सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 169, कुल 837 में से
संदर्भ में पढ़ें११० सात्वतसंहिता प्रणीता संस्कार काल में आज्य से सिक्त पलाश तथा दूध वाले वृक्षों से उत्पन्न जो १६ समिधायें कही गई हैं, उसका चार भाग आवहनीयादि विभाग के लिये करे। फिर उसे कुण्ड के ब्रह्मभित्ति के मध्य में चार भागों में, पूर्व से लेकर उत्तर दिशा तक स्थापित करे। ईशान-आग्नेय में पहला चतुष्टय, आग्नेय-नैर्ऋत्य कोण में दूसरा चतुष्टय, नैर्ऋत्य-वायव्य कोण में तीसरा, फिर वायु और ईशान में चतुर्थ चतुष्टय स्थापित करे ॥ १३५-१३९ ॥ द्वितीयमिध्ममादाय त्वष्टकाष्ठमयो हि यः ॥ १४२ ॥ द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तम्। इध्मविभागादिकमाह—द्वितीयमिति। इध्माष्टकं पुरा द्विधा कृत्वा तदनन्तरं पूर्ववदुभयत आज्येन सेचनीयम्। यद्यपीश्वरपारमेश्वरयोः—'आज्येनोभयतः सिक्तं ब्रह्मक्षीरद्रुमोद्भवम्। समादाय द्विधा कृत्वा' (ई०सं० ५।१८६; पा०सं० ७।१४८) इति चोक्तत्वाद् इध्मानामाज्यसेकानन्तरं द्वेधा विभजनं प्रतीयते, तथापि मूलाविरोधेनार्थस्य वर्णनीयत्वात्, मूले च द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तमित्युक्तत्वात्, षोडशेध्मप्रकरणेऽपि चतुर्धा विभजनानन्तरमेवाज्यसेकस्योक्तत्वाच्च पाठक्रमादर्थक्रमस्य बलीयस्त्वेन तयोरपि द्वेधाकरणानन्तरमेवाज्यसेचनमित्यर्थो वर्णनीयः। अत एवास्मत्तातपादैरीश्वरानुसारिण्यपि सात्वतामृते मूलाविरोधेनार्थो वर्णितः। कस्मिंश्चित् पारमेश्वरप्रयोगे—'आज्येन सर्वतः संसिच्य द्विधा कृत्वा' इत्युक्तम्, तद्विरुद्धम् ॥ १४२-१४३ ॥ निधाय दक्षिणस्यां च मध्य आग्नेयदिग्गतम् ॥ १४३ ॥ विश्रान्तं नैर्ऋतपदे चोत्तरस्यां तथाऽपरम्। वाय्वीशपदसंरुद्धमाज्यमादाय वै ततः ॥ १४४ ॥ इध्मप्रक्षेपक्रमपाह—निधायेति सपादेन। अग्नौ दक्षिणस्यां मध्ये नैर्ऋताग्नेय- को(ण)संरुद्धमिध्मचतुष्टयं निधाय तथैवापरं चतुष्कमृत्तरस्यां मध्ये वायव्येशानकोण- संरुद्धं निदध्यादित्यर्थः। एवं नैर्ऋताग्नेयसंरुद्धत्वोक्त्या वायव्येशानसंरुद्धत्वोक्त्या चाग्नौ दक्षिणस्यामुत्तरस्यां च पूर्वपश्चिमयतने वेध्मप्रक्षेपः कार्य इत्यर्थः सिद्ध्यति। ननु पूर्वपश्चिमन्तामिध्मप्रक्षेपः स्वतः सिद्ध इति चेन्न, पूर्वं षोडशेध्मप्रक्षेप- प्रकरणे—'ईशानाग्नेयपादाभ्यां पतितं प्राक्चतुष्टयम्' (६।१३७) इति, 'नैर्ऋतानल- संस्पर्शि तृतीयं विनिवेश्य' (६।१३८) इति च दक्षिणोत्तरायतमपीध्मप्रक्षेपस्योक्त- त्वात्। इममर्थमविज्ञाय कस्मिंश्चित् पारमेश्वरप्रयोगे वृथा पाण्डित्यं कृतम्। तथाहि— इध्माष्टकपक्षे कुण्डादन्तः दक्षिणभित्तौ मध्यत ऊर्ध्वाग्रमेकमिध्मं मूलेन संयोज्य तथा कुण्डमध्यत आग्नेये नैर्ऋते चेध्मत्रितयं निधाय तथापरचतुष्कमृत्तरभित्तिकुण्ड- मध्यवाय्वीशानकोणेषु निदध्यादिति ॥ १४३-१४४ ॥ चतुःसंख्येन मन्त्रेण प्रणवालङ्कृतेन च। दक्षिणे स्रुक्चतुष्कं तु जुहुयादुत्तरे तथा ॥ १४५ ॥