सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 199, कुल 837 में से
संदर्भ में पढ़ें१४० सात्वतसंहिता पद्मशङ्खौ सुशोभाढ्यौ यथा तदवधारय ॥ १६ ॥ तर्जनीमध्यमाभ्यां तु नम्राभ्यां मध्यतः स्थितम् । निषण्णं तलपर्यन्ते शङ्खमूर्ध्वमुखं शुभम् ॥ १७ ॥ सनालं कमलं तद्वत् सितं विकसितं तु वै । मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणम् ॥ १८ ॥ लम्बमानमधोवक्त्रं साङ्गुष्ठं संस्मरेद् विभोः । वासुदेवस्य लाञ्छनध्यानप्रकारमाह—कराभ्यामिति सार्द्धैस्त्रिभिः । लम्बमान- दक्षिणहस्ते तर्जन्यङ्गुष्ठाभ्यां संगृहीतं तलप्रदेशेऽधोमुखं स्थितं शङ्खवत् सितं विकसितं मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणं सनालं कमलं तथा वामहस्ते नम्राभ्यां तर्जनीमध्यमाभ्यां मध्यतो गृहीतं तलप्रदेशे ऊर्ध्वमुखं स्थितं शङ्खं च ध्यायेदित्यर्थः । ननु जाग्रद्व्यूहवासुदेवस्य पूर्वं चतुर्भुजत्वमुक्तम्, इदानीं लाञ्छनद्वयमात्रस्योक्ता द्विभुजत्वमेव ज्ञायत इति चेत्, किं तावता भवतो विरोधः, उभयथापि लक्षणं स्यात् ॥ १६-१९ ॥ अब भगवान् वासुदेव का शङ्खादि से युक्त सलाञ्छन ध्यान का प्रकार कहते हैं—हे सङ्कर्षण ! भगवान् जिस प्रकार अपने लम्बे-लम्बे हाथों में दक्षिण के क्रम से शोभायुक्त कमल और शङ्ख धारण किये हुए हैं, उसे सुनिये ॥ १६ ॥ लम्बे दाहिने हाथ में तर्जनी एवं अङ्गुष्ठ से पकड़कर तलप्रदेश में अधोमुख स्थित शङ्ख के समान उज्ज्वल एवं विकसित, कुछ-कुछ शेषलतागण समन्वित एवं सनाल कमल का तथा बायें हाथ में नीचे की ओर तर्जनी एवं मध्यमा अङ्गुलियों के मध्य में गृहीत तलप्रदेश में ऊर्ध्व मुख स्थित शङ्ख धारण किये हुए भगवान् का स्मरण करे ॥ १७-१९ ॥ होमान्तमखिलं कृत्वा ध्यायेदनिमिषस्ततः ॥ १९ ॥ दिनमध्येऽर्चनं कुर्याद् दिनान्ते स्नानवर्जितम् । महार्थैर्विविधैः स्तोत्रैर्गीतवाद्यसमन्वितैः ॥ २० ॥ निशां नीत्वा प्रभातेऽथ स्नानपूर्वमजं यजेत् । चतुरात्मानमव्यक्तमनुयागान्तकर्मणा ॥ २१ ॥ उदितेऽथ निशानाथे चास्तं याते दिवाकरे । क्षान्त्यर्थमर्चनं कुर्याद् दण्डवत् प्रणमेत् क्षितौ ॥ २२ ॥ चतुर्धा वै चतुर्दिक्षु ततः कुर्यात् प्रदक्षिणम् । एकैकस्याग्र उच्चार्य चतुर्धा तु पदं पदम् ॥ २३ ॥ तद्वाचकांस्तोत्रमन्त्रांस्ततः कृत्वा स्वभावगम् । तद्व्यक्तिव्यञ्जकेनैव सह वाक्यगणेन तु ॥ २४ ॥