भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 159, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 159

१०० सात्वतसंहिता चूर्ण, जिसमें गन्धक मिला हुआ हो, उसको एक द्रोण परिमाण में कुण्ड में डाल कर फैला देवे ॥ ८७-८८ ॥ अग्न्यानयनकथनम् ताम्रपात्रेऽथवाऽन्यस्मिन् समादाय हुताशनम् ॥ ८८ ॥ आरण्यं लौकिकं वाथ मणिजं दर्पणोद्भवम् । अग्न्यानयनमाह—ताम्रपात्र इति । आरण्यम् = अर(ण्य?णि)संभवमित्यर्थः । अरणिन्निर्मथनप्रकार उक्तो लक्ष्मीतन्त्रे— ध्यायेत् सर्वात्मिकां शक्तिं तामेवत्वधरारणिम् । उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ॥ मथ्नीयात् तारया सम्यक् तथा चैवानुतारया । —(४०।४१-४२) इति एवमरणिजनितस्याग्नेरिदमेव जातकर्मेति ज्ञेयम् । इतः परं नामाद्यग्निसंस्काराः कार्याः, मणिजाद्यग्निस्तु गर्भाधानादिभिरेव संस्कार्यः । तथा च लक्ष्मीतन्त्रे— लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते । लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ (४०।४६) इति । अग्नेर्निषेकादिसंस्कारविधानं तु श्रीजयाख्यानुसारेश्वरपारमेश्वरयोः प्रतिपादि- तम् । तदर्थं कुण्डमध्ये लक्ष्म्यावाहनादिकमप्युक्तम्, अन्येऽपि बहवो विशेषास्तत्र तत्रापेक्षितास्तयोरेव संगृहीता ग्राह्याः ॥ ८९ ॥ कालवैश्वानराख्यस्य हृदयेशस्य वै प्रभोः ॥ ८९ ॥ मारुतानुगता भासा योज्या बाह्याग्निना सह । स्वहृदयस्थितभगवत्तेजसः पात्रस्थाग्निना संयोजनमाह—कालेति । प्रसिद्धं हि कालवैश्वानराख्यत्वं भगवतः । तथा च पौष्करे विष्वक्सेनार्चनप्रकरणे— कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः । स एव द्विज देवो हि विष्वक्सेनः प्रकीर्तितः ॥ स्थित आहवनीयादिभेदेन मखयाजिनाम् । ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥ —(२०।५४-५५) इति। मारुतानुगता = मारुतो रेचकरूप इत्यर्थः । मन्त्र एव मारुत इत्यर्थः, उभय- थाप्युक्तमीश्वरादिषु—‘मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्’ (५।८६) इति, ‘विरेच्य विन्यसेत् तस्मिन् वह्निपात्रे पुरार्चिते’ (५।८७) इति । भासा = तेजस्संज्ञो भगवतः षष्ठो गुण इत्यर्थः । तथा वक्ष्यति नृसिंहकल्पपरिच्छेदे— व्यस्तो गुणगणात् षष्ठस्तेजो नाम गुणो हि यः ॥ परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् ।