सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 160, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः १०१ ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ॥ —(१७।१११-११२) इति ॥ ९० ॥ तदनन्तर ताम्रपात्र में अथवा अन्य पात्र में अग्नि स्थापित करे । वह अग्नि अरणि से उत्पन्न हो, अथवा लौकिक हो, अथवा मणिजन्य हो, अथवा (सूर्य किरणों से) दर्पण जन्य हो, उसे अपने हृदय में स्थित काल वैश्वानर नामक अग्नि के साथ तथा फिर मन्त्र रूप वायु से निकली हुई बाह्याग्नि से युक्त करे ॥ ८८-९० ॥ भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ॥ ९० ॥ पूतं समिच्चतुष्कं तु प्रणवैरभिमन्त्रितम् । दत्वा तदूर्ध्वं तदनु कुर्यात् परिसमूहनम् ॥ ९१ ॥ प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु । तिर्यक् चाधोमुखस्तेन नखपृष्ठमदर्शयन् ॥ ९२ ॥ कुण्डेऽग्निस्थापनं तदूर्ध्वं प्रज्वालनार्थं समिच्चतुष्कप्रक्षेपं चाह—भ्रामयित्वेति । अत्र समिच्चतुष्कमिति याज्ञीयैन्धानानामुपलक्षणम् । तथा वक्ष्यति सप्तदशे परिच्छेदे— 'पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम्' (१७।१३३) । परिसमूहनमाह—तद- न्विति । परिसमूहनं नाम कुण्डमध्ये विशकलितानामग्नीनां पुञ्जीकरणम् ॥९०-९२॥ चार-चार बार घुमाकर अन्य कुण्ड में स्थापित करे । फिर पवित्र प्रणव से अभिमन्त्रित चार समिधायें उस पर रख कर परिसमूहन करे । यह परिस्तरण कार्य आर्द्र पाणि तल से एवं प्रदक्षिणक्रम से तिरछे तथा अधोमुख हो कर नख का पिछला भाग जिस प्रकार न दिखाई पड़े, वैसे करे ॥ ९०-९२ ॥ ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैः स्तरम् । दिशि दिश्युत्तराशान्तं याम्याशादौ तु सान्तरम् ॥ ९३ ॥ चतुर्गुणैश्चतुर्धा तु अग्रच्छन्नैः परस्परम् । प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ॥ ९४ ॥ परिस्तरणमाह—तत इति द्वाभ्याम् । अभग्नमूलाग्रैः समैः कुशैर्दिशि दिशि स्तरं परिस्तरणं दद्यादिति सामान्यमुक्तम् । याम्याशादौ तु उत्तराशान्तं दिक्त्रये च क्रमेण चतुर्भिर्श्चतुर्भिः सान्तरम् अन्तरसहितं स्तरं दद्यादिति विशेष उक्तः । अत्र याम्यादित्रये चतुर्धा सान्तरालपरिस्तरणकथनं द्वन्द्वप्रसङ्गेन करिष्यमाणपात्रासादनार्थमिति ज्ञेयम् । दक्षिणादित्रय एव द्वन्द्वक्रमेणासादनस्य वक्ष्यमाणत्वात् प्राग्दिशि तथासादनाभावान्नि- रन्तरालमेव षोडशदर्भैः परिस्तरणमिति च बोध्यम् । अत्र प्राक्प्रान्तैरित्यनेन पूर्वपश्चिमपरिस्तरणानामुत्तराग्रत्वमप्युपलक्ष्यते । दिशि दिशि स्तरं दद्यादिति पूर्वं सामान्यत उक्तत्वात् पुनः पूर्वभागाच्च यावदुत्तरगोचरमिति विशेषः प्रदर्शितः । एत एव श्लोका बहुशः पारमेश्वरादिषु प्रतिपादिताः ।