सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 152, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः ९३ उपानह, श्वेत छत्र, शिविका, रथादि से लेकर गज पर्यन्त सभी वाहन पताका सहित गरुड़ध्वज समर्पित करे ॥ ६० ॥ सितासित चामर, तदनन्तर समस्त औपचारिक भोगों में दोष पूर्त्ति के लिये मात्रावित्त (औपचारिक बीज) समर्पित करे ॥ ६१ ॥ फिर भेरी मृदङ्ग, शङ्खादि तथा जय-जयकार शब्द से युक्त अनेक प्रकार के गाने, नृत्य एवं तन्त्री वाद्य से युक्त (जितन्तादि) स्तोत्र, मन्त्र, नमस्कार, प्रणाम तथा प्रदक्षिणादि द्वारा पादपीठ सहित श्रीभगवान् का पूजन करे । फिर उन्हें भोजनार्थ आसन प्रदान करे ॥ ६२-६३ ॥ पूज्यः सपादपीठं वै दद्याद् भोज्यासनं विभोः ॥ ६३ ॥ छत्रं दुकूलतूलोत्थमसूरकवरेण तु । अथार्हणजलं स्वच्छं सुगन्ध्यं पात्रतः कृतम् ॥ ६४ ॥ मधुपर्कं दधिमधुघृतयुक्तमनन्तरम् । शीतलं तर्पणजलमथ चूर्णं पुरोदितम् ॥ ६५ ॥ देयं निष्पुंसनार्थं तु पुनराचमनं विभोः । स्वलङ्कृतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ॥ ६६ ॥ प्रभूतमथ नैवेद्यं भक्ष्यभोज्यान्यनेकशः । मधुराद्या रसाः सर्वे शाकाः सफलमूलकाः ॥ ६७ ॥ पानकानि पवित्राणि स्वादूनि मधुपर्कवत् । सर्वमाचमनार्थं तु प्रदद्यादर्हणोदकम् ॥ ६८ ॥ तिलान्यथ सुरत्नानि ताम्बूलं पुनरेव हि । अथ भोज्यासनोपचारानाह—सपादपीठमित्यादिभिः । दुकूलतूलोत्थमसूरकव- रेण क्षौमाद्याच्छादितदुकूलोत्थितमृद्वास्तरणेनेत्यर्थः । अर्हणजलं मधुपर्काङ्गमापोशन- रूपं प्रधानार्घ्योदकं पात्रतः कृतं पृथक्पात्रे प्रणीतमित्यर्थः । तथा च वक्ष्यति दीक्षा- धिवासपरिच्छेदे प्रधानाविनियोगविवरणप्रकरणे—'तदम्भसाचार्हणं तु तथैव परिषे- चनम्' (१८।७२) इति । दधिमधुघृतयुक्तमित्यत्र क्षीरमपि योज्यम्, 'नाconstruct/नाविकं मधु- पर्कार्थे दधिक्षीरादिकं शुभम्' (२१।३७) इति समयपरिच्छेदे वक्ष्यमाणत्वात्, 'पयसो मधुनो दध्नः संयोगो मधुपर्ककः' (३९।२७) इति लक्ष्मीतन्त्रोक्तेश्च । तर्पणजलं मधुपर्कनिवेदनानन्तरं तृप्त्यर्थं पानीयम् । तदपि प्रधानार्घ्योदकमेव, 'कुर्यात् प्रणय- नादानम्' (१८।७२) इति प्रधानार्घ्यविनियोगस्य वक्ष्यमाणत्वात् । प्रणयनं = पात्रान्तरे सेचनम्, तत्पूर्वकमादानं = ग्रहणमित्यर्थः । तथा च व्यक्तमुपबृंहितमीश्वरपारमेश्व- रयोः—'तर्पणं सम्प्रतिष्ठाप्य वासितं चार्यवारिणा' (ई०सं० ५।३; पा०सं० ६।३७६) इति । पुरोदितं चूर्णं स्नानासनोक्तमुद्वर्तनचूर्णमित्यर्थः । निष्पुंसनार्थं = हस्तोद्वर्तनार्थम् । गां विनिवेद्य । इदं गोविनिवेदनं मधुपर्कच्छिद्रसम्पूर्णार्थमिति ज्ञेयम् ।