सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
१४० सात्वतसंहिता पद्मशङ्खौ सुशोभाढ्यौ यथा तदवधारय ॥ १६ ॥ तर्जनीमध्यमाभ्यां तु नम्राभ्यां मध्यतः स्थितम् । निषण्णं तलपर्यन्ते शङ्खमूर्ध्वमुखं शुभम् ॥ १७ ॥ सनालं कमलं तद्वत् सितं विकसितं तु वै । मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणम् ॥ १८ ॥ लम्बमानमधोवक्त्रं साङ्गुष्ठं संस्मरेद् विभोः । वासुदेवस्य लाञ्छनध्यानप्रकारमाह—कराभ्यामिति सार्द्धैस्त्रिभिः । लम्बमान- दक्षिणहस्ते तर्जन्यङ्गुष्ठाभ्यां संगृहीतं तलप्रदेशेऽधोमुखं स्थितं शङ्खवत् सितं विकसितं मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणं सनालं कमलं तथा वामहस्ते नम्राभ्यां तर्जनीमध्यमाभ्यां मध्यतो गृहीतं तलप्रदेशे ऊर्ध्वमुखं स्थितं शङ्खं च ध्यायेदित्यर्थः । ननु जाग्रद्व्यूहवासुदेवस्य पूर्वं चतुर्भुजत्वमुक्तम्, इदानीं लाञ्छनद्वयमात्रस्योक्ता द्विभुजत्वमेव ज्ञायत इति चेत्, किं तावता भवतो विरोधः, उभयथापि लक्षणं स्यात् ॥ १६-१९ ॥ अब भगवान् वासुदेव का शङ्खादि से युक्त सलाञ्छन ध्यान का प्रकार कहते हैं—हे सङ्कर्षण ! भगवान् जिस प्रकार अपने लम्बे-लम्बे हाथों में दक्षिण के क्रम से शोभायुक्त कमल और शङ्ख धारण किये हुए हैं, उसे सुनिये ॥ १६ ॥ लम्बे दाहिने हाथ में तर्जनी एवं अङ्गुष्ठ से पकड़कर तलप्रदेश में अधोमुख स्थित शङ्ख के समान उज्ज्वल एवं विकसित, कुछ-कुछ शेषलतागण समन्वित एवं सनाल कमल का तथा बायें हाथ में नीचे की ओर तर्जनी एवं मध्यमा अङ्गुलियों के मध्य में गृहीत तलप्रदेश में ऊर्ध्व मुख स्थित शङ्ख धारण किये हुए भगवान् का स्मरण करे ॥ १७-१९ ॥ होमान्तमखिलं कृत्वा ध्यायेदनिमिषस्ततः ॥ १९ ॥ दिनमध्येऽर्चनं कुर्याद् दिनान्ते स्नानवर्जितम् । महार्थैर्विविधैः स्तोत्रैर्गीतवाद्यसमन्वितैः ॥ २० ॥ निशां नीत्वा प्रभातेऽथ स्नानपूर्वमजं यजेत् । चतुरात्मानमव्यक्तमनुयागान्तकर्मणा ॥ २१ ॥ उदितेऽथ निशानाथे चास्तं याते दिवाकरे । क्षान्त्यर्थमर्चनं कुर्याद् दण्डवत् प्रणमेत् क्षितौ ॥ २२ ॥ चतुर्धा वै चतुर्दिक्षु ततः कुर्यात् प्रदक्षिणम् । एकैकस्याग्र उच्चार्य चतुर्धा तु पदं पदम् ॥ २३ ॥ तद्वाचकांस्तोत्रमन्त्रांस्ततः कृत्वा स्वभावगम् । तद्व्यक्तिव्यञ्जकेनैव सह वाक्यगणेन तु ॥ २४ ॥
सप्तमः परिच्छेदः १४१ ततो होमान्तं सर्वं कृत्वा पुनस्तमेव ध्यायन् प्राप्ते मध्याह्ने यथाविध्यर्चनं कृत्वा सायन्तनार्चनं तु स्नपनवर्जितं कृत्वा गम्भीरार्थगर्भितविविधस्तोत्रगीतवाद्यादिभिः सह तां निशां जागरणेन नीत्वा द्वादश्यां प्रभाते स्नानपूर्वकं यथाविधि चतुरात्मानं प्रभुं सम- भ्यर्च्य पारणान्तं कृत्वा सायन्तनार्चनं च कृत्वाऽपराधक्षमापणं कुर्वन् चतुर्दिक्षु चतुर्वारं दण्डवत् प्रणम्य चतुर्वारं प्रदक्षिणं कुर्वन् एकैकस्याग्रतः स्थित्वा तत्तद्वाचकस्तोत्र- मन्त्रवाक्यादीनि पठेद्दिति प्रयोगपद्धतिमाह—होमान्तमित्यादिभिः ॥ १९-२४ ॥ तदनन्तर होमान्त सभी कर्म करते हुए ध्यान करे । मध्याह्न होने पर यथाविधि अर्चन करे । पुनः सायङ्काल का अर्चन स्नान के बिना ही सम्पादन कर, गम्भीरार्थ-गर्भित, विविध स्तोत्र, गीत एवं वाद्यादि से उस रात को जागते हुए व्यतीत कर देवे । फिर द्वादशी को प्रभातकाल में यथाविधि चतुरात्मा प्रभु की पूजा कर पारण करे और सायंकाल की पूजा करे । अपराध के लिये क्षमा माँगे और चारों दिशाओं में चार बार दण्डवत् करे । चार बार प्रदक्षिणा कर एक-एक के आगे स्थित होकर तद्वाचक स्तोत्र मन्त्र वाक्यादि पढ़े ॥ १९-२४ ॥ वासुदेवादीनां जितन्तामन्त्रचतुष्टयम् जितं ते पुण्डरीकाक्ष वासुदेवामितद्युते । रागदोषादिनिर्मुक्तो समस्तगुणमूर्तिमान् ॥ २५ ॥ नाथ ज्ञानबलोत्कृष्ट नमस्ते विश्वभावन । सङ्कर्षण विशालाक्ष सर्वज्ञ परमेश्वर ॥ २६ ॥ देव ऐश्वर्यवीर्यात्मन् प्रद्युम्न जगतांपते । नमस्तेऽस्तु हृषीकेश सर्वेश्वर जगन्मय ॥ २७ ॥ स्थित्युत्पत्तिलयत्राणहेतवे शक्तितेजसे । जयानिरुद्ध भगवन् महापुरुष पूर्वज ॥ २८ ॥ वासुदेवादीनां जितन्तादिस्तोत्रमन्त्रचतुष्टयं स्वयमेवाह—जितं त इति चतुर्भिः । अत्र प्रथमश्लोके प्रथमं पादम्, द्वितीये द्वितीयम्, तृतीये तृतीयम्, चतुर्थ चतुर्थं च संगृह्यैकश्लोकरूपेण लक्ष्मीतन्त्र (२४।६९) पाद्मादिषु प्रतिपादितम् । तस्याष्टा- क्षरादिव्यापकत्वं चोक्तं लक्ष्मीतन्त्रे— पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ विष्णवे नम इत्येवं नमो नारायणाय च । नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरन्दर । ओङ्कारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥......
१४२ सात्वतसंहिता केवलस्तारकश्चैव चत्वारश्च तदादिकाः । पञ्चैते व्यापका मन्त्राः पञ्चरात्रे प्रकीर्तिताः ॥ इति ॥ —(२४।६७-७०, ७४) इतोऽप्यधिकं पाद्मादिषु प्रतिपादितं स्तोत्रश्लोकजातमेतद् जितन्ताख्य- मन्त्रस्यार्थविवरणरूपं बोध्यम् । जितन्ताख्यमन्त्रव्याख्यानमहिर्बुध्न्यसंहितायामुक्तं द्रष्टव्यम् ॥ २५-२८ ॥ अब वासुदेवादिकों के जितन्तादि स्तोत्र तथा मन्त्र चतुष्टय को स्वयं कहते हैं—हे वासुदेव, हे अमितद्युति वाले ! हे पुण्डरीकाक्ष ! आप की जय हो, आप रागदोषादि से रहित हैं । आप वासुदेव समस्त गुणों के मूर्तिमान् स्वरूप हैं । हे नाथ, हे ज्ञानबलोत्कृष्ट, हे विश्वभावन, आप को नमस्कार है ॥ २५-२६ ॥ हे विशालाक्ष ! हे सर्वज्ञ ! हे परमेश्वर ! आप सङ्कर्षण को नमस्कार है । हे देव ! ऐश्वर्य, वीर्यवान्, प्रद्युम्न जगत् के पालक आप को नमस्कार है । हे हृषीकेश हे सर्वेश्वर हे जगन्मय आप प्रद्युम्न को नमस्कार है ॥ २६-२७ ॥ जगत् की स्थिति एवं उत्पत्ति, लय एवं त्राण करने में कारणभूत, शक्ति तेज स्वरूप हे भगवन्, हे महापुरुष, हे पूर्वज, हे अनिरुद्ध आपकी जय हो ॥ २८ ॥ विधानानेन वै कार्यं पक्षयोरुभयोरपि । अब्दान्तमर्चनं विष्णोर्निष्कामेनाग्रजन्मना ॥ २९ ॥ एवं प्रतिमासं पक्षद्वयेऽपि दशम्यां पञ्चगव्यप्राशननियमपूर्वकमुपवासं जागरणं द्वादश्यां व्रताराधनपूर्वकं पारणं सायmaparādhakṣamāpaṇārtham... -> सायमपराधक्षमापणार्थमर्चनादिकं च कुर्वन् संवत्सरान्तं ब्राह्मणो निष्कामं यथा व्रतं कुर्यादित्याह—विधिनेति ॥ २९ ॥ प्रतिमास दोनों पक्षों में दशमी को पञ्चगव्य प्राशन एवं नियमपूर्वक एकादशी को उपवास, जागरण करके द्वादशी को व्रताराधनपूर्वक पारण करे । फिर सायंकाल अपराध क्षमापणार्थ, अर्चनादि करते हुए साधक ब्राह्मण निष्काम रूप से इस व्रत को एक साल तक करे ॥ २९ ॥ चातुरात्म्याराधने वर्णानां क्रमः एवं सङ्कर्षणाद्यं तु वासुदेवान्तमर्चनम् । विहितं क्षत्रजातेर्वै कर्तव्यत्वेन सर्वदा ॥ ३० ॥ प्रद्युम्नाद्यं तु वैश्यस्य मुसल्यन्तमुदाहृतम् । सच्छूद्रस्यानिरुद्धाद्यं प्रद्युम्नान्तं सदैव हि ॥ ३१ ॥ क्षत्रियस्य विशेषमाह—एवमिति । वैश्य विशेषमाह—प्रद्युम्नाद्यमित्यर्धेन । मुसल्यन्तं सङ्कर्षणान्तमित्यर्थः । शूद्रस्य विशेषमाह—सच्छूद्रस्येत्यर्धेन ॥ ३०-३१ ॥ अब क्षत्रिय के लिये विशेष कहते हैं—क्षत्रिय जाति के लिये सङ्कर्षण से
सप्तमः परिच्छेदः १४३ लेकर इसी प्रकार सर्वदा संवत्सर पर्यन्त वासुदेवान्त अर्चन विहित है ॥ ३० ॥ वैश्य के लिये प्रद्युम्न से प्रारम्भ कर सङ्कर्षण पर्यन्त संवत्सर तक व्रत का विधान है और सच्छूद्र साधक के लिये अनिरुद्ध से अलग कर प्रद्युम्नान्त व्रत का विधान है ॥ ३१ ॥ सङ्कर्षणादीनां लाञ्छनध्यानप्रकारकथनम् मूर्तीनां ध्यानकाले तु विशेषमवधारय । सङ्कर्षणेऽब्जवद् रम्यां दक्षिणे तु करे गदाम् ॥ ३२ ॥ गृहीतां चिन्तयेन्मध्यादधोवक्त्रेण पाणिना । अङ्गुलिद्वितयेनैव त्वङ्गुष्ठाद्येन लीलया ॥ ३३ ॥ प्राग्वद् वामकरे पद्मं प्रद्युम्नस्य निबोधतु । दक्षिणे हेतिराट् तद्वदङ्गुलिद्वितयोपरि ॥ ३४ ॥ पूर्ववत् कमलं वामे चतुर्थस्याधुनोच्यते । आदिवद् दक्षिणे पद्मं गदा वामे यथोदिता ॥ ३५ ॥ इति प्रथममूर्तीनां ध्यानमुक्तं तु सार्चनम् । नित्यनैमित्तिकार्थं तु निःश्रेयसपदाप्तये ॥ ३६ ॥ पूर्वं वासुदेवलाञ्छनध्यानमात्रस्योक्तत्वादिदानीं सङ्कर्षणादीनां लाञ्छनभेदध्यान- माह—मूर्तीनामित्यारभ्य निःश्रेयसपदाप्तय इत्यन्तम् । अब्जवदित्यनेन पूर्वं वासुदेवस्य दक्षिणकरेऽब्जस्य यादृशः सन्निवेशो यादृशो धारणप्रकारश्चोक्तः, इदानीं सङ्कर्षणस्य दक्षिणे करे गदाया अपि तादृश इति बोध्यते, अधोवक्त्रेण लम्बमानेनेत्यर्थः । अङ्गु- ष्ठाद्येन अङ्गुलीद्वितयेन, तर्जन्यङ्गुष्ठाभ्यामित्यर्थः । प्राग्वदित्यनेन वासुदेवकमलदधो- मुखत्वादिकमुच्यते ॥ ३२-३६ ॥ अब मूर्तियों के ध्यान काल में जो विशेषताएं हैं हे सङ्कर्षण ! उसे आप सुनिये । सङ्कर्षण के दाहिने हाथ में, वासुदेव के दाहिने हाथ में जिस प्रकार कमल का सन्निवेश तथा धारण का प्रकार है, उसी प्रकार सङ्कर्षण के हाथ में गदा है जिसे उन्होंने हाथ को नीचा कर मध्य में ग्रहण किया है । वह बायें हाथ के अंगूठे से लेकर दो अङ्गुलियों में लीलापूर्वक कमल धारण किये हुए हैं इस प्रकार सङ्कर्षण का ध्यान करे ॥ ३२-३४ ॥ अब प्रद्युम्न की विशेषता कहते हैं—दाहिने हाथ में दो अङ्गुलियों पर चक्र धारण किये हुए हैं तथा बायें हाथ में पूर्ववत् कमल धारण किये हुए हैं ऐसे प्रद्युम्न का ध्यान करे । अब चतुर्थ अनिरुद्ध के ध्यान का प्रकार कहते हैं—दक्षिण हाथ में पहले की तरह कमल तथा बायें हाथ से पूर्ववत् गदा धारण किये हुए अनिरुद्ध का ध्यान करे ॥ ३२-३५ ॥
१४४ सात्वतसंहिता इस प्रकार यहाँ पर नित्य एवं नैमित्तिक कार्य के लिये तथा निःश्रेयस प्राप्ति के लिये प्रथम मूर्त्तियों का सार्चन ध्यान कहा गया है ।। ३६ ।। केवलमुमुक्षुभिरनुष्ठेयं व्रते विशेषविधिः भक्तिपूर्वात् तु कैवल्याद् यत्नेनाभ्यर्थयन्ति ये। वर्णा विप्रादयस्तेषां व्रताचरणमुच्यते ॥ ३७ ॥ श्रावणस्य दशम्यां तु सर्वं पूर्वोक्तमाचरेत्। कृत्वा कुशोदकाभ्यङ्गं स्मरन् देवमिदं पठेत् ॥ ३८ ॥ सर्वभूतमयाऽनादे यच्छ मे परमं पदम्। छिन्धि सांसारिकान् बन्धानज्ञानतिमिरं हर ॥ ३९ ॥ ततो ध्यात्वा यजन् देवं चतुर्मूर्तिं तु पूर्ववत्। गौणमुख्यैर्महच्छब्दैर्जिजन्तार्थैः पदैस्ततः ॥ ४० ॥ व्यस्तैस्ततः समस्तैश्चाप्येकैकं पुनरेव हि। वाच्यभेदोक्तियोगेन समस्तेनान्यथात्मना ॥ ४१ ॥ इत्यर्चनं क्रमात् कुर्यान्मूर्तेर्मूर्तेर्महामते। प्रणिपातादिकं सर्वमावर्तव्यं यथास्थितम् ॥ ४२ ॥ तुर्यन्तं मौद्गलान्तैस्तु मोक्षैकफललम्पटैः। विन्यासं लाञ्छनानां तु ग्रहणेनान्वितं शृणु ॥ ४३ ॥ अस्मिन् व्रते चतुर्णां तु देवानां वस्तुसूचनम्। तिर्यक् स्वपक्षदेशाभ्यां स्तनाख्यान्मण्डलाद् बहिः ॥ ४४ ॥ दक्षिणे तु गदाद्यस्य स्पष्टमुष्टिगता भवेत्। वामेन कुक्षिकुहरात् समाक्रान्तश्च शङ्खराट् ॥ ४५ ॥ परिधेर्बाह्यतोऽङ्गुष्ठं निषण्णं सर्वदा स्मरेत्। मुख्यहस्ते द्वितीयस्य ध्येयः शङ्खवरस्तथा ॥ ४६ ॥ चक्रमङ्गुष्ठ ऊर्ध्वस्थं वामहस्ते समुष्टिके। प्रद्युम्नस्य गदा वामे शब्दपूर्णस्तु दक्षिणे ॥ ४७ ॥ दक्षिणे त्वनिरुद्धस्य कमलं सूर्यवर्चसम्। वामतर्जनिगं चक्रं त्रिष्वङ्गुष्ठं स्मरेत् स्थितम् ॥ ४८ ॥ एवं यथास्थिताद् ध्यानात् फलमाप्नोति साधकः। अथ केवलमुमुक्षुभिरनुष्ठेयव्रते कालभेदं संकल्पश्लोकान्तरं लाञ्छनन्यास- ध्यानभेदं चाह—भक्तिपूर्वादित्युपक्रम्य फलमाप्नोति साधक इत्यन्तम्। तुर्यन्तम् अनिरुद्धान्तम्। मौद्गलान्तैः शूद्रान्तैरित्यर्थः। दक्षिणे तु गदाद्यस्येत्यत्र आद्यस्य
सप्तमः परिच्छेदः १४५ वासुदेवस्येत्यर्थः । तिर्यक् स्वपक्षदेशाभ्यां स्तनाख्यान्मण्डलाद् बहिः = पार्श्वद्वयेऽपि वक्षःस्थलाद् बहिरित्यर्थः । तत्सम इति यावत् । मुख्यहस्ते = दक्षिणहस्त इति यावत् । द्वितीयस्य = सङ्कर्षणस्य । तथा = वासुदेवहस्तवदित्यर्थः । शब्दपूर्णः = शङ्खः । त्रिषु = तर्जन्यादिष्वित्यर्थः ॥ ३७-४९ ॥ अब केवल मुमुक्षुओं के अनुष्ठेय व्रत में काल भेद और लाञ्छन (चिह्न) तथा न्यास भेद 'भक्तिपूर्वात्' से आरम्भ कर..........फलमाप्नोति साधकः पर्यन्त श्लोकों से (७.३७-७.४९) कहते हैं—जो ब्राह्मणादि वर्ण भक्तिपूर्वक कैवल्य से यत्न द्वारा भगवान् की प्रार्थना करते हैं अब उनके लिये विशेष रूप से व्रताचरण का प्रकार कहते हैं ॥ ३७ ॥ श्रावण की दशमी को पूर्वोक्त सभी विधि सम्पादन करे । फिर कुशोदक का अभ्यङ्ग (प्रोक्षण) कर भगवान् का स्मरण करते हुए 'सर्वभूतमयाऽनादे ...... तिमिरं हर' इस श्लोक से प्रार्थना करे ॥ ३८-३९ ॥ इस प्रकार प्रार्थना के बाद ध्यान करते हुए पूर्ववत् चतुर्मूर्त्ति देव का यजन करते हुए गौण एवं मुख्य महत्त्व वाले जितन्तादि पदों से, पहले व्यस्त (= अलग-अलग), इसके बाद संक्षेप में (एक-एक समस्त श्लोकों को वाच्य भेदोक्ति के योग से अथवा एक-एक श्लोकों से) हे महामते ! मूर्त्ति की अर्चना करे । प्रणिपातादि सभी कार्य पहले की तरह आवर्त्तन करे ॥ ४०-४२ ॥ अब मोक्षमात्र के फल की इच्छा रखने वाले शूद्रान्त सभी वर्णों को लाञ्छन अनिरुद्धान्त सहित विन्यास जिस प्रकार करना चाहिये, उसे सुनिये ॥ ४०-४३ ॥ भगवान् वासुदेव के (तिर्यक् स्तनाख्यान् मण्डलात् बहिः) वक्षःस्थल के समान दाहिने हाथ की मुठ्ठी में गदा तथा कुक्षिकुहर से बाहर बायें हाथ से समाक्रान्त अँगूठे पर स्थित पाञ्चजन्य का स्मरण करे । इसके बाद द्वितीय सङ्कर्षण के दाहिने हाथ में स्थित श्रेष्ठ शंख का ध्यान करे और मुष्टी सहित बायें हाथ के अँगूठे के ऊपर स्थित चक्र का ध्यान करे । इसी प्रकार प्रद्युम्न के बायीं ओर गदा तथा दक्षिण शब्द पूर्ण शङ्ख का स्मरण करे ॥ ४४-४७ ॥ अनिरुद्ध के दाहिने हाथ में सूर्य के समान तेजस्वी कमल तथा बायें हाथ की तर्जनी, मध्यमा एवं अङ्गुष्ठ इन तीन अङ्गुलियों पर स्थित चक्र का ध्यान करना चाहिए ॥ ४८-४९ ॥ निष्कामैः सकामैश्च देयानि द्रव्याणि सक्षीरमन्नपात्रं तु विहितं मासि मासि च ॥ ४९ ॥ दानार्थं व्रतपर्यन्ते हेमरत्नतिलान्वितम् । निष्कामव्रतिनां नित्यमन्ते गोदानमेव च ॥ ५० ॥
१४६ सात्वतसंहिता निष्कामानां व्रते प्रतिमासं कर्तव्यदानद्रव्यं संवत्सरान्ते देयद्रव्याणि चाह-- सक्षीरमिति सार्धेन ॥ ४९-५० ॥ इस प्रकार ऊपर कहे गये के अनुसार चातुरात्म्य स्वरूप का ध्यान करने से साधक फल प्राप्त करता है। कामनारहित व्रत करने वालों के लिये प्रतिमास तथा संवत्सरान्त देय द्रव्य कहते हैं—निष्काम व्रती मास-मास में दूध सहित अन्न पात्र दान देवे तथा व्रत के अन्त में तिल के सहित सुवर्ण एवं रत्न देवे और गोदान करे ॥ ४९-५० ॥ प्रतिमासं सकामानां दधिपात्रं च सोदनम् । फलानि हेमयुक्तानि त्वन्ते भूदानमेव च ॥ ५१ ॥ तिलान्युदककुम्भं च पत्रपुष्पादिनार्चनम् । यथाशक्ति दरिद्राणां हिरण्यं गोसमं स्मृतम् ॥ ५२ ॥ तथा सकामानां देयद्रव्याण्याह—प्रतिमासमिति सार्धेन । अशक्तानां तु गोदान- भूदानप्रत्याम्नायत्वेन यथाशक्ति हिरण्यदानमाह—दरिद्राणामित्यर्धेन । गोसममित्यत्र गोशब्देन भूमिरप्युच्यते ॥ ५१-५२ ॥ सकाम व्रत करने वाले साधक प्रतिमास ओदन सहित दधिपात्र देवें एवं सुवर्णयुक्त फल देवें। अन्त में भूदान करें ॥ ५१ ॥ साधनहीन दरिद्र यथाशक्ति पत्रपुष्पादि से ही अर्चन करें। वह तिल एवं उदक सहित कुम्भ देवे, उसके लिये हिरण्य ही भूदान के समान है ॥ ५२ ॥ दानेऽर्चने तु शूद्राणां व्रतकर्मणि सर्वदा । असिद्धान्नं तु विहितं सिद्धं वा ब्राह्मणेच्छया ॥ ५३ ॥ शूद्रैस्तु व्रतान्तेऽपक्वान्नं देयम्, सत्यां ब्राह्मणानुज्ञायां पक्वान्नं वा देयमित्याह— दान इति । "आर्याध्युषिताः शूद्राः कुर्युः" (आ० ध० २।३।४) इति ब्राह्मणानुज्ञया शूद्राणामपि पाकाधिकारविधानात् सिद्धं वा ब्राह्मणेच्छयेत्युक्तमविरुद्धं ज्ञेयम् । एवं स्वस्ववर्णाश्रमधर्माविरुद्धमेवाराधनं कार्यमित्यर्थः ॥ ५३ ॥ शूद्रों के लिये व्रत कर्म में दान और अर्चन के विषय में असिद्ध अन्न का विधान कहा गया है, अथवा ब्राह्मण की इच्छानुसार सिद्ध (पके हुए) अन्न का दान भी किया जा सकता है ॥ ५३ ॥ स्वकर्मणा यथोत्कर्षमभ्येति न तथार्चनात् । तस्मात् स्वेनाधिकारेण कुर्यादाराधनं सदा ॥ ५४ ॥ सहेतुकमाह—स्वकर्मणेति ॥ ५४ ॥ शूद्र भगवान् के पूजन से उतना उत्कर्ष नहीं प्राप्त करता है जितना अपने
कर्म से वह उत्कर्ष प्राप्त करता है । इसलिये अपने अधिकार में रह कर वह सर्वदा भगवदाराधन करे ॥ ५४ ॥ सर्वत्राधिकृतो विप्रो वासुदेवादिपूजने । यथा तथा न क्षत्राद्यास्तस्माच्छास्त्रोक्तमाचरेत् ॥ ५५ ॥ भगवदाराधने ब्राह्मणवत् (न) क्षत्रियादीनामपि सर्वत्राधिकारोऽस्ति, अतो यथाधिकारमनुष्ठेयमित्याह—सर्वत्रेति ॥ ५५ ॥ वासुदेव के पूजन में सर्वत्र ब्राह्मण का जैसा अधिकार है, वैसा अधिकार क्षत्रियादि वर्णों का नहीं है । इसलिये शास्त्रोक्त वचन का पालन करे ॥ ५५ ॥ नयेन्नक्ताशनैर्भक्त्या दिनान्येतानि मौद्गलः । व्रताद्यन्ते तु विहितं परिपीडं हि तस्य वै ॥ ५६ ॥ शूद्रस्य प्रतिपक्षमेकादश्यां नक्ताशनम्, व्रताद्यन्तैकादश्योरेवोपवास इत्याह— नयेदिति ॥ ५६ ॥ शूद्र प्रतिपक्ष की एकादशी के दिन रात्रि में भोजन करे और भक्तिभावपूर्वक दिन बितावे । व्रत के अन्त में उसे उपवास न करने का विधान है ॥ ५६ ॥ द्वादशवार्षिकव्रतविधानम् यथाभिमतमासाद् वै समारभ्य क्रमेण तु । इतिकर्त्तव्यतासक्तैर्मोक्षकामैस्तु चाग्रजैः ॥ ५७ ॥ दशम्यां चैव सङ्कल्पः कार्यो द्वादशवार्षिकः । प्राग्वदब्दं तु सम्पूर्य दानेर्मासानुमासिकैः ॥ ५८ ॥ व्रतेश्वरं जगन्नाथं प्रीणयेद् वत्सरे गते । पुनरारम्भमासाच्च त्वग्र्यमासस्य तद्दिनात् ॥ ५९ ॥ आरभ्य वत्सरं प्राग्वत् पूजयेत् प्रीणयेत् प्रभुम् । क्रमेणानेन सम्पाद्य द्वादशाब्दं व्रतं महत् ॥ ६० ॥ तदन्ते तु यथाशक्त्या दानेर्वस्त्रानुलेपनैः । द्विषट्कं ब्राह्मणानां तु यष्टव्यमधिकारिणा ॥ ६१ ॥ अथ ब्राह्मणस्य द्वादशवार्षिकं व्रतान्तरमाह—यथाभिमतमासादित्यारभ्य यष्टव्य- मधिकारिणेत्यन्तम् । पूर्वोक्तैरित्यर्थः । पूर्वं प्रतिमासं यद्दानं विहितं तदत्र प्रतिसंवत्सरं कार्यम् । संवत्सरान्तविहितदानं त्वत्र द्वादशवर्षान्ते कार्यमित्यर्थः ॥ ५७-६१ ॥ इतिकर्त्तव्यता में सम एवं मोक्ष की कामना वाला ब्राह्मण यथाभिमत मास से व्रत आरम्भ करे । यथाभिमत मास पक्ष में दशमी तिथि को द्वादश वार्षिक व्रत का
१४८ सात्वतसंहिता संकल्प लेवे। फिर प्रतिमाह दानादि द्वारा १२ संवत्सर पूर्ण कर उसके अन्त में व्रतेश्वर जगन्नाथ को प्रसन्न करे। फिर पुनः व्रतारम्भ कर संवत्सर के अन्त में व्रतेश्वर भगवान् विष्णु को प्रसन्न करे। इस प्रकार अग्रिम मास की दशमी से लेकर अन्तिम (एकादशी) तक व्रत की समाप्ति में भगवान् का पूजन करते हुए क्रमशः १२ वर्ष व्यतीत करे ॥ ५७-६० ॥ व्रत के अन्त में वह अधिकारी ब्राह्मण दान एवं वस्त्र और अनुलेपन से बारह ब्राह्मणों का यजन करे (संवत्सरान्त विहित दान धर्म बारह वत्सरान्त में करे) ॥ ६१ ॥ स्वमूर्त्याराधनाद्येन कर्मणा ह्येतदेव हि । कार्यं व्रतमिदं भक्त्या ज्येष्ठाद्यं क्षत्रियेण तु ॥ ६२ ॥ वैश्येनाश्वयुजादादावाचर्तव्यं समासतः । मौद्गलेन तु माघाद्यं पालनीयं यथाक्रमम् ॥ ६३ ॥ इदं व्रतोत्तमं दिव्यमपवर्गफलप्रदम् । विहितं सर्ववर्णानामविरुद्धं च सर्वदा ॥ ६४ ॥ चान्द्रायणायुतसमं सा सृष्टेः कल्मषापहम् । अस्य व्रतस्य क्षत्रियादीनामपि कालभेदेनानुष्ठानमाह—स्वमूर्तीति त्रिभिः । स्व- मूर्त्याराधनाद्येन स्वस्ववर्णोक्तसङ्कर्षणादिक्रमेणेत्यर्थः ॥ ६२-६४ ॥ इस प्रकार यही व्रत स्व स्व वर्णोक्त सङ्कर्षणादि क्रम से क्षत्रियादिक भी काल भेद से भक्तिभाव पूर्वक करे । ब्राह्मण के लिये विधान पहले कह आये हैं और क्षत्रिय ज्येष्ठ मास से व्रतारम्भ करे ॥ ६२ ॥ वैश्य आश्विन आदि मास के आदि में संक्षेप में अर्चना कर व्रतारम्भ करे और शूद्र माघ के आदि से यथाक्रम इस व्रत का आरम्भ नियम कर पालन करे । यह व्रतोत्तम दिव्य है और मोक्ष रूप फल देने वाला है । अतः यह व्रत सब वर्णों के लिये विहित है । किसी के लिये भी विरुद्ध नहीं है । यह व्रत अयुत चन्द्रायण व्रत के समान फलदायी है और सृष्टि के समस्त लोगों का कल्मष दूर करने वाला है ॥ ६३-६५ ॥ व्रतान्तरकथनम् वक्ष्ये व्रतवरं चान्यत् कर्तव्यत्वेन कर्मिणाम् ॥ ६५ ॥ मोक्षैकफलकामानामन्येषां भावितात्मनाम् । मोक्षदं देहपाताद् यच्चातुरात्म्यैकयाजिनाम् ॥ ६६ ॥ यथाभिमतमासस्य दशम्यां पातयेज्जलम् ।
सप्तमः परिच्छेदः १४९ नत्वा व्रतेश्वरं प्राग्वद् वत्सरद्वितयस्य च ॥ ६७ ॥ विशेषाच्छावणे कुर्यात् सङ्कल्पं कार्तिकेऽपि च । आरम्भमासादारभ्य निष्ठाख्यं यावदेव हि ॥ ६८ ॥ द्विषट्कमुपवासानामेकवृद्ध्या तु वर्धयेत् । होमान्तमर्चनं कृत्वा पूर्ववत् तन्मयान् यजेत् ॥ ६९ ॥ ततस्तु परिपीडानां वत्सरं ह्रासमाचरेत् । कार्यमारम्भमासे तु पूर्वं द्वादशरात्रिकम् ॥ ७० ॥ एकैकं लोपयेत् तावद् यावदब्दः समाप्यते । कुर्याद् व्रतसमाप्तिं तु पूर्ववत् पूजनादिना ॥ ७१ ॥ वृद्धिह्रासक्रमेणैतद् व्रतमुक्तं मया च ते । अनायासेन वै येन प्राप्यते शाश्वतं पदम् ॥ ७२ ॥ अथ संवत्सरद्वयानुष्ठेयमुपवासवृद्धिह्रासान्वितं व्रतान्तरमाह—चान्द्रायणायुत- सममित्यारभ्य प्राप्यते शाश्वतं पदमित्यन्तम् ॥ ६५-७२ ॥ अब दो संवत्सर तक अनुष्ठेय उपवास की वृद्धि तथा ह्रास क्रम से समन्वित अन्य व्रत कहता हूँ—यह व्रत एक मात्र मोक्ष की कामना करने वाले सांसारिक जनों के लिये है। यह व्रत एक मात्र चातुरात्मक का यजन करने वालों के लिये देह पात के अनन्तर मोक्ष देने वाला कहा गया है ॥ ६५-६६ ॥ साधक व्रतेश्वर को नमस्कार कर दो संवत्सर पर्यन्त व्रत के लिये अपने अभीष्ट मास की दशमी तिथि को संकल्प लेवे । विशेष रूप से श्रावण मास में अथवा कार्त्तिक मास में व्रत का संकल्प लेना अच्छा है । आरम्भ मास से अन्तिम मास तक के लिये संकल्प लेना चाहिये । १२ मास तक उपवास में एक-एक उपवास के बढ़ाने का क्रम रखे तथा १२ मास तक एक-एक उपवास के ह्रास का क्रम करे । आरम्भ मास में १२ पूर्ववत् उपवास करे । तदनन्तर एक-एक उपवास का लोप करे । फिर व्रत समाप्ति में पूर्ववत् पूजनादि क्रिया करे । हे सङ्कर्षण! इस प्रकार वृद्धि एवं ह्रास के क्रम वाला यह व्रत मैंने आपसे कहा है जिससे अनायास शाश्वत फल की प्राप्ति होती है ॥ ६७-७२ ॥ द्वादशाख्यव्रतविधानम् व्रतानामुत्तमं धन्यं द्वादशाख्यमतः शृणु । अकामानां सकामानान्ते तुल्यफलं हि यत् ॥ ७३ ॥ सितपक्षात् तु चैत्रस्य कार्याऽऽद्येऽहनि कल्पना । गतेऽर्धरात्रसमये चा प्रभातात् ततोऽच्युतम् ॥ ७४ ॥
१५० सात्वतसंहिता उपवासं विनाऽभ्यर्च्य कार्यं वै नक्तभोजनम् । एकादश्यन्तमेवं हि पौनःपुन्येन लाङ्गलिन् ॥ ७५ ॥ कार्यमप्यययुक्ता वै चातुरात्म्यस्य पूजनम् । एकादश्यां न भुञ्जीत विहितस्तत्र जागरः ॥ ७६ ॥ द्वादश्यामादिदेवं तु समाराध्य यथाविधि । मध्याह्नसमये प्राप्ते विधिवत् तन्मयान् यजेत् ॥ ७७ ॥ भक्त्या शक्त्या तु चतुर एकैकं प्रत्यहं त्वपि । गवां ग्रासः स्वसामर्थ्याल्लोपनीयो न सर्वदा ॥ ७८ ॥ सह पूर्वोक्तदानैस्तु व्रतकर्मपरायणैः । प्राप्ते तु तद्दिने भूयः कृष्णपक्षस्य लाङ्गलिन् ॥ ७९ ॥ अर्चनं केशवादीनां त्रिसन्ध्यं प्राग्वदाचरेत् । द्वादश्यां सोपवासस्तु यजेद् दामोदरं प्रभुम् ॥ ८० ॥ दानान्तमर्चनाद्यं तु सितपक्षोक्तमाचरेत् । प्राभवेण क्रमेणैव चैवं मूर्त्यन्तरं यजेत् ॥ ८१ ॥ मूर्तिभिश्चाप्ययाख्येन संवत्सरमतन्द्रितः । यो योऽधिकारी भक्तो वा तस्य तुष्यत्यधोक्षजः ॥ ८२ ॥ अथ द्वादशाख्यव्रतमाह—'व्रतानामुत्तमं धन्यमित्यारभ्य तस्य 'तुष्यत्यधोक्षजः' इत्यन्तम् । आद्येऽहनि = प्रतिपदि । कल्पना = संकल्पः । द्वादश्यामादिदेवं = वासु- देवमित्यर्थः । एवं च चैत्रशुक्लप्रतिपद्मारभ्य तद्द्वादश्यन्तं पुरुषसत्याच्युतवासुदेवा- नामेव पुनस्तेषामेव प्रत्यहमेकैकक्रमेणार्चनं कुर्वन् कृष्णप्रतिपद्मारभ्य तद्द्वादश्यन्तं तथा केशवादिमूर्तीनामर्चनं च कुर्यात् । पक्षद्वयेऽप्येकादश्यामुपवासो जागरश्च । अव- शिष्टदिनेषु नक्तभोजनम् । मध्याह्नसमये ब्राह्मणभोजनम्, तदशक्तौ गोग्रासकल्पनं वा, प्रतिपक्षं पूर्वोक्तदानं च कार्यम् ॥ ७३-८२ ॥ अब द्वादशाख्य व्रत कहते हैं—हे सङ्कर्षण! अब सभी व्रतों में उत्तम द्वादशाख्य व्रत सुनिए, यह व्रत अकाम तथा सकाम कर्म करने वाले भक्तजनों को अन्त में समान फल प्रदान करने वाला है ॥ ७३ ॥ इस व्रत का चैत्रमास के शुक्लपक्ष में प्रतिपदा के दिन संकल्प लेना चाहिये । फिर अर्धरात्रि के समय से प्रभात पर्यन्त अच्युत की पूजा करे ॥ ७४ ॥ उस दिन उपवास के बिना सायङ्काल में भोजन करे । इस प्रकार चैत्र शुक्ल प्रतिपदा से आरम्भ कर तद् द्वादशी पर्यन्त पुरुष, सत्य, अच्युत, वासुदेव का एवं पुनः उन्हीं में से एक-एक का पुनः प्रतिदिन अर्चन करे । फिर कृष्ण प्रतिपदा से आरम्भ कर तद् द्वादशी पर्यन्त केशवादि द्वादश मूर्तियों का अर्चन करे । इस
प्रकार दोनों पक्षों में एकादशी के दिन उपवास और जागरण करे । अवशिष्ट दिनों में रात्रि को भोजन तथा मध्याह्न समय में चार या एक ब्राह्मण भोजन कराए । अशक्त होने पर मात्र गो ग्रास का दान करे और प्रतिपक्ष में पूर्वोक्तदान करना चाहिये । इस प्रकार संवत्सर पर्यन्त संहार क्रम से इन मूर्त्तियों की पूजा करने से उस अधिकारी भक्त पर भगवान् अधोक्षज प्रसन्न हो जाते हैं ॥ ७५-८२ ॥ षोडशाख्यव्रतनिरूपणम् षोडशाख्यमतो वक्ष्ये व्रतं धन्यतमं हि यत् । पूर्ववद् रात्रिसमय आषाढस्याद्यवासरे ॥ ८३ ॥ गृहीत्वा नियमं कुर्यादा प्रभातादिपूजनम् । त्रिसन्ध्यं वामनादीनां विधिवद् द्वादशाहकम् ॥ ८४ ॥ त्रयोदश्यां ततोऽभ्यर्च्य चतुर्वर्गप्रदं प्रभुम् । आद्यन्तमनिरुद्धादि तदाद्यमपरेऽहनि ॥ ८५ ॥ तृतीयं पञ्चदश्यां तु संशान्तव्यक्तलक्षणम् । एवं मूर्त्यन्तरेर्युक्तं चातुरात्म्यं त्रिधा स्थितम् ॥ ८६ ॥ आराध्य परया भक्त्या चैकादश्यामनश्नतः । पूर्णं तदर्चनं कृत्वा पञ्चदश्यां यथाविधि ॥ ८७ ॥ चत्वारस्तन्मयाः पूज्याः श्रद्धापूतेन चेतसा । आत्मयागं ततः कुर्याद् दिनान्तेऽर्चनपूर्वकम् ॥ ८८ ॥ एवमाश्वयुजे भूयः पर्वादौ प्रारभेत् क्रियाम् । पद्मनाभादिमूर्तीनामर्चनं विहितं क्रमात् ॥ ८९ ॥ एकादश्यामनश्नंस्तु सर्वं निर्वर्त्य पूर्ववत् । सम्प्राप्ते च ततः पौषे यजेन्नारायणादिकम् ॥ ९० ॥ द्वादश्यां तद् द्विषट्कं च तथा व्यूहत्रयं त्वपि । चैत्रे तद्दिवसादादौ विष्ण्वादीनां समर्चनम् ॥ ९१ ॥ विहितं सद्ब्रतज्ञानां सह व्यूहत्रयेण तु । विशेषपूजनं कुर्यात् सम्पन्ने वत्सरे सति ॥ ९२ ॥ विभोरग्रे द्विजेन्द्राणां षोडशानां स्वशक्तितः । अथ व्रतान्तरमाह—'षोडशाख्यमि'ति प्रक्रम्य 'षोडशानां स्वशक्तितः' इत्य- न्तम् । अत्र केशवादयो द्वादश वासुदेवादयश्चत्वारः, आहत्य षोडशमूर्तयः । एतेषां षोडशानामुक्तक्रमेणार्चनादिकं षोडशाख्यव्रतमित्युच्यते । यद्वा आषाढादिमासचतुष्टये प्रतिमासं वासुदेवादीनां चतुर्णामर्चनात् षोडशाख्यमिति ज्ञेयम् । आषाढे वामनादीनाम्,
१५२ सात्वतसंहिता आश्वयुजे पद्मनाभादीनाम्, पुष्ये नारायणादीनाम्, चैत्रे विष्ण्वादीनां चार्चनं तत्तन्मासे तत्तन्मासाधिपतिमारभ्यार्चनीयत्वादुक्तमिति ज्ञेयम् । केशवादीनां मार्गशीर्षाद्याधिपत्यं प्रसिद्धं खलु । आद्यन्तमनिरुद्धादि पुरुषादिवासुदेवान्तमित्यर्थः । अपरेऽहनि = चतुर्दश्यां तदाद्यं वासुदेवाद्यं स्वप्नव्यूहमिति भावः । पञ्चदश्यां पौर्णमास्यां संशान्त- व्यक्तलक्षणम् = अभिव्यक्तानभिव्यक्तमित्यर्थः । तृतीयं = सुषुप्तिव्यूहमित्यर्थः । चातुरात्म्यं त्रिधा स्थितं जाग्रत्स्वप्नसुषुप्तिभेदेन त्रिविधमित्यर्थः ॥ ८३-९३ ॥ हे सङ्कर्षण! अब षोडशाख्य व्रत (केशवादि द्वादश एवं वासुदेवादि चार अर्थात् कुल योग १६—इनका उच्च क्रम से अर्चन षोडशाख्य व्रत कहा जाता है) कहता हूँ, जो अत्यन्त धन्य व्रत है । पूर्ववत् आषाढ के पहले दिन रात्रि के समय नियम ग्रहण कर प्रभात पर्यन्त पूजन करे और तीनों संध्याओं में वामनादि द्वादश मूर्तियों का पूजन करे ॥ ८३-८४ ॥ फिर त्रयोदशी में धर्मादि चतुर्वर्ग को प्रदान करने वाले प्रभु का पूजन करे । उसके दूसरे दिन चतुर्दशी को आद्यन्त में अनिरुद्धादि तथा पुरुषादि वासुदेवान्त व्यूह का पूजन करे । पूर्णमासी को तृतीय संशान्त (अभिव्यक्त एवं अनभिव्यक्त) विग्रह लक्षण प्रभु का पूजन करे ॥ ८५-८६ ॥ इस प्रकार मूर्त्यन्तर से संयुक्त तीन प्रकार के चातुरात्म्य का एकादशी को बिना भोजन किये परा भक्ति से आराधन करे । इस प्रकार पूर्णमासी को यथाविधि पूर्ण रूप से अर्चन कर श्रद्धापूर्वक पवित्र चित्त से चार विष्णु भक्तों का पूजन करे । तदनन्तर दिन के अन्त में स्वयं आत्मयाग कर भोजन करे ॥ ८६-८८ ॥ इस प्रकार आश्विन मास में पर्वादिक दिनों में इस क्रिया को प्रारम्भ करे । इस मास में पद्मनाभादि विभवावतारों के अर्चन का क्रमशः विधान है ॥ ८९ ॥ सभी पूजनादिक कर्म पूर्ववत् सम्पादन कर साधक एकादशी को भोजन करे और पौष मास प्राप्त होने पर नारायणादि का यजन करे ॥ ९० ॥ द्वादशी के दिन केशवादि बारह मूर्तियों की तथा व्यूहत्रय की पूजा करे । चैत्र में तद्दिवस के (द्वादशी के) आदि से व्यूहत्रय के साथ व्रत करने वाले को व्यूहत्रय के साथ समर्चन विहित है, फिर संवत्सर पूरा होने पर विशेष पूजन करना चाहिए ॥ ९१-९२ ॥ व्रतनिष्ठानां भोज्यद्रव्याणि दत्तशिष्टमतृप्तं च दैवीयान्नेन भावितम् ॥ ९३ ॥ हविश्शेषेण संयुक्तं व्रतिनां भोजनं हितम् । अथैवं व्रतनिष्ठानां भोज्यद्रव्यमाह—दत्तशिष्टमिति । अयं श्लोकः सच्चरित्र- रक्षायां व्याख्यातः । तथाहि—"दत्तशिष्टं कारिसम्प्रदानावशिष्टम् । देवीयान्नेन पाकपात्रावशिष्टेन हविःशेषेण चरुशेषेण व्रतिनां भगवद्रूपनिष्ठानां सर्वेषां हितम्
सप्तमः परिच्छेदः १५३ अनिष्टनिवर्तकत्वादिष्टप्रापकत्वाच्चावश्यं भोक्तव्यमित्यर्थः । अत्र भोजनमिति कर्मणि ल्युडन्तम्'' (पृ० ९४-९५) इति ॥ ९३-९४ ॥ उस दिन भगवान् के समक्ष सोलह संख्यक द्विजेन्द्रों को अपनी शक्ति के अनुसार कारिसम्प्रदान से अवशिष्ट तथा पाकपात्र में बचे हुए चरु विशेष से भोजन करावे । यह विशेष व्रत करने वाले को अनिष्ट निवर्त्तक तथा इष्ट का प्रापक कर्म है ॥ ९३-९४ ॥ व्रतान्तरकथनम् एवं सितेऽसिते वापि ह्युभयोरपि पक्षयोः ॥ ९४ ॥ यथाभिमतमासाद् वै समारभ्य यजेत् क्रमात् । एकादश च मासेशान् पर्वादी तु सकृत् सकृत् ॥ ९५ ॥ द्वादश्यां सोपवासस्तु तन्मासेशमथार्चयेत् । तत्कारणादिभेदोत्थं चातुरात्म्येन वै सह ॥ ९६ ॥ पुण्यं व्रतमिदं विद्धि वृद्धस्त्रीबालसिद्धिकृत् । नित्यं सद्द्वैष्णवैः कार्यमविरुद्धमखेददम् ॥ ९७ ॥ प्राक्प्रणीतैर्महाभोगैः शक्त्या दानसमन्वितैः । गृहस्थैर्ब्रह्मचर्यस्थैर्वानप्रस्थैस्तु भिक्षुकैः ॥ ९८ ॥ येन केन प्रकारेण वित्तं सम्भृत्य वै पुरा । पुनर्ब्रतान्तरमाह—एवं सितेऽसिते वापीति प्रक्रम्य भैक्षपूर्वेण सर्वदेत्यन्तम् । अस्यार्थः—यथाभिमतमासे शुक्लपक्षे कृष्णपक्षे वोभयोर्वा प्रतिपद्मारभ्यैकादश्यन्तं तन्मासेशस्योत्तरादिनैकादशमासेशान् प्रत्यहमेकैकक्रमेणाभ्यर्च्यैकादश्यां कृतोपवा- (सम्?सो) द्वादश्यं तन्मासेशम्, तत्कारणभूतो वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धो वा यस्तदादिचातुरात्म्यं च सम्पूज्य दानादिकं कुर्यात् । एवं चेदं सुस्पष्टं बोध्यम्—चैत्रमासे यदि व्रतमनुष्ठीयते तन्मासेशो विष्णुः, तदुत्तरं मधुसूदनादयो वैशाखाद्येकादशमासेशाः प्रतिपदादिष्वर्चनीयाः । तन्मासेशो विष्णुः, तत्कारणभूतसङ्कर्षणादिवासुदेवान्ताश्चत्वा- रश्च द्वादश्यामर्चनीयाः । एवमन्यत्रापि ज्ञेयम् । केशवादीनां त्रिकं त्रिकं प्रति वासुदेवा- दीनामेकैकस्य कारणत्वमुत्तरत्र (८।५५-५६) सुस्पष्टं वक्ष्यति ॥ ९४-९९ ॥ अब पुनः अन्य व्रत कहते हैं—शुक्लपक्षं तथा कृष्णपक्ष अथवा उभय पक्ष में जो मास अभीष्ट हो उससे प्रतिपदा से आरम्भ करे । पर्व के आदि में एक-एक के क्रम से ११ मासेशों का यजन करे । इन मासेशों का अर्चन द्वादशी में उपवास करते हुए करे क्योंकि उन-उन मासों के वही कारणभूत देवता हैं ॥ ९४-९६ ॥ यह व्रत महापुण्यप्रद है । वृद्ध, स्त्री तथा बालकों को सिद्धि देने वाला है । अतः सद् वैष्णवों को यह व्रत अवश्य करना चाहिये क्योंकि यह कल्याण करने वाला है तथा दुःख दारिद्र्य को नष्ट करने वाला है ॥ ९७ ॥ सा० सं० - 14
१५४ सात्वतसंहिता पहले जिन्होंने इस व्रत का सम्पादन किया है ऐसे महाभागों को, शक्ति के अनुसार दान देने वालों को, गृहस्थ, ब्रह्मचारी एवं वानप्रस्थ भिक्षुकों को भी जैसे- तैसे धन एकत्रित कर इस व्रत का यजन करना चाहिये ॥ ९८ ॥ नित्यं धर्माविरुद्धेन भैक्षपूर्वेण सर्वदा ॥ ९९ ॥ कुटुम्बभरणाद्यर्थं लाभे भैक्षादिके तु वै । अवज्ञा परमा यत्र बुद्धिमांस्तत्र संवसेत् ॥ १०० ॥ अथ प्रसक्तं भैक्षादिद्रव्यविचारं विवृण्वन् तल्लाभे प्रतिग्रहीतुर्यत्र बहुशोऽवमानं जायते, तत्रैव बुद्धिमता प्रतिग्रहीत्रा वस्तव्यमित्याह—कुटुम्बेति । भैक्षं = याचितम् । "भिक्षा याच्ञार्थनार्दना" (३।२।६) इत्यमरः । अवज्ञा = अवमाननम् । 'रीढाव- माननावज्ञा" (१।७।२३) इत्यमरः ॥ १०० ॥ दाता ददाति यत् किञ्चित् पूजापूर्वं हि भक्तितः । कृत्स्नं तदीयमशुभं तिष्ठत्यर्थिजनाश्रितम् ॥ १०१ ॥ यतः संमानं प्रतिग्रहीतुरेव बाधकमित्याह—दातेति ॥ १०१ ॥ परिभूते तु वै लाभे सन्तोषो यस्य जायते । प्रतिग्रहोत्थितो दोषस्तस्य दूरतरं व्रजेत् ॥ १०२ ॥ एवं ज्ञात्वा तु पात्राणां भक्तानां भावितात्मनाम् । जनयेद् बुद्धिभेदं तु नेतरेषां कदाचन ॥ १०३ ॥ अतोऽनादरपूर्वकं दत्तेऽपि यः प्रतिग्रहीता सन्तुष्टो भवति, स प्रतिग्रहो दोषेण विलुप्तो भवतीत्याह—परिभूत इति । लाभे भैक्षादिद्रव्यलाभे । परिभूते तिरस्कृते, अनादरपूर्वकं दत्ते सतीति भावः । 'अनादरः परिभवः" (१।७।२२) इत्यमरः । एवं च आदरपूर्वकं दानं दातुः श्रेयःसम्पादकमिति ज्ञात्वादरपूर्वकमनिच्छतां पात्राणां सविनयप्रार्थनादिभिस्तदङ्गीकाराय बुद्धिं जनयेत् । अपात्राणां तां न जनयेदित्याह— एवमिति ॥ १०२-१०३ ॥ भिक्षुक धर्माविरुद्ध भिक्षा एकत्रित कर यजन करे । गृहस्थ कुटुम्ब के भरण के लिये प्राप्त भिक्षादिक से यजन करे । बुद्धिमान् भिक्षुक जहाँ अत्यन्त अवज्ञा होती हो वहीं निवास कर अपमानित होकर भी भिक्षा प्राप्त करे । जो दाता पूजा कर भक्ति से जो कुछ भी दे देता है उस अन्न में उसका समस्त पाप भिक्षुक के पास चला जाता है । किन्तु जिसे अपमानित कर लोग भिक्षा देते हैं और परिभूत होकर भी भिक्षा लाभ में जिसे सन्तोष है उससे प्रतिग्रह का दोष बहुत दूर भाग जाता है ॥ ९९-१०२ ॥ ऐसा समझ कर कल्याण चाहने वाले भगवद् भक्त साधकों को इस प्रकार की बुद्धिभेद एवं विनयपूर्वक दी गई भिक्षा अङ्गीकार के लिये उपदेश करे । अपात्र भगवद् भक्तों को कदापि इस प्रकार का उपदेश न करे ॥ १०३ ॥
सप्तमः परिच्छेदः १५५ यत्र दाता ग्रहीता च द्वावेव कलुषात्मकौ। दृष्टादृष्टविनाशार्थं दानं द्वाभ्यां हतं तु तत् ॥ १०४ ॥ दातृप्रतिग्रहीत्रोरुभयोरपि कलुषात्मकत्वे दानवैफल्यमाह—यत्रेति ॥ १०४ ॥ जहाँ दाता और प्रतिगृहीता दोनों ही पापी हैं, दृष्टादृष्ट के विनाश के लिये ऐसा दानी तथा प्रतिग्राही दोनों ही हत हैं (विफल हैं) ॥ १०४ ॥ प्रागेवं चित्तसंशुद्धिं भावशुद्धिसमन्विताम्। निश्चयीकृत्य यत्नेन दिव्यमायतनं व्रजेत् ॥ १०५ ॥ व्रतसंसिद्धये नूनं सिद्धायतनमेव वा। अथवाऽऽयतनं रम्यमासन्ननगरादिकम् ॥ १०६ ॥ निर्विघ्नेन व्रतं यस्मान्निष्पद्येतात्र कर्मिणाम्। कर्मवाङ्मनसैः शुद्धस्तपोनिष्ठः क्रियापरः ॥ १०७ ॥ यो नान्यदेवतायाजी तत्वतो भगवन्मयः। कस्मिंश्चिद् वैभवे रूपे व्यूहीये वा सुबुद्धिमान् ॥ १०८ ॥ बद्धलक्ष्यो भवेद् भक्त्या त्वाप्तागमनिदर्शनात्। एवं भावशुद्धिसम्पादितां चित्तशुद्धिं पूर्वं निश्चित्य व्रतानुष्ठानार्थं सैद्धमानुषस्थाने- ष्वन्यतमं गत्वा तत्र विभवाकृतौ व्यूहाकृतौ वा भगवति व्रतान्तं न्यस्तचित्तो भवे- दित्याह—प्रागेवमिति सार्धैश्चतुर्भिः । दिव्यं = स्वयंव्यक्तमित्यर्थः ॥ १०५-१०९ ॥ अब चित्तशुद्धि सम्पादन कर व्रतानुष्ठान के लिये सिद्ध मानुषादि स्थानों में तथा वैष्णवायतनों में जाने को कहते हैं—पहले व्रत की सिद्धि के लिये प्रयत्नपूर्वक भावशुद्धि समन्वित चित्त की शुद्धि का निश्चय कर दिव्य आयतन, सिद्ध आयतन, अथवा किसी भी आयतन में जावे जो किसी रम्य नगर के सन्निकट हो । वह ऐसे स्थान पर जाए जिससे यज्ञ सम्पादन करने वाले कर्मी का निर्विघ्न यज्ञ सम्पन्न हो जावे । यज्ञ का सम्पादन करने वाला कर्मी कर्म, वाणी और मन से सन्तुष्ट तथा तपोनिष्ठ होना चाहिये । क्रिया परायण हो तथा अन्य देवता में आस्था रखने वाला नहीं होना चाहिये । वह वैष्णव तत्त्वतः भगवन्मय तथा भगवान् के किसी वैभव रूप में अथवा व्यूहरूप में बुद्धिमान भक्त हो । किसी आप्त आगम तथा वैष्णव आगम का ज्ञाता तथा भक्तिपूर्वक उसे अपने लक्ष्य में स्थिर होना चाहिए ॥ १०७-१०८ ॥ दिव्यायतनलक्षणकथनम् तस्यापि तादृशानां च भविनामनुकम्पया ॥ १०९ ॥
१५६ सात्वतसंहिता व्यक्ततामगमद् देवः स्वयमेव धरात्मना । यत्र मोक्षप्रदं विद्धि दिव्यमायतनं हि तत् ॥ ११० ॥ प्रसङ्गाद् दिव्यायतनलक्षणमाह—तस्यापीति सार्धेन ॥ १०९-११० ॥ अब प्रसङ्गाद् दिव्यायतन का लक्षण कहते हैं—जहाँ उस प्रकार के भगवद् भक्तों की अनुकम्पा से उसके लिये भी इस पृथ्वी स्वरूप से देव (प्रभु) स्वयं व्यक्त हों और जो मोक्षप्रद हों, वह दिव्य आयतन है ॥ ११० ॥ सिद्धायतनलक्षणकथनम् मन्त्रसिद्धैश्च विबुधैर्मुनिमुख्यैस्तथामलैः । शान्तये देशजानां त्वप्यात्मनश्चापि कीर्तये ॥ १११ ॥ मन्त्राकृतिमयं ध्यात्वा पाषाणं वसुधातले । पावनं वा ततं वृक्षं ज्ञात्वा वा देवताश्रयम् ॥ ११२ ॥ कृत्वा तच्छक्तिसंरुद्धं विसृज्य च तदाश्रितम् । विद्धि सर्वेश्वरस्यैवं स्थितं निलयलक्षणम् ॥ ११३ ॥ स्वमन्त्रसन्निधिं तत्र कृत्वा तद्विग्रहान्वितम् । पूजितं पत्रपुष्पाद्यैस्तत्सिद्धायतनं स्मृतम् ॥ ११४ ॥ सिद्धायतनलक्षणमाह—मन्त्रसिद्धैरिति प्रक्रम्य तत्सिद्धायतनं स्मृतमित्यन्तम् । विसृज्य च तदाश्रितमित्यत्र विसर्जनप्रकारश्चतुर्विंशे परिच्छेदे— इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च । क्षमस्वावतरान्यत्र संतिष्ठात्र चिदात्मना ॥—(२४।८५) इतिवक्ष्यमाणो ज्ञेयः । अत्र— स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् ॥ मुनिमुख्यैस्तु गन्धर्वैर्यक्षविद्याधरैरपि । रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥ ..... स्थापितं मनुजेन्द्रैस्तु ह्यनुवेदादिकोविदैः । —(पा०सं० १०।३१७-३१८, ३२१) इति पारमेश्वरोक्तसैद्धाद्यष्टविधभेदानामपि सैद्धायतन एवान्तर्भावो बोद्ध्यः, सिद्धगन्धर्वादीनामपि विबुधेष्वन्तर्भावात्, मुनिमुख्यैस्तथामलैरित्यत्रामलशब्देनान्येषा- मपि सूचितत्वाच्च ॥ १११-११४ ॥ अब सिद्धायतन का लक्षण कहते हैं—जहाँ मन्त्र सिद्ध देवताओं एवं निष्कपट मुनियों ने उस देश में रहने वालों की शान्ति के लिये तथा अपनी कीर्ति के लिये मन्त्राकृति मय पत्थर में ध्यान किया है, अथवा जहाँ कोई पवित्र वृक्ष है,
सप्तमः परिच्छेदः १५७ अथवा कोई देवता का आश्रम है उसमें शक्ति को निरोध कर शक्ति स्थापित किया है, उसे सर्वेश्वर भगवान् विष्णु का स्थान समझना चाहिये ॥ १११-११३ ॥ अपने मन्त्र से सन्निधि कर जहाँ उस साक्षात्कृत को विग्रह स्वरूप में स्थापित किया है और जो पत्र-पुष्पादि से पूजित है । हे सङ्कर्षण! उसे आप सिद्धायतन समझिए ॥ ११४ ॥ मानुषायतनलक्षणकथनम् फलाप्तये तु विप्राद्यैः स्वकुलोद्धारणाय च । स्थापितं भगवद्विम्बं ज्ञेयमायतनं हि तत् ॥ ११५ ॥ मानुषायतनमाह—फलाप्तय इति ॥ ११५ ॥ अब मानुषायतन कहते हैं—जहाँ अपनी अभीष्ट प्राप्ति के लिये तथा अपने कुल के उद्धार के लिये ब्राह्मणादिकों ने भगवद् बिम्ब (=भक्त) की स्थापना की है उसे भगवदायतन समझना चाहिये ॥ ११५ ॥ क्रियाङ्गभागं यातस्य सर्वगस्य च वै विभोः । विद्धि सर्वेश्वरस्यैवं स्थितं नियतलक्षणम् ॥ ११६ ॥ उक्तमर्थं निगमयति—क्रियेति ॥ ११६ ॥ वैष्णवक्षेत्रप्रमाणम् प्रासादद्वारदेशाच्च यत्र शङ्खध्वनिक्षयः । पूर्वादि सर्वदिक् तावत् क्षेत्रं भवति वैष्णवम् ॥ ११७ ॥ मानुषभगवन्मन्दिरस्य परितो वैष्णवक्षेत्रप्रमाणमाह—प्रासादेति । विमानद्वारसमीपे कृतः शङ्खनादो यावद्दूरं श्रूयते, तावदन्तं परितो वैष्णवक्षेत्रमिति भावः ॥ ११७ ॥ अब उक्त अर्थ का उपसंहार करते हैं—सर्वग भगवान् विभु के तथा सर्वेश्वर के क्रियाङ्ग से उत्पन्न नियत लक्षण में जो स्थित है उस मानुष स्थापित वैष्णव क्षेत्र का प्रमाण कहते हैं—विष्णु के प्रासाद स्थान से तथा द्वार देश से उत्पन्न हो कर जहाँ तक शङ्खध्वनि जाए ऐसा पूर्व से लेकर उत्तर दिशापर्यन्त सभी वैष्णव क्षेत्र कहा जाता है ॥ ११६-११७ ॥ सिद्धावतारिताद् देवात् तदेतद् द्विगुणं स्मृतम् । त्रिगुणं च स्वयंव्यक्ताद् देहान्ते भावितात्मनाम् ॥ ११८ ॥ सैद्धस्थाने तद्द्विगुणं स्वयंव्यक्तस्थाने तत्रिगुणं च वैष्णवक्षेत्रमानमाह— सिद्धावतारितादिति त्रिभिः पादैः ।
सिद्ध स्थान में उस शङ्खजनित शब्द स्थान से द्विगुणित स्वयं व्यक्त स्थान से वह 'त्रिगुण वैष्णव क्षेत्र' कहा जाता है ॥ ११८ ॥ फलं सालोक्यतापूर्वं परिज्ञेयं क्रमाद् यतः । वैष्णवक्षेत्रस्य स्वयंव्यक्तत्वाभेदेन सालोक्यादि-फलप्रदत्वमाह—देहान्त इति त्रिभिः पादैः । यतो वैष्णवक्षेत्रादित्यर्थः । सालोक्यता-पूर्वमित्यत्र पूर्वपदेन सामीप्य- सारूप्यसायुज्यानि गृह्यन्ते । क्रमाद् मानुषादिक्रमेणेत्यर्थः । ननु देवतान्तरप्राप्तौ हि सालोक्यादिभेदावाप्तिः, भगवत्प्राप्तौ तु “परमं साम्य- मुपैति” (मुण्ड० ३।१।३), “मम साधर्म्यमागताः” (भ०गी० १४।१), “भोग- मात्रसाम्यलिङ्गाच्च” (ब्रह्म० ४।४।११) इति श्रुतिस्मृतिसूत्रैः सालोक्यादिचतुष्टय- मध्येकैकस्यैव संभवतीति प्रतिपादितम् । अत्रोक्तं सालोक्याद्येकैकफलभेदमात्रावाप्ति- कथनं कथं तद्विरुद्धमिति चेत्, सत्यम् । इयमाशङ्का निगमान्तदेशिकैरेव सच्चरित्र- रक्षायां परिहृता । तथाहि—“भगवत्प्राप्तावपि विष्णुलोकादिषु द्वारपालादिष्विव तथाविधभेदोऽस्तीति तदपेक्षिणां प्राप्यभेदद्योतनाय पृथङ्निर्देशः । यथाहुः— लोकेषु विष्णोर्निवसन्ति केचित् सामीप्यमिच्छन्ति च केचिदन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥ इति (पृ० ३१) यद्वा क्रमादित्यत्र सालोक्यसामीप्यादिक्रमेणेत्यर्थवर्णने नास्त्येतदाशङ्काया एवा- वकाशः, सर्वस्यापि क्षेत्रस्य सालोक्यादिफलचतुष्टयप्रदत्वसम्भवात् ॥ ११९ ॥ उस वैष्णव क्षेत्र का स्वयं व्यक्तत्वादि भेद से सालोक्यादि प्रदत्त्व कहते हैं— इन वैष्णव क्षेत्रों का फल सालोक्य, सामीप्य, सायुज्य और सारूप्यादि मुक्ति प्रदान समझना चाहिये ॥ ११९ ॥ सालोक्यादिमोक्षविचारः दुष्टेन्द्रियवशाच्चित्तं नृणां यत्कल्मषैर्वृतम् ॥ ११९ ॥ तदन्तकाले संशुद्धिं याति नारायणालये । व्रतान्येतानि यः कुर्यादभिसन्धाय चेतसा ॥ १२० ॥ अभीष्टमतितीव्रेण तदाप्नोत्यचिरात् तु सः । वैष्णवक्षेत्रस्य मनःपरिशुद्ध्यावहत्वं चाह—दुष्टेति त्रिभिः पादैः । यत इत्यस्या- प्यनुषङ्गः कार्यः । भगवन्मन्दिरे व्रतानुष्ठानस्य शीघ्रफलप्रदत्वमाह—नारायणालय इति ॥ ११९-१२१ ॥ श्रद्दधानैरतस्तस्माद् दृष्टादृष्टफलाप्तये ॥ १२१ ॥ व्रतान्येतानि कर्तव्यान्यभिसन्धाय चेतसा । अत एतेषां व्रतानामवश्यानुष्ठेयत्वमाह—श्रद्दधानैरिति ॥ १२१-१२२ ॥
सप्तमः परिच्छेदः १५९ जिन मनुष्यों का चित्त दुष्ट इन्द्रियों के कारण पाप समन्वित रहता है वह इस नारायण क्षेत्र में मृत्यु होने से शुद्ध हो जाता है । जो चित्त से अच्छी प्रकार विचार कर इन व्रतों को करता है, वह इस व्रत के अत्यन्त तीव्र प्रभाव से शीघ्रातिशीघ्र अभीष्ट प्राप्त करता है, इसलिये श्रद्धालु पुरुष समस्त दृष्टादृष्ट फल प्राप्ति के लिये अपने चित्त को दृढ़ कर इन व्रतों को अवश्य करे ॥ ११९-१२२ ॥ नावसादस्तु कर्तव्यो व्रतभङ्गात् कदाचन ॥ १२२ ॥ सङ्कल्पादेव भगवांस्तत्त्वतो भावितात्मनाम् । व्रतान्तमखिलं कालं सेचयत्यमृतेन तु ॥ १२३ ॥ आरब्धे व्रते मध्ये येन केनापि हेतुना विघ्नितेऽपि ततो न भेतव्यम् । यतो व्रतं करिष्यामीति संकल्पमात्रादेवारभ्य व्रतसमाप्तिपर्यन्तं यावदनुष्ठानं संभवति, तावतैव फलसिद्धिर्भवतीत्याह—नावसाद इति सार्धेन । अवसादो न कार्यः, अधैर्यं नाधि- गन्तव्यमित्यर्थः । अयमेवार्थो वङ्गिवंशेश्वरैः प्रतिपादितः सच्चरित्ररक्षायामुदाहृतः— एवमेकदिनं वाथ द्विदिनं त्रिदिनं तु वा ॥ मासं संवत्सरं वापि यावज्जीवितमेव वा । वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखी ॥ प्रारब्धे मध्यतो विघ्नाद् विच्छिन्नेऽप्यत्र कर्मणि । नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ॥ प्रारब्धेष्वसमाप्तेषु विच्छिन्नेष्वन्यकर्मसु । भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ॥ कृतः स्वल्पांशकोऽप्यस्य स्थित्वा सुचिरमक्षयः । त्रायते च स्वकर्तारं स्वशक्त्या भवभीतितः ॥ इति । नन्विदं भगवदाराधनविषयम्, नहि व्रतानुष्ठानविषयमिति चेन्न, अस्य व्रतस्यापि भगवदाराधनरूपत्वात्, भगवदाराधनस्यापि शातवार्षिकव्रतरूपत्वात् । अत एवं वङ्गि- वंशेश्वरैर्नित्याराधनप्रकरणेऽपि— त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति । संकल्पसिद्धयै भगवन् पूरयाऽस्य मनोरथान् ॥ —(श्लो० ३९) इति व्रतविधाने वक्ष्यमाण (८।७-८) श्लोकस्यैव संगृहीतत्वादुभयोरप्यविशेषो बोध्यः ॥ १२२-१२३ ॥ ज्ञात्वैवं बद्धलक्ष्येण भवितव्यं सदैव हि । प्राप्तये सर्वकामानां संसारभयभीरुणा ॥ १२४ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां अमन्त्रकव्रतनाम सप्तमः परिच्छेदः ॥ ७ ॥