सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 200, कुल 837 में से
संदर्भ में पढ़ेंसप्तमः परिच्छेदः १४१ ततो होमान्तं सर्वं कृत्वा पुनस्तमेव ध्यायन् प्राप्ते मध्याह्ने यथाविध्यर्चनं कृत्वा सायन्तनार्चनं तु स्नपनवर्जितं कृत्वा गम्भीरार्थगर्भितविविधस्तोत्रगीतवाद्यादिभिः सह तां निशां जागरणेन नीत्वा द्वादश्यां प्रभाते स्नानपूर्वकं यथाविधि चतुरात्मानं प्रभुं सम- भ्यर्च्य पारणान्तं कृत्वा सायन्तनार्चनं च कृत्वाऽपराधक्षमापणं कुर्वन् चतुर्दिक्षु चतुर्वारं दण्डवत् प्रणम्य चतुर्वारं प्रदक्षिणं कुर्वन् एकैकस्याग्रतः स्थित्वा तत्तद्वाचकस्तोत्र- मन्त्रवाक्यादीनि पठेद्दिति प्रयोगपद्धतिमाह—होमान्तमित्यादिभिः ॥ १९-२४ ॥ तदनन्तर होमान्त सभी कर्म करते हुए ध्यान करे । मध्याह्न होने पर यथाविधि अर्चन करे । पुनः सायङ्काल का अर्चन स्नान के बिना ही सम्पादन कर, गम्भीरार्थ-गर्भित, विविध स्तोत्र, गीत एवं वाद्यादि से उस रात को जागते हुए व्यतीत कर देवे । फिर द्वादशी को प्रभातकाल में यथाविधि चतुरात्मा प्रभु की पूजा कर पारण करे और सायंकाल की पूजा करे । अपराध के लिये क्षमा माँगे और चारों दिशाओं में चार बार दण्डवत् करे । चार बार प्रदक्षिणा कर एक-एक के आगे स्थित होकर तद्वाचक स्तोत्र मन्त्र वाक्यादि पढ़े ॥ १९-२४ ॥ वासुदेवादीनां जितन्तामन्त्रचतुष्टयम् जितं ते पुण्डरीकाक्ष वासुदेवामितद्युते । रागदोषादिनिर्मुक्तो समस्तगुणमूर्तिमान् ॥ २५ ॥ नाथ ज्ञानबलोत्कृष्ट नमस्ते विश्वभावन । सङ्कर्षण विशालाक्ष सर्वज्ञ परमेश्वर ॥ २६ ॥ देव ऐश्वर्यवीर्यात्मन् प्रद्युम्न जगतांपते । नमस्तेऽस्तु हृषीकेश सर्वेश्वर जगन्मय ॥ २७ ॥ स्थित्युत्पत्तिलयत्राणहेतवे शक्तितेजसे । जयानिरुद्ध भगवन् महापुरुष पूर्वज ॥ २८ ॥ वासुदेवादीनां जितन्तादिस्तोत्रमन्त्रचतुष्टयं स्वयमेवाह—जितं त इति चतुर्भिः । अत्र प्रथमश्लोके प्रथमं पादम्, द्वितीये द्वितीयम्, तृतीये तृतीयम्, चतुर्थ चतुर्थं च संगृह्यैकश्लोकरूपेण लक्ष्मीतन्त्र (२४।६९) पाद्मादिषु प्रतिपादितम् । तस्याष्टा- क्षरादिव्यापकत्वं चोक्तं लक्ष्मीतन्त्रे— पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ विष्णवे नम इत्येवं नमो नारायणाय च । नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरन्दर । ओङ्कारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥......