सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 180, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः १२१ संविभागस्तु प्रत्येकं न कार्य इति को वा नियम इति चेत्, केनोक्तं तथा । जनान्तरा- विद्यमानत्वदशायामेकेनैव स्वार्थपरार्थार्चनद्वयमपि कृतं चेत्, तदा परार्थं भगवन्मन्दिरे स्वगृहे वाऽस्तु देवपितृसंविभागानुष्ठानम्, कर्तृभेदे तु प्रत्येकानुष्ठानमित्यस्माक- मप्याशयो ज्ञेयः । नन्वेवं सति परार्थभगवन्मन्दिरेऽपि प्राभातिकार्चनादिषु कर्तृभेदे सति प्रत्यर्चनं पितृसंविभागः स्यादिति चेन्न, तत्र कर्तृभेदस्यानुक्तत्वात्, एकं कर्तारमुद्दिश्यैव प्राभा- तिकार्चनादिद्वादशकालविभागोक्तेः, प्रत्यर्चनं पितृसंविभागस्य कर्तव्यत्वानुक्तेश्च । न च स्वार्थेऽपि होमः पितृसंविभागश्च नोक्त एव, अत्र तु 'कुण्डस्य योनिनिकटे दक्षिणाग्रां- स्तरॆत् कुशान्' (६।१६३) इति वह्निसमर्पणानन्तरं कुण्डसमीपे कर्तव्यत्वेनोक्तः पितृ- संविभागः परार्थार्चनविषय इति वाच्यम्, स्वार्थे चाराधनस्यैकरूप्येणानुष्ठेयत्वात् । ननु तर्हि भवदुक्तसम्प्रदायप्रदीपिकायां स्वार्थार्चने बहुशो वैरूप्यं दृश्यते । होमः पितृसंविभागश्च नोक्त इति चेत्, सत्यम् । तत्र स्वार्थमात्राधिकारिणां सुखबोधाय श्रीमद्भाष्यकारोक्तरीत्यनुसारेणाराधनक्रमः प्रदर्शितः । स्वार्थपरार्थोभयाधिकारिभिर- स्माभिस्तु स्वसिद्धान्तस्वसंहितोक्तक्रमेणैवोभयत्राप्याराधनप्रतिष्ठादेरनुष्ठेयत्वं बोध्यम् । ननु श्रीसात्वताद्युक्तप्रकारेणानुष्ठानं कुर्वद्भिरपि स्वार्थे वह्निसन्तर्पणं कुतो न क्रियत इति चेदुच्यते, मुख्यकल्पे तु होमान्तां नित्यनैमित्तिकात्मिकाम् ॥ पूजां क्रमेण वै कुर्यात् तत्तद्धोमावसानिकाम् । अनुकल्पे तु जप्यन्ताम् —(पा०सं० ९।९-१०) इति जपान्तानुष्ठानस्यापि पारमेश्वराद्युपबृंहितत्वाज्जपान्तमस्माभिरनुष्ठीयत इति बोध्यमायुष्मता । अत एव नित्ये जपान्तमाराधनमुक्तम् । नित्यानुसारिण्यपि क्रियादीपे होमान्तो मुख्यकल्प एव दर्शितः । ननु भवत्कृतेश्वरसंहिताव्याख्याने एवं पितृसंविभागः प्राभातिकार्चनमात्रानुष्ठाने होमानन्तरं कार्य इत्युक्तम्, तदसङ्गतम्, प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम् । तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ अनुकल्पे तु कालः स्यादेको मध्यन्दिनोऽथवा । माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज ॥ —(पा०सं० ९।३६-३७) इति माध्यन्दिनार्चनमात्रस्य पारमेश्वराद्युक्तत्वात् प्राभातिकार्चनमात्रस्य कुत्राप्य- नुक्तत्वादिति चेत्, उच्यते—प्राभातिकार्चनमात्रस्याप्यनुष्ठानं द्वादश्यादिषु संभवतीति सन्तोष्टव्यमायुष्मता ॥ १८० ॥ इस ग्रास दान में कारण यह है कि दिव्य मन्त्रों द्वारा अच्युत की पूजा करने के पश्चात् पितरों के उद्देश्य से जो स्वल्प अथवा अधिक वस्तु दी जाती है, वह उनके लिये अक्षय हो जाती है ॥ १८० ॥ सा० सं० - 12