९) इति। जपस्य वाचिकादिभेदेन फलभेद उक्तो लक्ष्मीतन्त्रे— वाचिकं क्षुद्रकर्मार्थमुपांशुः सिद्धिकर्मणि । मानसो मोक्षलक्ष्मीदो ध्यानात्मासर्वसिद्धिकृत् ॥ (३९।३५) इति । जपान्ते पुनर्भगवदुपचारानाह—स्रग्वरैरिति । कारिप्रदानविधिमाह—तत इति । भगवन्मयान् = भागवतानित्यर्थः पाञ्चरात्रिकानिति यावत् । अत्र बहुवचनेन चत्वारो विवक्षिताः । तथा वक्ष्यति चतुर्दशे परिच्छेदे— 'एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान्' (१४।३०) इति । समभ्यर्च्येत्यत्रार्घ्यगन्धपुष्पधूपैरिति बोध्यम् । तथा चोक्तं पारमेश्वरे—'अर्घ्या- लभनपुष्पैश्च धूपैरभ्यर्च्य वै ततः' इति । नैवेद्यं प्रतिपाद्य चतुर्धा विभक्तेष्वेकं भागं दत्वेत्यर्थः । तथा च पारमेश्वरे— प्राङ्निवेदनकाले तु चतुर्धा संविभज्य तम् । प्रापणं मधुपर्काद्यमन्यच्चाभ्यवहारिकम् ॥ तेभ्यो दद्यादेकभागमर्घ्योदकपुरस्सरम् । इति । मात्रावसानं = मात्रादानान्तमित्यर्थः । तथा च तत्रैव—'मात्रां चतुर्विधां चापि आचार्याय प्रदापयेत्' । चतुर्विधां शालितण्डुलबीजतिलभेदभिन्नामित्यर्थः । आदौ भगवन्निवेदितानामेव मात्राद्रव्याणाम्, इदानीं भागवतेभ्यः प्रदानं पार्थक्येनेति बोध्यम् । भगवन्निवेदनसमय एव आचार्याय मात्रादाने कृते पुनरिदानीं मास्त्वित्युक्तमीश्वरे— यद्वैभ्यो देवयज्ञान्ते तन्मात्रान्तं प्रदाय तु ।

षष्ठः परिच्छेदः ९७ अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं निवेदयेत् ॥ (५।४५) इति । एवंकारिणां पूजनमपि भगवदर्चनवद् भगवन्मन्त्रैरेव कार्यम् । तथा च लक्ष्मीतन्त्रे— ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् । प्रदद्यात् प्रापणार्थं तु तेभ्यो मन्मन्त्रमुच्चरन् ॥ —(४०।२९-३०) इति एवंकारिप्रदानस्य पञ्चमाङ्गत्त्वमुक्तं जयाख्ये— अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ तदाद्यमङ्गं यागस्य नाम्नाऽभिगमनं महत् । पूजनं चार्च्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥ बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद । मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥ तत्तृतीयं हि यागाङ्गं तुर्यमग्नेन पूजनम् । निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् । वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ प्राणाग्निहवनं नाम्ना अनुयागस्तदष्टमम् ।—(२२।७५-८०) इति ॥ ७३-७५ ॥ अब जप का प्रकार कहते हैं—स्फटिक या अक्षसूत्र अथवा अपने हाथों के पर्व से जैसी सुविधा हो यथाभिमत संख्या में जप करे । फिर जप के पश्चात् माला के साथ भगवद् भक्तों की गन्ध धूप से पूजा करे ॥ ७३-७४ ॥ इस प्रकार विष्णु भक्तों की क्रमानुसार पूजा कर उन्हें नैवेद्य प्रतिपादन करे, उसके बाद मात्रावसान (विशेष बीज) द्वारा होम कर अग्नि को सन्तृप्त करे ॥ ७५ ॥ प्रमाणपरिशुद्धं च विभवानुगुणं शुभम् । चतुरावरणं कुण्डं कृत्वाऽङ्गुष्ठविभूषितम् ॥ ७६ ॥ त्र्यंशेनाधार्धंशतो वापि खाताद् व्यासो विधीयते । चक्रशङ्खाम्बुजाकारं वृत्तं वा चतुरश्रकम् ॥ ७७ ॥ गदाद्यैश्चक्रपर्यन्तैर्लाञ्छनैर्लाञ्छितं तु वा । अथ षष्ठमङ्गं वह्निसन्तर्पणं निरूपयन्नादौ कुण्डलक्षणमाह—प्रमाणपरिशुद्धमिति सार्धद्वाभ्याम् ॥ ७६-७८ ॥ अब षष्ठ अङ्गभूत वह्नि सन्तर्पण का निरूपण करते हुए कुण्ड लक्षण कहते हैं—प्रमाण से परिशुद्ध अपने विभव के अनुगुण चार आवरण वाले कुण्ड को अपने अंगूठे से विभूषित करे ॥ ७६ ॥

९८ सात्वतसंहिता खात के तीन अंश से, अथवा आधे अंश से व्यास निर्माण करे । वह चक्र, शङ्ख से युक्त अम्बुजाकार हो, अथवा गोला हो, अथवा चौकोर हो, जो गदा के आदि से चक्र पर्यन्त चिह्नों से संयुक्त हो ॥ ७७-७८ ॥ अग्निकार्योपयोगीनि तानि यानि महामते ॥ ७८ ॥ स्रुक्स्रुवादीनि भाण्डानि त्वङ्कितव्यानि तैरपि । सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ॥ ७९ ॥ सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः । कुण्डवत् स्रुक्स्रुवादिपात्राणामपि चक्रशङ्खादिभगवल्लाञ्छनं कार्यमित्याह— अग्निकार्येति । कुण्डोल्लेखनादिकमाह—सुधाद्यैरिति । अत्रापेक्षिताः पुष्पताडनाद्यष्ट- विधकुण्डसंस्कारा जयाख्योक्ता ईश्वरपारमेश्वरयोः संगृहीता ग्राह्याः ॥ ७८-८० ॥ तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च ॥ ८० ॥ आरभ्य दक्षिणाशाया लिखेल्लेखामुदग्गताम् । तस्यामुपरि संलिख्य लेखानां त्रितयं स्फुटम् ॥ ८१ ॥ प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम् । कुण्डमध्ये कुशाग्रेण प्राग्भागदक्षिणादि उत्तरान्तमेकामर्गलरेखां लिखेदित्याह— तन्मध्य इति । तदुपरि दक्षिणाद्युत्तरान्तं सान्तरालं प्रागग्रं रेखात्रयं कुर्यादित्याह— तस्यामिति । तद्रेखात्रयस्य सुषुम्नापिङ्गलेडादेवताकत्वमुक्तमीश्वर (५।६७-६८) पारमेश्वर-(७।२९)योर्ग्राह्यम् ॥ ८०-८२ ॥ हे महामते ! जो अग्नि कार्य के लिए सर्वथा उपयोगी हो ऐसे कुण्ड का निर्माण करे । कुण्ड के समान स्रुक् स्रुवादि पात्रों पर भी चक्र, शङ्ख, गदादिकों पर भी भगवान् के अस्त्र-शस्त्रों पर भी भगवद् चिह्न करे । पहले कुण्ड का लेपन करे, फिर चूना आदि वर्णकों से उसे लेप कर शुद्ध करे । उसके मध्य कुशों के अग्रभाग से पूर्व दिशा का ज्ञान कर, कुशा के अग्रभाग से दक्षिण दिशा से आरम्भ कर उत्तर दिशा पर्यन्त रेखाङ्कित करे । फिर उसके ऊपर दक्षिण से उत्तर तथा पूर्वाग्र से पश्चिम, इस प्रकार तीन रेखा स्पष्ट रूप से लिखे । (ध्यान रहे इन तीनों रेखा की सुषुम्ना, इडा, पिङ्गला ये तीन देवतायें हैं) ॥ ७८-८२ ॥ चतुर्धा प्रणवेनाथ प्रोक्षयेदर्घ्यवारिणा ॥ ८२ ॥ तदभ्यर्च्यर्घ्यपुष्पाद्यैर्ध्यायेत् तद् भद्रपीठवत् । प्रणवैस्तु प्रतिष्ठानं प्राग्वदस्य समाचरेत् ॥ ८३ ॥ प्रणवेनार्घ्यवारिणा चतुर्धा प्रोक्षणम्, प्रणवेन पुष्पैborderरभ्यर्चनम्, कुण्डमध्यस्य भद्र- पीठवद् ध्यानं चाह—चतुर्थेति सार्धेन ॥ ८२-८३ ॥ तदनन्तर चार बार प्रणव का उच्चारण कर अर्घ्य के जल से उन रेखाओं

षष्ठः परिच्छेदः ९९ का चार बार प्रोक्षण करे । प्रणव द्वारा पुष्प से अर्चन करे । फिर कुण्ड के मध्य भाग का भद्रपीठ के समान अर्चन करे तथा प्रणव द्वारा पूर्व की भाँति कुण्ड का ध्यान करे ॥ ८२-८३ ॥ चतुरश्रे स्थले कौण्डे दिग्विदिगष्टके बहिः । सम्पूर्णपात्रं कुम्भानामष्टकं विनिवेश्य च ॥ ८४ ॥ कुण्डस्याष्टदिक्षु पूर्णकुम्भाष्टकस्थापनमाह—चतुरश्र इति ॥ ८४ ॥ ऊर्ध्वाधो मेखलानां च चतुर्णां दिक्चतुष्टये । कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ ८५ ॥ विदिक्ष्वप्यययोगेन ह्यूर्ध्वान्तमधरात् तु वै । तद्देवादर्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ ८६ ॥ कुण्डस्य बहिः प्रागादिचतुर्दिक्षु मेखलास्थकुशकूर्चेषु ऊर्ध्वाद्यधरान्तं प्रभव- क्रमेण वासुदेवादीनामर्चनम्, तथैवाग्नेयादिविदिक्ष्वप्ययक्रमेणाधराद्यूर्ध्वान्तमनिरुद्धा- दीनामर्चनं चाह—ऊर्ध्वाध इति द्वाभ्याम् । एवं द्वात्रिंशत्कुशकूर्चेष्वर्चनं चतुर्मेखल- कुण्डमात्रविषयकम्, अन्यत्रैवमनवकाशात् । अत्र विदिक्ष्वप्ययक्रमेणानिरुद्धादीनामर्चने ॐ पुरुषाय नमः, ॐ सत्याय नमः, ॐ अच्युताय नमः, ॐ भगवते वासुदेवाय नम इति पूर्वोक्तमन्त्रचतुष्टयं ज्ञेयम्, अप्ययावसरे प्राप्ते स्मरणे चार्चने विभोः । शृणु मन्त्रचतुष्कं तु पुनरन्यत् समासतः ॥—(५।६८-६९) इत्युक्तेः । प्रभवक्रमेणार्चने जाग्रद्व्यूहमन्त्रचतुष्टयं जागत्यैव ॥ ८५-८६ ॥ स्थल पर निर्मित चौकोर कुण्ड के चारों दिशाओं में और बाहर चार विदिशाओं में आठ कलश स्थापित करे । फिर मेखला के ऊपर नीचे और चारों दिशाओं के चारों ओर तथा कुशा के विष्टर पर स्थित वासुदेवादि देवताओं का यजन करे ॥ ८४-८५ ॥ फिर कोनों पर संहार क्रम से ऊपर से नीचे अर्घ्य, पुष्पादि से पुनः क्रम- पूर्वक उनकी पूजा करे ॥ ८६ ॥ मृदुदर्भसमूहं च नीरसं चाश्मकुट्टिमम् । शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ॥ ८७ ॥ कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च । कुण्डे शीघ्रमग्निप्रज्वालसाधनदर्भचूर्णादिप्रक्षेपमाह—मृदुदर्भेति सार्धेन । गन्धा- श्मना = गन्धकेन, 'गन्धाश्मनि तु गन्धकः' (२।९।१०२) इत्यमरः ॥ ८७-८८ ॥ फिर पत्थर से कूट कर साधक शुष्क दर्भ समूह का चूर्ण, शुष्क गोमय का

१०० सात्वतसंहिता चूर्ण, जिसमें गन्धक मिला हुआ हो, उसको एक द्रोण परिमाण में कुण्ड में डाल कर फैला देवे ॥ ८७-८८ ॥ अग्न्यानयनकथनम् ताम्रपात्रेऽथवाऽन्यस्मिन् समादाय हुताशनम् ॥ ८८ ॥ आरण्यं लौकिकं वाथ मणिजं दर्पणोद्भवम् । अग्न्यानयनमाह—ताम्रपात्र इति । आरण्यम् = अर(ण्य?णि)संभवमित्यर्थः । अरणिन्निर्मथनप्रकार उक्तो लक्ष्मीतन्त्रे— ध्यायेत् सर्वात्मिकां शक्तिं तामेवत्वधरारणिम् । उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ॥ मथ्नीयात् तारया सम्यक् तथा चैवानुतारया । —(४०।४१-४२) इति एवमरणिजनितस्याग्नेरिदमेव जातकर्मेति ज्ञेयम् । इतः परं नामाद्यग्निसंस्काराः कार्याः, मणिजाद्यग्निस्तु गर्भाधानादिभिरेव संस्कार्यः । तथा च लक्ष्मीतन्त्रे— लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते । लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ (४०।४६) इति । अग्नेर्निषेकादिसंस्कारविधानं तु श्रीजयाख्यानुसारेश्वरपारमेश्वरयोः प्रतिपादि- तम् । तदर्थं कुण्डमध्ये लक्ष्म्यावाहनादिकमप्युक्तम्, अन्येऽपि बहवो विशेषास्तत्र तत्रापेक्षितास्तयोरेव संगृहीता ग्राह्याः ॥ ८९ ॥ कालवैश्वानराख्यस्य हृदयेशस्य वै प्रभोः ॥ ८९ ॥ मारुतानुगता भासा योज्या बाह्याग्निना सह । स्वहृदयस्थितभगवत्तेजसः पात्रस्थाग्निना संयोजनमाह—कालेति । प्रसिद्धं हि कालवैश्वानराख्यत्वं भगवतः । तथा च पौष्करे विष्वक्सेनार्चनप्रकरणे— कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः । स एव द्विज देवो हि विष्वक्सेनः प्रकीर्तितः ॥ स्थित आहवनीयादिभेदेन मखयाजिनाम् । ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥ —(२०।५४-५५) इति। मारुतानुगता = मारुतो रेचकरूप इत्यर्थः । मन्त्र एव मारुत इत्यर्थः, उभय- थाप्युक्तमीश्वरादिषु—‘मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्’ (५।८६) इति, ‘विरेच्य विन्यसेत् तस्मिन् वह्निपात्रे पुरार्चिते’ (५।८७) इति । भासा = तेजस्संज्ञो भगवतः षष्ठो गुण इत्यर्थः । तथा वक्ष्यति नृसिंहकल्पपरिच्छेदे— व्यस्तो गुणगणात् षष्ठस्तेजो नाम गुणो हि यः ॥ परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् ।

षष्ठः परिच्छेदः १०१ ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ॥ —(१७।१११-११२) इति ॥ ९० ॥ तदनन्तर ताम्रपात्र में अथवा अन्य पात्र में अग्नि स्थापित करे । वह अग्नि अरणि से उत्पन्न हो, अथवा लौकिक हो, अथवा मणिजन्य हो, अथवा (सूर्य किरणों से) दर्पण जन्य हो, उसे अपने हृदय में स्थित काल वैश्वानर नामक अग्नि के साथ तथा फिर मन्त्र रूप वायु से निकली हुई बाह्याग्नि से युक्त करे ॥ ८८-९० ॥ भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ॥ ९० ॥ पूतं समिच्चतुष्कं तु प्रणवैरभिमन्त्रितम् । दत्वा तदूर्ध्वं तदनु कुर्यात् परिसमूहनम् ॥ ९१ ॥ प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु । तिर्यक् चाधोमुखस्तेन नखपृष्ठमदर्शयन् ॥ ९२ ॥ कुण्डेऽग्निस्थापनं तदूर्ध्वं प्रज्वालनार्थं समिच्चतुष्कप्रक्षेपं चाह—भ्रामयित्वेति । अत्र समिच्चतुष्कमिति याज्ञीयैन्धानानामुपलक्षणम् । तथा वक्ष्यति सप्तदशे परिच्छेदे— 'पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम्' (१७।१३३) । परिसमूहनमाह—तद- न्विति । परिसमूहनं नाम कुण्डमध्ये विशकलितानामग्नीनां पुञ्जीकरणम् ॥९०-९२॥ चार-चार बार घुमाकर अन्य कुण्ड में स्थापित करे । फिर पवित्र प्रणव से अभिमन्त्रित चार समिधायें उस पर रख कर परिसमूहन करे । यह परिस्तरण कार्य आर्द्र पाणि तल से एवं प्रदक्षिणक्रम से तिरछे तथा अधोमुख हो कर नख का पिछला भाग जिस प्रकार न दिखाई पड़े, वैसे करे ॥ ९०-९२ ॥ ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैः स्तरम् । दिशि दिश्युत्तराशान्तं याम्याशादौ तु सान्तरम् ॥ ९३ ॥ चतुर्गुणैश्चतुर्धा तु अग्रच्छन्नैः परस्परम् । प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ॥ ९४ ॥ परिस्तरणमाह—तत इति द्वाभ्याम् । अभग्नमूलाग्रैः समैः कुशैर्दिशि दिशि स्तरं परिस्तरणं दद्यादिति सामान्यमुक्तम् । याम्याशादौ तु उत्तराशान्तं दिक्त्रये च क्रमेण चतुर्भिर्श्चतुर्भिः सान्तरम् अन्तरसहितं स्तरं दद्यादिति विशेष उक्तः । अत्र याम्यादित्रये चतुर्धा सान्तरालपरिस्तरणकथनं द्वन्द्वप्रसङ्गेन करिष्यमाणपात्रासादनार्थमिति ज्ञेयम् । दक्षिणादित्रय एव द्वन्द्वक्रमेणासादनस्य वक्ष्यमाणत्वात् प्राग्दिशि तथासादनाभावान्नि- रन्तरालमेव षोडशदर्भैः परिस्तरणमिति च बोध्यम् । अत्र प्राक्प्रान्तैरित्यनेन पूर्वपश्चिमपरिस्तरणानामुत्तराग्रत्वमप्युपलक्ष्यते । दिशि दिशि स्तरं दद्यादिति पूर्वं सामान्यत उक्तत्वात् पुनः पूर्वभागाच्च यावदुत्तरगोचरमिति विशेषः प्रदर्शितः । एत एव श्लोका बहुशः पारमेश्वरादिषु प्रतिपादिताः ।

अत्र पारमेश्वरव्याख्याने—'याम्यादाौ तु वा इति विकल्पः' इत्युक्तम् । तद्बुद्धिविकल्प एव, तथा पाठवर्णनेऽन्तरपदस्यागतिकत्वात् प्राग्भागेऽपि वृथा चतुर्धा परिस्तरणप्रसक्तेः, पूर्वभागाच्च यावदुत्तरगोचरमित्यस्य पौनरुक्त्यापत्तेश्च ॥९३-९४॥ अभग्नमूल एवं अभग्न अणु भाग वाले तथा सम कुशाओं से प्रत्येक दिशा में परिस्तरण करे, दक्षिण दिशा से उत्तर दिशा में बिछाकर कुल तीन दिशाओं में अन्तर से चार-चार कुशाओं का परिस्तरण करे । शेष पूर्व दिशा से उत्तर दिशा तक १६ कुशाओं का परिस्तरण करे ॥ ९३-९४ ॥ होमोपकरणसन्निधापन विधानम् होमोपकरणं सर्वं होमभाण्डपुरस्सरम् । अवतार्य तदूर्ध्वं तु दक्षिणस्यां तथात्मनः ॥ ९५ ॥ द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् । द्विरष्टसंख्यमिध्मं तु संयुक्तं च महामते ॥ ९६ ॥ द्वितीयेनाष्टसंख्येन मुक्तदर्भैस्तरण्डिकाम् । स्रुक्स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य तत् ॥ ९७ ॥ स्रग् धूपं मधुपर्कं च बीजान्येकत्र वै ततः । कौशेयं धूतकेशं तु विष्टरं च घृतं चरुम् ॥ ९८ ॥ आज्यस्थालीचतुष्कं च निधाय तदनन्तरम् । अथ परिस्तरणोपरि होमोपकरणसन्निधापनमाह—होमेति । होमभाण्डपुरस्सरं = स्रुक्स्रुवपुरस्सरमित्यर्थः । ‘स्रुक्स्रुवादीनि भाण्डानि’ (६।७९) इति पूर्वमेवोक्त- त्वात् । प्रथमं दक्षिणपरिस्तरणे आसादनक्रममाह—दक्षिणस्यामित्यादिभिः । मुक्त- दर्भैः कूर्चादिरूपेणाग्रथितैः, केवलकुशैरित्यर्थः । तैरुपलक्षिता तरण्डिका । स्रुक्- स्रुवरजोमार्जनशोधनाद्युपयुक्तः कूर्चः । कौशेयं धूतकेशम् । कुण्डशोधनोपयुक्तः कुशः कूर्चः । विष्टरं = प्रागादिकलाशार्चनप्रणीतासंस्काराद्युपयुक्तकूर्चम् ॥ ९५-९९ ॥ अब होमोपकरण सन्निधापन की विधि कहते हैं—स्रुक्-स्रुवादि से युक्त सभी होमोपकरण ऊपर से उतार कर अपने दक्षिण ओर दक्षिण परिस्तरण पर दो-दो के क्रम से द्रव्य स्थापन करे । १६ संख्या में समिधायें एवं स्रुक स्रुवा के रजो मार्जन में काम आने वाले १६ कुशा को कुण्ड शोधन के लिये उपयुक्त कुशा और कलश मार्जन के काम में आने वाले कुशाओं को भी दक्षिण की ओर एकत्र स्थापित करे । इसी प्रकार विष्टर घृत, चरु एवं चार आज्य स्थली को भी दक्षिण दिशा में समूहन कुशा पर स्थापित करे ॥ ९५-९९ ॥ प्रणीतापात्रयुगलं करकं चार्घ्यभाजनम् ॥ ९९ ॥ चतुष्कमेतदपरमग्रतो विनिवेश्य च ।

षष्ठः परिच्छेदः १०३ प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ॥ १०० ॥ पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च । अर्घ्यपात्रोदकेन प्राक् कृत्स्नं पावनतां नयेत् ॥ १०१ ॥ पश्चिमपरिस्तरणोपर्यासाद्यद्रव्याण्याह—प्रणीतेति । उत्तरपरिस्तरणे आसना- न्याह—प्रादेशमात्रा इति । पक्ष्मकं(वक्ष्य?पक्ष्य)तेऽग्निप्रज्वालनार्थं परिगृह्यत इति पक्ष्मकं व्यजनमित्यर्थः । 'पक्ष परिग्रहे' (चु० १७)इति धातोः । पारमेश्वरव्याख्याने पक्ष्मकं सूक्ष्ममिति स्वेदहृद्वस्त्रविशेषणं कृतम्, तदसङ्गतम्, द्वन्द्वक्रमेणासादनासम्भवात् । क्वचित् पारमेश्वरप्रयोगे समस्तपदभ्रान्त्या पक्ष्मस्थं कं बाष्पमित्यभिप्रायेण बाष्पस्वेद- हृद्वस्त्रद्वयमिति लिखितम्, तदपि विरुद्धम्, दीक्षापरिच्छेदे— प्रागुक्तं स्रुक्स्रुवाद्यं च होमोपकरणं च यत् ॥ सर्वं पक्ष्मकपपर्यन्तं बृहत्याद्रद्वयान्वितम् । —(१८।४६-४७) इति वक्ष्यमाणत्वात् । किञ्च, पारमेश्वरव्याख्यायामासादनविषये—'अत्रैवं विवेकः' इति प्रक्रम्य स्वच्छन्दमासादनमुक्तम् । तदविवेकोत्थापितम्, यतस्तत्र दक्षिणपरिस्तरणोपरि परिध्यादीनां स्रगादीनां धूतकेशादीनां चतुर्णां चतुर्णामासादनम्, अतः स्वाग्रतः पश्चिमपरिस्तरणोपरि प्रणीतादीनां चतुर्णामासादनम्, उत्तरपरिस्तरणोपरि समिदादीनां चासादनं कार्यमित्यर्थः सुस्पष्टमुपलभ्यते । आसादितानां प्रोक्षणमाह—अर्घ्येति । अस्मिन्नवसरे कुण्डस्य चतुर्दिक्षु परिधि- स्थापनं कार्यम्, 'पलाशपूर्वाः समिधः साग़्राः परिधयस्तु वै' (१८।४५) इत्यष्टादश- परिच्छेदे परिधीनां वक्ष्यमाणत्वात् । 'चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत्' (५।१०२) इतीश्वराद्युपबृंहितत्वाच्च । एवं परिधिन्यासानन्तरं प्रागादिषु कुम्भेषु कूर्च- न्यासपूर्वकमिन्द्राद्यर्चनं च कार्यम्, विष्टराणि ततो दद्याद् हृदा कुम्भाष्टके ततः । तेषु क्रमात् पूजयेच्च लोकपालान् स्वदिक्स्थितान् ॥ (५।१०३) इतीश्वरोक्तेः । जयाख्यपारमेश्वरयोः परितः कुम्भानां केवलकूर्चेष्वेव लोक- पालार्चनमुक्तम् ॥ ९९-१०१ ॥ दो प्रणीता पात्र एवं कमण्डल तथा अर्घ्यपात्र इन चारों को अपने आगे पश्चिम दिशा में स्थापित करे ॥ ९९-१०० ॥ अब उत्तर परिस्तरण पर आसन का प्रकार कहते हैं—प्रादेश मात्र की समिधायें पर्याप्त शुष्क इन्धन, पङ्खा, देह का पसीना पोंछने वाला वस्त्र अपनी बायीं ओर स्थापित करे । इस प्रकार आसादित वस्तुओं के स्थापन के पश्चात् अर्घ्य पात्र के जल से उन्हें पवित्र करे ॥ १००-१०१ ॥ प्रणीतासंस्कारविधानम् आदाय सोदकं चाथ प्रणीताख्यं च भाजनम् ।