सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 218, कुल 837 में से
संदर्भ में पढ़ेंसप्तमः परिच्छेदः १५९ जिन मनुष्यों का चित्त दुष्ट इन्द्रियों के कारण पाप समन्वित रहता है वह इस नारायण क्षेत्र में मृत्यु होने से शुद्ध हो जाता है । जो चित्त से अच्छी प्रकार विचार कर इन व्रतों को करता है, वह इस व्रत के अत्यन्त तीव्र प्रभाव से शीघ्रातिशीघ्र अभीष्ट प्राप्त करता है, इसलिये श्रद्धालु पुरुष समस्त दृष्टादृष्ट फल प्राप्ति के लिये अपने चित्त को दृढ़ कर इन व्रतों को अवश्य करे ॥ ११९-१२२ ॥ नावसादस्तु कर्तव्यो व्रतभङ्गात् कदाचन ॥ १२२ ॥ सङ्कल्पादेव भगवांस्तत्त्वतो भावितात्मनाम् । व्रतान्तमखिलं कालं सेचयत्यमृतेन तु ॥ १२३ ॥ आरब्धे व्रते मध्ये येन केनापि हेतुना विघ्नितेऽपि ततो न भेतव्यम् । यतो व्रतं करिष्यामीति संकल्पमात्रादेवारभ्य व्रतसमाप्तिपर्यन्तं यावदनुष्ठानं संभवति, तावतैव फलसिद्धिर्भवतीत्याह—नावसाद इति सार्धेन । अवसादो न कार्यः, अधैर्यं नाधि- गन्तव्यमित्यर्थः । अयमेवार्थो वङ्गिवंशेश्वरैः प्रतिपादितः सच्चरित्ररक्षायामुदाहृतः— एवमेकदिनं वाथ द्विदिनं त्रिदिनं तु वा ॥ मासं संवत्सरं वापि यावज्जीवितमेव वा । वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखी ॥ प्रारब्धे मध्यतो विघ्नाद् विच्छिन्नेऽप्यत्र कर्मणि । नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ॥ प्रारब्धेष्वसमाप्तेषु विच्छिन्नेष्वन्यकर्मसु । भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ॥ कृतः स्वल्पांशकोऽप्यस्य स्थित्वा सुचिरमक्षयः । त्रायते च स्वकर्तारं स्वशक्त्या भवभीतितः ॥ इति । नन्विदं भगवदाराधनविषयम्, नहि व्रतानुष्ठानविषयमिति चेन्न, अस्य व्रतस्यापि भगवदाराधनरूपत्वात्, भगवदाराधनस्यापि शातवार्षिकव्रतरूपत्वात् । अत एवं वङ्गि- वंशेश्वरैर्नित्याराधनप्रकरणेऽपि— त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति । संकल्पसिद्धयै भगवन् पूरयाऽस्य मनोरथान् ॥ —(श्लो० ३९) इति व्रतविधाने वक्ष्यमाण (८।७-८) श्लोकस्यैव संगृहीतत्वादुभयोरप्यविशेषो बोध्यः ॥ १२२-१२३ ॥ ज्ञात्वैवं बद्धलक्ष्येण भवितव्यं सदैव हि । प्राप्तये सर्वकामानां संसारभयभीरुणा ॥ १२४ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां अमन्त्रकव्रतनाम सप्तमः परिच्छेदः ॥ ७ ॥