सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 187, कुल 837 में से
संदर्भ में पढ़ें१२८ सात्वतसंहिता क्तैश्च। स्वार्थे माध्याह्निकार्चनमात्रस्योक्तत्वात्। तदनन्तरमेव पितृसंविभागानुष्ठान- मप्यस्माकमप्यविरुद्धं बोध्यम्। ननु च स्वार्थे इज्याकाले माध्याह्निकार्चनमात्रमुचितम्। सायन्तनार्चनमपि भवता कथमङ्गीकृतमिति चेत्, सत्यम्। तद्योगङ्गं जयाख्यपद्मादिष्वपि कण्ठरवेणोक्तं द्रष्टव्यम्। यथाशक्ति जपं कुर्यादित्यत्रागमाध्ययनरूपस्वाध्यायमन्त्रजपो बोध्यः, प्रसिद्धजपयज्ञस्य हविर्निवेदनानन्तरमेव कर्तव्यत्वात्। तथा च पञ्चरात्ररक्षायां संग्रहः— ‘अथ लोहितायति भास्करे यथासूत्रं सायंसन्ध्योपासनं सायंहोमः पुनर्यथाशक्ति भग- वदभिगमनहविर्निवेदनपूर्वकं भोजनम्। केनचिन्निमित्तेन विलुप्ते भोजने प्राणाग्नि- होत्रमन्त्रजपः, ततश्च रात्रियोग्यस्वाध्यायो योगश्चेति क्रमः’ (पृ० १५०) इति। समाधाय बहिर्देवमित्यत्र तेन सह बहिःस्थितेन भगवता सहेत्यर्थः। निद्रा यावदभ्येति तावदन्तं बहिर्निरालम्बपदे स्थितं देवं समाधाय ध्यात्वेत्यर्थः। इह प्रयत्नपूर्वकं चित्तनिरोधं कृत्वा ध्याने कृते निद्रा न संभवति। तदभावे योगं कर्तुं चित्तस्वास्थ्यं न जायत इत्याशयेनाप्रयत्नेनानिरुद्धेन चेतसेत्युक्तम्। अस्य पदद्वयस्यापि समाधायेत्यत्रान्वयः। पारमेश्वरव्याख्याने तु—‘अबहिः हृत्कमले’ इति व्याख्यातम्। तन्मन्दम्, यतः सात्वतेश्वरपारमेश्वरादिषु पञ्चरात्ररक्षादिषु (पृ० १६४) च समाधाय बहिर्देवमित्येकरूपः पाठो दृश्यते। तथा पाठाङ्गीकारेऽर्थ(T)सामञ्जस्यमपि न संभवति ॥ १९०-१९३ ॥ सन्ध्या समय प्राप्त होने पर जघन पर्यन्त स्नान करे फिर वस्त्र क्षालन कर दूसरा वस्त्र पहने ॥ १९० ॥ फिर भगवान् का अर्घ पुष्पादि से अर्चन कर अग्निदेव का यजन करे। यथाशक्ति जप करे फिर शयन स्थान पर जावे और वहाँ हृदय स्थान में स्थित देवता का ध्यान तब तक करे जब तक निद्रा न आवे ॥ १९१-१९३ ॥ कमण्डलुस्थितेनैव समाचम्य तु वारिणा। गुरुं देवं नमस्कृत्य ह्युपविश्याजिनासने ॥ १९४ ॥ अथ योगं दर्शयन् तत्पूर्वकृत्यमाह—समुत्थायेति सार्धेन। अयं श्लोकः पञ्च- रात्ररक्षायामेव व्याख्यातः। तथाहि—‘एतत्संहितानिष्ठानामेष योगकालनियमः। निःशब्दे सर्वसुप्तिकाले चैकाग्र्यातिशयसंभावनया च तद्विधिः। तत्तत्पुरुषशक्त्या- द्यनुसाराच्च तत्तत्कालविधेर्न विरोध इत्युक्तम्। तत्र— वैष्णवीं धारयेद् यष्टिं सोदकं च कमण्डलुम्। यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ (४।३६) इत्यादिभिर्मन्वाद्युपदिष्टसोदककमण्डलुधारणादिकं भगवद्योगिनोऽपि विहित- मिति ज्ञापनाय कमण्डलुस्थितेनैवेत्युक्तम्, निद्रान्तनिमित्तयोत्तरकर्माङ्गतया च तन्त्रेणा- चमनम्। तुशब्देन स्वशास्त्रोक्तविशेषः, तोयालाभदशायां दक्षिणश्रवणस्पर्शश्च व्यज्यते। स्मरन्ति हि— एवमाचमनाशक्तावलाभे सलिलस्य च।