सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 188, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः १२९ पूर्वोक्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् ॥' —(प०पृ०८२-८३) इति। अजिनासन इति ‘चेलाजिनकुशोत्तरम्’ (भ०गी० ६।११) इति गीते प्रधानां- शग्रहणमिति ॥ १९३-१९४ ॥ फिर निद्रात्याग कर शैथिल्य दूर कर कमण्डल स्थित जल से आचमन करे और गुरु देवता को नमस्कार कर मृगचर्म के आसन पर बैठे ॥ १९४ ॥ न्यासं मन्त्रचतुष्केण कुर्यात् संहारलक्षणम् । आपादाज्जानुपर्यन्तमनिरुद्धं च विन्यसेत् ॥ १९५ ॥ प्रद्युम्नाख्यं न्यसेन्मन्त्रं नाभ्यन्तं जानुमण्डलात् । नाभेरार्कणदिशं तु मन्त्रं साङ्कर्षणं न्यसेत् ॥ १९६ ॥ आकर्णाद् ब्रह्मरन्ध्रान्तं चतुर्थं विनिवेद्य च । ततस्त्वभिमतेनैव त्वास्ते पद्मासनादिना ॥ १९७ ॥ स्वात्मना चातुरात्म्यमभिमानं समाश्रयेत् । अथ वासुदेवादिमन्त्रचतुष्टयस्य स्वशरीरे संहारक्रमेण न्यासं पद्मासनादिष्वन्य- तमेनोपवेशनं स्वस्मिन् चातुरात्मीयाभिमानावलम्बनं चाह—न्यासमिति सार्द्धैस्त्रिभिः । चातुरात्म्यमभिमानं समाश्रयेदित्यत्र तत्तन्मन्त्रजपध्यानकाले तत्तन्मूर्त्तितादात्म्यावलम्बनं बोध्यम्, अन्यथा युगपत्सर्वमूर्त्तितादात्म्याश्रयणस्याशक्यत्वात् तस्य प्रत्येकमेव वक्ष्य- माणत्वाच्च । अत्र चातुरात्म्यार्चनप्रकरणादेव चतुर्भिर्मन्त्रैर्यो गानुष्ठानादिकमुक्तम् । नह्येकमूर्त्यर्चनविभवार्चनादिप्रकरणेऽप्येतैरेव मन्त्रैर्यो गोऽनुष्ठेय इति नियमः, अपि तु तत्तत्प्रकरणानुसारिमन्त्रैरिति बोध्यम् । ननु पञ्चरात्ररक्षायामत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितानन्तरनिष्ठानामपि साधारणमित्युक्तम् । एतेनैतत्संहितानिष्ठानां सर्वप्रकरणेष्वपि मन्त्रचतुष्केणैव योग इति ज्ञायते, यतस्तत्र प्रकरणान्तरनिष्ठानामपीति नोक्तमिति चेत्, ब्रूमः—अत्र चातुरात्म्या- राधनस्यैव विस्तरात् प्रकरणान्तरस्य संकुचितत्वात् प्रकरणान्तरेऽपि साधारणमिति नोक्तम् । संहितानन्तरनिष्ठानामपि साधारणमित्यनेनैव तदर्थोऽपि किंपुनर्न्यायेन सिद्धो भवतीति ज्ञेयम् । अन्यथा सर्वेषामपि व्यूहचतुष्टयेनैव योगानुष्ठाननियमे— कैवल्यफलदा ह्येका भोगकैवल्यदा परा । भोगदैव तृतीया च प्रबुद्धानां सदैव हि ॥—(१९।४) इति वक्ष्यमाणपरादिमन्त्रदीक्षितफलभेदानुसारेण कैवल्येच्छया केवलं परात्पर- मन्त्रं प्राप्तवतां काम्येच्छया विभवमन्त्रमात्रमधिकृतवतां च योगानुष्ठानं न संभवेत् । अतो यस्य यस्मिन् मन्त्रेऽभिरतिस्तस्य तेन योगानुष्ठानमिति सिद्धम् ॥ १९५-१९८ ॥ तदनन्तर चार मन्त्र से संहार लक्षण (= विपरीत क्रम) न्यास करे । फिर पैर से लेकर जानु पर्यन्त अनिरुद्ध मन्त्र से न्यास करे ॥ १९५ ॥